भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.114

7.114.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि विष्णुं पापप्रणाशनम् ॥
वामनस्वामिनामानं सर्वपातकनाशनम्

7.114.2

पुष्करान्नैरृते भागे धनुर्विशतिभिः स्मृतम् ॥
यदा बद्धो बलिर्देवि विष्णुना प्रभविष्णुना

7.114.3

तदा तत्र पदं न्यस्तं दक्षिणं विश्वरूपिणा ॥
द्वितीयं मेरुशृंगे तु तृतीयं गगने प्रिये

7.114.4

यावदूर्ध्वं चोत्क्षिपति तावद्भिन्नं सुदूरतः ॥
पादाग्रेण तु ब्रह्माण्डं निष्क्रान्तं सलिलं ततः

7.114.5

ततः स्वजानुमात्रेण संप्राप्तं पृथिवीतले ॥
ततो विष्णुपदी गंगा प्रसिद्धिमगमत्क्षितौ

7.114.6

पूर्वं सा पुष्करे प्राप्ता पुष्करात्सा महानदी ॥
पुष्करं कथ्यते व्योम पुष्करं कथ्यते जलम् ॥
तेन तत्पुष्करं ख्यातं संनिधानं प्रजापतेः

7.114.7

तत्र स्नानं नरः कृत्वा यः पश्यति हरेः पदम् ॥
स याति परमं स्थानं यत्र देवो हरिः स्वयम्

7.114.8

तत्र पिंडप्रदानेन तृप्तिः स्यात्कोटिवार्षिकी ॥
पितॄणां च वरारोहे ह्येतदाह हरिः स्वयम्

7.114.9

अत्र गाथा पुरा गीता वसिष्ठेन महर्षिणा ॥
वामनस्वामिनं दृष्ट्वा तां शृणुष्व समाहिता

7.114.7.1.114.10

स्नात्वा तु पुष्करे तीर्थे दृष्ट्वा विष्णुपदं ततः ॥
अपि कृत्वा महत्पापं किमतः परितप्यते

7.114.11

यस्तत्रोपानहौ दद्याद्ब्राह्मणाय यतव्रतः ॥
स यानवरमारूढो विष्णुलोके महीयते

7.114.114

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्र माहात्म्ये वामनस्वामिमाहात्म्यवर्णनंनाम चतुर्दशोत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc