भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.151

7.151.1

॥ ईश्वर उवाच ॥ ॥
तस्यैव दक्षिणे भागे तृतीयो भैरवः स्थित ॥
ब्रह्मकुण्डसमीपे तु सावित्र्या संप्रतिष्ठितः

7.151.2

आराध्य तत्र देवेशं देवानां प्रपितामहम् ॥
वायुभक्षा निराहारा तोषयामास शंकरम्

7.151.3

तुष्टः प्राहेश्वरो देवि शंकरस्तां वराननाम्

7.151.4

योऽस्मिन्कुंडे नरः स्नात्वा मल्लिंगं पूजयिष्यति ॥
पौर्णमास्यां विधानेन गन्धपुष्पादिभिः क्रमात्

7.151.5

दास्यं तस्य वरा निष्टान्मनसाऽभीसिताञ्छुभान्

7.151.6

महापातकयुक्तोऽपि मुक्तो भवति पातकैः ॥
सर्वकामसमृद्धात्मा स भूयाद्वृषभध्वजः

7.151.7

इत्येवमुक्त्वा देवेशि ततोऽन्तर्धानमागतः ॥
सावित्री ब्रह्मलोके तु गता संस्थाप्य शंकरम्

7.151.8

इति संक्षेपतः प्रोक्तं सावित्रीशमहोदयम् ॥
शृणुयाद्यस्तु मतिमान्स मुक्तः पातकैर्भवेत्

7.151.151

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्ये सावित्रीश्वरभैरवमाहात्म्य- वर्णनंनामैकपंचाशदुत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc