भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.127

7.127.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि क्षेमेश्वरमनुत्तमम् ॥
तस्मादुत्तरकोणस्थं कपालेशाग्निगोचरे

7.127.2

धनुषां पंचदशके कपालेश्वरतः स्थितम् ॥
लिंगं महाप्रभावं हि सर्वपातकनाशनम्

7.127.3

क्षेममूर्तिः पुरा राजा बभूव स महाबलः ॥
तेन तत्र तपस्तप्तं चिरकालं महात्मना ॥

7.127.4

ततः संस्थापितं लिंगं भक्त्या भावितचेतसा ॥
तद्दृष्ट्वा क्षेममायाति कार्यं क्षेमेण सिद्ध्यति

7.127.5

सर्वकामसमृद्धात्मा भूया ज्जन्मनिजन्मनि ॥
एवं क्षेमेश्वरं लिंगं ख्यातं पातकनाशनम्

7.127.6

सर्वकामप्रदं नृणां श्रुतं सौभाग्यदायकम् ॥
दर्शनेनापि तस्यापि गोशतस्य फलं स्मृतम्

7.127.7

तस्मात्क्षेत्रफलाकांक्षी नित्यं तल्लिंगमाश्रयेत्

7.127.127

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्षेमंकरेश्वरमाहात्म्यवर्णनंनाम सप्तविंशत्युत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc