भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.116

7.116.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवीं सौभाग्यकारिणीम् ॥
कुण्डेश्वरीति विख्यातां पुष्कराद्वायुगोचरे

7.116.2

धनुषां त्रिंशता देवि भूतनाथाच्च नैरृते ॥
संस्थिता पापदमनी दारिद्र्यौघविनाशिनी

7.116.3

तस्या नैरृतदिग्भागे धनुःपञ्चदशे स्थितम् ॥
शंखोदकंनाम कुण्डं सर्वपातकनाशनम्

7.116.4

तत्र स्नात्वा तु ये मर्त्या नारी वा शुभवारिणि ॥
पूजयेत्तां महादेवि शंखावर्तेति विश्रुताम्

7.116.5

कलौ कुण्डेश्वरीनाम सर्वसौख्यप्रदायिनी ॥
शंखो नाम पुरा देवि विष्णुना निहतः प्रिये

7.116.6

तस्य देहं समादाय महान्तं शंखरूपिणम् ॥
तीर्थोदकेन संपूर्य प्रभासं क्षेत्रमागतः

7.116.7

तत्र शंखं तु प्रक्षाल्य कृतं तीर्थं महाप्रभम् ॥
तत्र पूरितवाञ्छङ्खं मेघगम्भीरनिस्वनम्

7.116.8

तस्य नादेन महता देवी तत्र समागता ॥
पृच्छती कारणं तत्र तत्कुण्डस्य समीपगा ॥
तेन कुण्डेश्वरी ख्याता कुण्डं शंखोदकं स्मृतम्

7.116.9

माघे मासि तृतीयायां यस्तां पूजयते नरः ॥
नारी वा भक्तिसंयुक्ता स गौरीपदमाप्नुयात्

7.116.7.1.116.10

दंपत्योर्भोजनं तत्र देयं यात्राफलेप्सुभिः ॥
कञ्चुकं फलदानं च गौरिणीनां च भोजनम्

7.116.116

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंखोदककुण्डेश्वरीगौरीमाहात्म्यवर्णनंनाम षोडशोत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc