भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 7.14-4

7.14-4.1

॥ सारस्वत उवाच ॥ ॥
वस्त्रापथे महाक्षेत्रे नगरे वामने पुरा ॥
पुत्रशोकाभिसंतप्तो वसिष्ठो भगवानृषिः

7.14-4.2

आजगाम तपस्तप्तुं स्वर्णरेखानदीतटे ॥
ईशानकोणे नगरात्स्वर्णरेखानदीजले

7.14-4.3

स्नात्वा ध्यात्वा शिवं देवं मनसाऽचिन्तयद्यदा ॥
तदा रुद्रः समायातस्त्रिनेत्रो वृषभध्वजः ॥
महर्षे तव तुष्टोऽहं किं करोमि वदस्व तत्

7.14-4.4

॥ वसिष्ठ उवाच ॥ ॥
यदि तुष्टो महादेव वरो देयो ममाधुना ॥
तदाऽत्र भवता स्थेयं यावदाचंद्रतारकम्

7.14-4.5

अत्र स्नानं करिष्यंति ये नराः पापकर्मिणः ॥
तेषां पापक्षयो देव कर्तव्यो भवता सदा

7.14-4.6

नरा ये पापकर्माणः पूजयंति त्रिलोचनम् ॥
तान्नरान्नय देवेश विमानैः शिवमंदिरम्

7.14-4.7

॥ सारस्वत उवाच ॥ ॥
तथेत्युक्ता हरो देवस्तत्रैवांतर धीयत ॥
हिरण्यकशिपुं हत्वा नरसिंहो महाबलः ॥
त्रैलोक्यमिंद्राय ददौ कालरुद्रं स्वयं ययौ

7.14-4.8

तदन्वये बलिर्जातः स चातीव बला धिकः ॥
एकातपत्रां पृथिवीं बलिश्चक्रे बलाधिकः ॥
अकृष्टपच्या सुजला धरित्री सस्यशालिनी

7.14-4.9

गन्धवंति च पुष्पाणि रसवंति फलानि च ॥
आस्कन्धफलिनो वृक्षाः पुटके पुटके मधु

7.14-4.7.2.14.10

चतुर्वेदा द्विजाः सर्वे क्षत्रिया युद्धकोविदाः ॥
गोषु सेवापरा वैश्याः शूद्राः शुश्रूषणे रताः ॥

7.14-4.11

सदाचारा जनपदा ईतिव्याधिविवर्जिताः ॥
हृष्टपुष्टजनाः सर्वे सदानंदाः सदोद्यताः

7.14-4.12

कुंकुमागुरुलिप्तांगाः सुवेषाः साधुमंडिताः ॥
दारिद्र्यदुःखमरणैर्विमुक्ताश्चिरजीविनः

7.14-4.13

दीपोद्द्योतितभूभागा रात्रावपि यथा दिने ॥
विचरंति तथा मर्त्या देवा देवालये यथा ॥

7.14-4.14

पृथिव्यां स्वर्गरूपायां राज्यं चक्रेऽसुरो बलिः ॥
नित्यं विवाहवादित्रैर्नादितं भूपमंदिरम्

7.14-4.15

धरित्रीं बुभुजे दैत्यो देवराजो यथा दिवि ॥
देवेन्द्रो बलिना नित्यं यज्ञैः संतोषितस्तदा

7.14-4.16

देवानां दानवानां च नास्ति युद्धं परस्परम् ॥
एक एव महीपालो युद्धं नास्ति धरातले

7.14-4.17

सपत्नककलिर्नाम नास्ति युद्धं हरेर्गजैः ॥
न सर्प्पनकुलैर्नित्यं न बिडालैश्च मूषकैः

7.14-4.18

मैत्रीभावं गतं सर्वं जगत्स्थावर जंगमम् ॥
त्रैलोक्यभ्रमणं कृत्वा नारदो नंदने वने

7.14-4.19

गतो न पश्यते युद्धं त्रैलोक्ये सचराचरे ॥
तावत्तस्योदरे पीडा महती समजायत

7.14-4.7.2.14.20

न मे स्नानादिना कार्यं तर्प्पणैः किं प्रयोजनम् ॥
जपहोमादिना सर्वमन्यथा मम चेष्टितम्

7.14-4.21

तत्स्नानं यत्र युध्यन्ते गजा दंतविघट्टनैः ॥
सा संध्या यत्र निहतैः कबन्धैर्भूर्विभूषिता

7.14-4.22

कुंतघातविनिर्भिन्नगजकुम्भोद्भवासृजा ॥
तृप्यंति यत्र क्रव्यादास्तर्पणं तन्मम प्रियम्

7.14-4.23

गजशीर्षैरगम्यास्ते निहताः क्षत्रिया रणे ॥
स होमो यत्र हूयंते गजाश्च नरपुंगवाः

7.14-4.24

शब्दाग्नौ नारदस्यायं होमस्त्रै लोक्यविश्रुतः ॥
छिन्नपादशिरोहस्तैरंतरांत्रविलबितैः

7.14-4.25

यदर्च्यते भूमितलं तन्मे नित्यं सुरार्चनम् ॥
किं देवैर्दिवि मे कार्यं किं मनुष्यैर्धरातले

7.14-4.26

पन्नगैः किं तु पाताले न युध्यन्ते परस्परम् ॥
तथा करिष्ये देवेन्द्रादुपेन्द्राच्च धरातले

7.14-4.27

रसातलं बलिर्यातु सत्यमस्तु वचो मम ॥
जीवितेनापि राज्येन यदा दामोदरं हरिम्

7.14-4.28

तोषयिष्यति यत्नेन तदेन्द्रोऽसौ भविष्यति ॥
देवेन्द्रो वृत्रहा भूत्वा भ्रष्टराज्यो भविष्यति

7.14-4.29

यदा वस्त्रापथे गत्वा भवं भावेन पूजयेत् ॥
सुराधिपस्तदा भूयो ब्रह्महत्याविवर्जितः

7.14-4.7.2.14.30

अनेन मन्त्रजाप्येन स शांतोदरवे दनः ॥
नारदो देवराजस्य समीपं सहसा ययौ

7.14-4.31

सिंहासनं समारुह्य नन्दने संस्थितो हरिः ॥
आस्ते परिवृतो देवेर्देवराजो महाबलः ॥

7.14-4.32

निरीक्षमाणो नृत्यन्तीं रंभां तां सुरसुन्दरीम्॥
आयांतं ददृशे देवो नारदं विस्मयान्वितः

7.14-4.33

अहो विरुद्धो भगवान्नारदो मयि दृश्यते ॥
नृत्यते किं न वा नृत्ये गीयते किं न गीयते

7.14-4.34

वाद्यतां तालमानैः किं यावच्चिंतापरो हरिः ॥
ऋषिः समागतस्तावज्जलाभ्युक्षणत त्परः

7.14-4.32

सिंहासनं परित्यज्य समुत्थायाग्रतः स्थितः ॥
स्वागतेनाभिवाद्याथ बभाषे नारदं हरिः

7.14-4.36

महर्षे स्वागतं तेऽद्य कुतो वाऽऽग म्यते त्वया ॥
स्नाने संध्यार्चने होमे कुशलं तव विद्यते

7.14-4.37

इति प्रोक्तो विहस्याथ बभाषे नारदो हरिम् ॥
यद्येतज्जायते मह्यं किमन्येन प्रयोजनम्

7.14-4.38

प्रेक्षणीकस्य ते स्थानं नाहं पश्यामि स्वर्पते ॥
यावद्राज्यं बलेस्तावत्त्वया मे न प्रयोजनम्

7.14-4.39

आदित्याद्या ग्रहाः सर्वे काल मानेन योजिताः ॥
आहुत्या प्लाविता मेघा वर्षंति हृषिता भुवि

7.14-4.7.2.14.40

रोगादिमरणं नास्ति यमो धर्मेण पीडितः

7.14-4.42

एकातपत्रां पृथिवीं बुभुजे स नराधिपः ॥
त्रैलोक्यनाथेति महानृपेति संग्रामविद्याकुशलेति नित्यम् ॥
त्रैलोक्यलक्ष्मीकुचकामुकेति संस्तूयते चारणबंदिवृन्दैः ।४१॥
ब्रह्मेति कृष्णेति हरेति भूमाविंद्रेति सूर्येति धनाधिपेति ॥
देवारिनाथेति सुराधिपेति जेगीयते चारणबंदिवृन्दैः

7.14-4.43

युद्धं विना दैत्यगणा हसंति मत्ताः प्रमत्ताः करिणो नदंति ॥
रथाधिरूढाः पुरुषा भ्रमंति सेनाधिपा स्त्रीषु गृहे रमंति

7.14-4.44

यज्ञाग्निधूमेन नभो विराजते सुवर्णरूपा पृथिवी विराजते॥
शून्यं तु वेदैर्भुवनं च शोभते धिष्ण्यं बलेर्दैर्त्यैगणैश्च शोभते

7.14-4.45

बलिर्न जानाति सुराधिपं त्वां सुराश्च सर्वे बलियज्ञभोजिनः ॥
त्वमेव तेऽरिं हृदि चिंतय स्वयं युक्तं तवेदं कथितं मयेति

7.14-4.46

रंभा न राजते रंगे मेनका त्वां न मन्यते ॥
तिलोत्तमापि मनुते बलिराजं सुरेश्वरम्

7.14-4.47

उर्वशी चैव तं याति सुकेशा सह भाषते ॥
मञ्जुघोषा मुखं वक्त्रं कृत्वा त्वां न निरीक्षते

7.14-4.48

पुलोमा पुलकोद्भेदं न करोति बलिं विना ॥
पौलोमी पुरतो गत्वा बलिं स्तौति च मंथरा

7.14-4.49

नारदः पर्वतश्चैव हाहा हूहूश्च तुंबुरुः ॥
बलिराज्यं प्रशंसंति रुद्रस्याग्रे मया श्रुतम् ॥

7.14-4.7.2.14.50

आज्याहुतीभिः सन्तुष्टा ऋषयो ब्रह्मसद्मनि ॥
ब्रह्मणोऽग्रे प्रशंसंति तदेवं कथितं मया

7.14-4.51

बृहस्पतिर्यदाचष्टे न तद्वाच्यं मया तव ॥
इंद्राणी बलिनं मत्वा बलिं चित्रेषु पश्यति

7.14-4.52

अनेन वाक्येन सुराधिपस्तु चचाल कोपावरितस्तदानीम् ॥
गजेति वज्रेति जगाद सूतं समानयासिं कवचं रथं च

7.14-4.53

रथेन सूर्यो मरुतो गजेन वृषेण रुद्रो महिषेण सौरिः ॥
वाद्यंतु वाद्यानि रणाय मेऽद्य चण्डी गणेशास्त्वरिताः प्रयातु

7.14-4.54

दृष्ट्वा सुरेन्द्रं संक्रुद्धं बृहस्पतिरुदारधीः ॥
ऋषिमध्ये गतो विद्वान्बभाषे समयोचितम्

7.14-4.55

सामाद्या नीतयः प्रोक्ताश्चतस्रो मनुना पुरा ॥
सामसाध्येषु कार्येषु दण्डस्तेन न पात्यताम्

7.14-4.56

अतो ह्युपेन्द्र्माहूय मंत्रयन्तु सुरोत्तमाः ॥
तदधीनं जगत्सर्वं त्रैलोक्यं सचराचरम्

7.14-4.57

विनष्टेषु च कार्येषु तस्य वाच्यं शुभाशुभम् ॥
स एव प्रथमं गच्छेत्पृथिव्यां स्वार्थसिद्धये

7.14-4.58

तथेति देवैर्विज्ञप्तस्तथा चक्रे सुरेश्वरः ॥
मन्दरेऽथ गिरौ विष्णुः सत्यलोकात्समागतः

7.14-4.59

ऋषयस्तत्र ते यांतु समानेतुं जनार्द्दनम् ॥
इत्युक्तो नारदः स्वर्गात्स्नातुं प्राप्तः स मन्दरे

7.14-4.7.2.14.60

गौतमोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ कश्यपः ॥
जमदग्निर्वसिष्ठश्च संप्राप्ता हरिमन्दिरे

7.14-4.61

गिरौ गंगा जले स्नानं संध्यां चक्रे स नारदः ॥
यावदास्ते तदा हृष्टा वालखिल्या महर्षयः

7.14-4.62

विनयेनाभिवाद्याथ कथयामास नारदः ॥
ऋषयो मन्दरे प्राप्ता विष्णुं नेतुं सुरालये

7.14-4.63

ऋषयो दर्शनं कर्त्तुं भवतामपि युज्यते ॥
तदेतद्वचनं श्रुत्वा हर्षितास्ते महर्षयः

7.14-4.64

अंगुष्ठपर्वमात्रांस्तान्वामनान्हरिमन्दिरे॥
गतान्गंगाजले स्नातुं वालखिल्यान्पुरो हरिः

7.14-4.65

जहास वामनान्सर्वान्भाविकार्यबलात्ततः॥
ब्रह्मपुत्रा वालखिल्याः सर्वे ते शंसितव्रताः

7.14-4.66

लज्जान्विताः क्रोधपरा उच्चैरूचुः परस्परम् ॥
केनापि देवकार्येण वामनोऽयं भविष्यति

7.14-4.67

ऋषिभिर्वि ष्णुना सर्वे प्रतिबोध्य प्रसादिताः ॥
भाग्यमोक्षः कदा विष्णोर्भविष्यति तदुच्यताम्

7.14-4.68

प्रभासादधिकं क्षेत्रं यदा वस्त्रापथं भवेत् ॥
भविष्यति तदा वृद्धिर्ध्रुवमण्डलव्यापिनी ॥
तथा वस्त्रापथं क्षेत्रं भविष्यति यवाधिकम्

7.14-4.69

दृष्ट्वा सोमेश्वरं देवं दोषमुक्तो भविष्यति ॥
असाध्यसाधनी शक्तिर्भविष्यति स्थिरा तव

7.14-4.7.2.14.70

वस्त्रापथे सोमनाथं यः पश्यति स पश्यति ॥
इन्द्रोपेन्द्रौ समालिंग्याथासीनौ तौ वरासने

7.14-4.71

॥
॥ विष्णुरुवाच ॥ ॥
किं ते कार्यं देवराज तदवश्यं करोम्यहम्

7.14-4.72

॥ इन्द्र उवाच ॥ ॥
हिरण्यकशिपोर्वंशे बलिर्दैत्यो महा बलः ॥
तेनेदं सकलं व्याप्तं देवा यज्ञभुजः कृताः

7.14-4.73

देवलोके भूमिलोको गतः सर्वोऽपि केशव ॥
यावन्नो विकृतिं याति पूर्ववैरमनुस्मरन् ॥
भ्रष्टराज्यो बलिस्तावत्पातालमधितिष्ठतु

7.14-4.74

सूर्यसोमान्वये कश्चिद्राजा भवतु भूतले

7.14-4.75

॥ सारस्वत उवाच ॥ ॥
इत्येतद्वचनं श्रुत्वा स्वयं संचिन्त्य चेतसा ॥
तथा करिष्ये तं प्रोच्य मुनीन्प्राह जनार्दनः

7.14-4.76

ऋषयस्तत्र गच्छंतु कारयन्तु महामखम् ॥
अहं तत्रागमिष्यामि साधयिष्यामि तं बलिम्

7.14-4.77

इत्युक्ता मुनयः सर्वे गतास्ते यज्ञमण्डपे ॥
द्वादशाहो महायज्ञः प्रारब्धः सर्वदक्षिणः

7.14-4.78

सुराष्ट्रदेशं विख्यातं क्षेत्रं वस्त्रापथं नृप ॥
तस्य दक्षिणदिग्भागे बलेः सिद्धं महापुरम्

7.14-4.79

क्षेत्राद्बहिः समारब्धो यज्ञः सर्वस्वदक्षिणः ॥
शुक्रेणामन्त्रिताः सर्वे मुनयो यज्ञकर्मणि ॥
अतिहृष्टो बलिर्यज्ञे ददौ दानान्यनेकधा

7.14-4.7.2.14.80

स्वर्णपात्रेषु सर्वेषु दीयते भोजनं बहु ॥
अतिथिर्ब्राह्मणो विद्वान्सर्वस्वेनापि पूज्यते ॥
दानाद्यज्ञो भवेत्पूर्णो दानहीनो वृथा भवेत्

7.14-4.81

एतस्मिन्नेव काले तु विष्णुर्वामनतां गतः ॥
मध्यदेशे चतुर्वेदो ब्राह्मणस्तीर्थयात्रिकः ॥
महोदरो ह्रस्वभुजः खञ्जपादो महाशिराः

7.14-4.82

महाहनुः स्थूलजंघः स्थूलग्रीवोऽतिलंपटः ॥
श्वेतवस्त्रो बद्धशिखश्छत्रोपानत्कमण्डलून्

