भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.136

7.136.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लोमशेश्वरमुत्तमम् ॥
दुःखान्तकारिणीपूर्वे धनुषां सप्तके स्थितम्

7.136.2

स्थापितं तत्र देवेशि लोमशेन महर्षिणा ॥
गुहामध्ये महालिंगं तपः कृत्वा सुदुश्चरम्

7.136.3

कोटीनां त्रितयं सार्धमिंद्राद्याः स्वर्भुजः प्रिये ॥
यदा नाशं गमिष्यंति तदा तस्य क्षयो ध्रुवम्

7.136.4

यावंति देहरोमाणि इन्द्रास्तावन्त एव च ॥
क्रमादिन्द्रे विनष्टे तु तल्लोमपतनं भवेत्

7.136.5

एवमीशप्रसादेन चिरायुर्लोमशोऽभवत् ॥
ब्रह्माणः षड्विनश्यन्ति समग्रायुषि लोमशे

7.136.6

य एवं पूजयेद्भक्त्या तल्लिंगं लोमशार्चितम् ॥
सोऽपि दीर्घायुराप्नोति निर्व्याधिर्नीरुजः सुखी

7.136.136

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये लोमशेश्वरमाहात्म्यवर्णनंनाम षट्त्रिंशदुत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc