स्कन्द पुराण · अध्याय 7.112
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लक्ष्मणेश्वरमुत्तमम् ॥
रामेशात्पूर्वदिग्भागे धनुस्त्रिंशकसंस्थितम्
स्थापितं लक्ष्मणेनैव तत्र यात्रागतेन वै ॥
महापापहरं देवि तल्लिंगं सुरपूजितम्
यस्तं पूजयते भक्त्या नृत्यगीतादिवादनैः ॥
होमजाप्यैः समाधिस्थः स याति परमां गतिम्
अन्नोदकं हिरण्यं च तत्र देयं द्विजातये ॥
संपूज्य देवदेवेशं गंधपुष्पादिभिः क्रमात् ॥
माघे कृष्णचतुर्दश्यां विशेषस्तत्र पूजने ॥
स्नानं दानं जपस्तत्र भवेदक्षयकारकम्
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रामेश्वरक्षेत्रमाहात्म्ये लक्ष्मणेश्वरमाहात्म्यवर्णनंनाम द्वादशोत्तरशततमो ऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0