7.14-4.83

द्रष्टुं तीर्थान्यनेकानि बभ्राम स महीतले ॥
सुराष्ट्रदेशे संप्राप्तः क्षेत्रे वस्त्रापथे द्विजः

7.14-4.84

स्वर्णरेखा नदीतीरे चिंतयामास वामनः ॥
प्रथमं किं भवं दृष्ट्वा यामि सोमेश्वरं शिवम्

7.14-4.85

अथ सोमेश्वरं पूज्य पश्चाद्यास्यामि मन्दरम् ॥
इति चिन्तापरो भूत्वा कृत्यं सञ्चिन्त्य चेतसा ॥
अत्र स्थितः सोमनाथं पूजयिष्यामि निश्चितम्

7.14-4.86

वस्त्रापथे महाक्षेत्रे भवं सोमेश्वरं वृथा ॥
पूजयंति जना नित्यं तथा कार्यं मया धुवम्

7.14-4.87

देशानामुत्तमो देशो गिरीणामुत्तमो गिरिः ॥
क्षेत्राणामुत्तमं क्षेत्रं नदीनामुत्तमा सरित्

7.14-4.88

दिव्यं वनं वनानां तु देवानामुत्तमो भवः ॥
यदा सोमेश्वरो देवो भूमिं भित्त्वा भविष्यति

7.14-4.89

तदाम्रमण्डले दिव्यं क्षेत्रमेतद्यवाधिकम् ॥
चैत्र शुक्लचतुर्दश्यामग्निसाधनतत्परः

7.14-4.7.2.14.90

ऊर्ध्वबाहुः सूर्यकाले भवं तावत्स पश्यति ॥
मध्यंदिनं परं याते दिननाथे विलंबिते

7.14-4.91

अग्नि तापांगसंतप्तस्तावत्पश्यति शंकरम् ॥
सोमनाथं शिवं शांतं सर्वदेवनमस्कृतम् ॥
अर्घ्येण पुष्पमिश्रेण जलमिश्रेण भामिनि

7.14-4.92

॥
॥ सारस्वत उवाच ॥ ॥
भूमिं भित्त्वाथ देवेशः स्वयं सोमेश्वरः स्थितः ॥
लिंगरूपो महादेवो यावदाब्रह्मवासरम्

7.14-4.93

॥ सोमेश्वर उवाच ॥ ॥
सिद्धस्त्वं मत्प्रसादेन कार्यं सिद्धं भविष्यति ॥
इत्युक्तो वामनो देवं प्रत्युवाच महेश्वरम्

7.14-4.94

॥ वामन उवाच ॥ ॥
यदि तुष्टो महादेव यदि देयो वरो मम ॥
तदाऽत्र लिंगे स्थातव्यमस्तु दिव्यं पुरो मम

7.14-4.95

यस्तु स्वायंभुवं लिंगं वामने नगरे मम ॥
पूजयिष्यति ब्रह्मघ्नो गोघ्नो वा बालघातकः

7.14-4.96

गुरुद्रोही स्वर्णचोरो मुच्यते सर्वपातकैः ॥
निर्दोषः पूजयेद्यस्तु सकृत्सोमेश्वरं हरम्

7.14-4.97

मृतो विमानमारुह्य दिव्यस्त्रीपरिवेष्टितः ॥
संस्तूयमानो दिक्पालैर्यातु स्वर्गे शिवालये

7.14-4.98

ब्रह्मलोकमतिक्रम्य रुद्रलोके स गच्छतु ॥
तथेत्युक्त्वा सोमनाथस्तत्रैवान्तरधीयत

7.14-4.99

प्रकाश्य वामनो लिगं सोमनाथं स्वयंभुवम् ॥
प्राप्तज्ञानो लब्धवृद्धिर्ययौ द्रष्टुं भवं हरम्

7.14-4.7.2.14.100

गंगाद्याः सरितः सर्वाः स्वर्णरेखाजले स्थिताः ॥
एतां सोमेश्वरोत्पत्तिं ये शृण्वंति नराः स्त्रियः ॥
सर्वपापक्षयस्तेषां जायते नात्र संशयः

7.14-4.14

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये सोमेश्वरोत्पत्तिवर्णनंनाम चतुर्दशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc