भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.177

7.177.1

॥ ईश्वर उवाच ॥ ॥
तस्यैव पूर्वदिग्भागे लकुलीशस्तु मूर्तिमान् ॥
स्वयं तिष्ठति देवेशि कृत्वा घोरं तपः पुरा

7.177.2

संस्थितः पापशमने तत्र स्थाने स्थलोपरि ॥
कार्तिक्यां कृत्तिकायोगे यस्तं पूजयते नरः

7.177.3

स पूज्यते महादेवि सर्वैरपि सुरासुरैः

7.177.177

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये लकुलीशमाहात्म्यवर्णनंनाम सप्तसप्तत्युत्तरशततमो ऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc