भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.140

7.140.1

ततो गच्छेन्महादेवि नदीं चित्रपथां ततः ॥
ब्रह्मकुण्डसमीपस्थां चित्रादित्यस्य मध्यतः

7.140.2

यदा च चित्रः संनीतो यमदूतैः सुरप्रिये ॥
सशरीरो महाप्राज्ञो यमादेशपरायणैः

7.140.3

एवं ज्ञात्वा तु तत्रस्था भगिनी तस्य दुःखिता ॥
चित्रा नदी ततो भूत्वा स्वसा तस्य महात्मनः

7.140.4

प्रविष्टा सागरे देवि अन्वेषन्ती च बांधवम् ॥
ततश्चित्रपथानाम तस्याश्चक्रुर्द्विजातयः

7.140.5

एवं तत्र समुत्पन्ना सा नदी वरवर्णिनि

7.140.6

तस्यां स्नात्वा नरो यस्तु चित्रादित्यं प्रपश्यति ॥
स याति परमं स्थानं यत्र देवो दिवाकरः

7.140.7

अस्मिन्कलियुगे देवि अंतर्धानं गता नदी ॥
प्रावृट्काले च दृश्येत दुर्लभं तत्र दर्शनम्

7.140.8

स्नानं दानं विशेषेण सर्वपातकनाशनम्

7.140.9

भुक्तो वाप्यथवाऽभुक्तो रात्रौ वा यदि वा दिवा ॥
पर्वकालेऽथवाऽकाले पवित्रोऽप्यथवाऽशुचिः

7.140.7.1.140.10

यदैव दृश्यते तत्र नदी चित्रपथा प्रिये ॥
प्रमाणं दर्शनं तस्या न कालस्तत्र कारणम्

7.140.11

दृष्ट्वा नदीं महादेवि पितरः स्वर्गसंस्थिताः ॥
गायंति तत्र सामानि नृत्यन्ति च हसंति च

7.140.12

अस्माकं वंशजः कश्चिच्छ्राद्धमत्र करिष्यति ॥
यावत्कल्पं तथाऽस्माकं प्रीतिमुत्पादयिष्यति

7.140.13

एवं ज्ञात्वा नरस्तत्र स्नानं श्राद्धं च कारयेत् ॥
सर्वपापविनाशार्थं पितॄणां प्रीतये तथा ॥

7.140.14

इत्येतत्कथितं देवि यथा चित्रपथा नदी ॥
प्रभासक्षेत्रमासाद्य संस्थिता पापनाशिनी

7.140.140

इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चित्रपथानदीमाहात्म्यवर्णनंनाम चत्वारिंशदुत्तरशततमोऽध्यायः ॥।

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc