ग्रंथ पाठ
स्कन्द पुराण · अध्याय 7.178
7.178.1
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्माद्दक्षिणतः स्थितम् ॥
भार्गवेश्वरनामानं सर्वपापप्रणाशनम्
7.178.2
यस्तं पूजयते देवि दिव्यपुष्पोपहारकैः ॥
स भवेत्कृतकृत्यस्तु सर्वकामैः समृद्धिमान्
7.178.178
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भार्गवेश्वरमाहात्म्यवर्णनं- नामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0