भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 7.104

7.104.1

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कोटीश्वरमनुत्तमम् ॥
तस्मादुत्तरतो देवि कोटीशमिति विश्रुतम्

7.104.2

पापघ्नं सर्वजंतूनां पशुपाशविमोक्षदम् ॥
पुरा पाशुपता देवि कपालेश्वरसंनिधौ

7.104.3

तपः कुर्वंति विपुलं भस्मोद्धूलितविग्रहाः ॥
जटामुकुटसंयुक्ता मुंजमेखलधारिणः

7.104.4

शांताः सर्वे जितक्रोधा ब्राह्मणाः शिवयोगिनः ॥
तपः कुर्वंति तत्रस्था व्याप्य क्षेत्रं चतुर्द्दिशम्

7.104.5

कोटिसंख्या महादेवि मन्त्रजाप्यपरायणाः ॥
सम्यक्संस्थाप्य ते लिंगं कपालेशसमीपगम्

7.104.6

ततस्ते पूजयांचक्रुस्तल्लिंगं भक्तिसंयुताः ॥
ततस्तुष्टो महादेवो मुक्तिं तेषां ददौ हरः

7.104.7

ऋषयः कोटिसंख्यातास्तस्मिन्सिद्धा यतः प्रिये ॥
तेन कोटीश्वरं लिंगं नाम्ना ख्यातं धरातले

7.104.8

यस्तं पूजयते भक्त्या कोटीश्वरमनामयम् ॥
स कोटिमन्त्रजाप्यस्य फलं प्राप्स्यति मानवः

7.104.9

हिरण्यं तत्र दातव्यं ब्राह्मणे वेदपारगे ॥
कोटिहोमफलं तस्य सम्यग्यात्राफलं भवेत्

7.104.104

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कोटीश्वरमाहात्म्यवर्णनंनाम चतुरधिक शततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc