भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.146

7.146.1

। ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि धर्मराजप्रतिष्ठितम् ॥
यमेश्वरं महादेवं तस्यै वोत्तरतः स्थितम्

7.146.2

यदा शप्तो धर्मराजश्छायया वरवर्णिनि ॥
तदा तस्यापतत्पादः स च दुःखान्वितोऽभवत्

7.146.3

ततः प्राभासिके क्षेत्रे तपस्तेपे महातपाः ॥
स्थापयामास लिंगं तु तत्र देवस्य शूलिनः

7.146.4

तस्य तुष्टो महादेवस्ततः प्रत्यक्षतां गतः ॥
अब्रवीद्धर्म भद्रं ते वरं वरय चेप्सितम्

7.146.5

तदाऽब्रवीद्धर्मराजः पादः प्रपतितो मम ॥
प्रसादात्तव देवेश जायतां पुनरेव हि

7.146.6

एतल्लिंगं सुरश्रेष्ठ यन्मया निर्मितं तव ॥
एतद्ये भक्तिसंयुक्ताः पश्यंति प्राणिनो भुवि

7.146.7

तेषां तव प्रसादेन भूयात्पापविमोक्षणम्

7.146.8

एवं भविष्यतीत्युक्ता ह्यन्तर्धानं गतो हरः ॥
यमोऽपि लब्धपादस्तु पुनरेव दिवं ययौ

7.146.9

तस्मिन्दृष्टे सुरश्रेष्ठ यमलोकसमुद्भवम् ॥
न भयं विद्यते नृणामपि दुष्कृतकारिणाम् ॥

7.146.7.1.146.10

भ्रातृद्वितीयासंयोगे स्नात्वा पुष्करिणीजले ॥
यमेश्वरसमीपस्थो यमेशमवलोकयेत्

7.146.11

तिलपात्रं प्रदातव्यं दीपं गाः कांचना दिकम् ॥
यमदेवं समुद्दिश्य मुच्यते सर्वपातकैः

7.146.146

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये यमेश्वरमाहात्म्यवर्णनंनाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc