भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 6.249

6.249.1

वाण्युवाच ॥ ॥
तुलसी रोपिता येन गृहस्थेन महाफला ॥
गृहे तस्य न दारिद्र्यं जायते नात्र संशयः

6.249.2

तुलस्या दर्शनादेव पापराशिर्निवर्तते ॥
श्रियेऽमृतकणोत्पन्ना तुलसी हरिवल्लभा

6.249.3

पिबन्त्या रुचिरं पानं प्राणिनां पापहारिणी ॥
यस्या रूपे वसेल्लक्ष्मीः स्कन्धे सागरसंभवा

6.249.4

पत्रेषु सततं श्रीश्च शाखासु कमला स्वयम् ॥
इन्दिरा पुष्पगा नित्यं फले क्षीराब्धिसंभवा

6.249.5

तुलसी शुष्ककाष्ठेषु या रूपा विश्वव्यापिनी ॥
मज्जायां पद्मवासा च त्वचासु च हरिप्रिया

6.249.7

सर्वरूपा च सर्वेशा परमानन्ददायिनी ॥
तुलसी प्राशको मर्त्यो यमलोकं न गच्छति । ६ ।
शिरस्था तुलसी यस्य न याम्यैरनुभूयते ॥
मुखस्था तुलसी यस्य निर्वाणपददायिनी

6.249.8

हस्तस्थातुलसीयस्य स तापत्रयवर्जितः ॥
तुलसी हृदयस्था च प्राणिनां सर्वकामदा

6.249.9

स्कन्धस्था तुलसी यस्य स पापैर्न च लिप्यते ॥
कण्ठगा तुलसी यस्य जीवन्मुक्तः सदा हि सः

6.249.6.249.10

तुलसीसंभवं पत्रं सदा वहति यो नरः ॥
मनसा चिन्तितां सिद्धिं संप्राप्नोति न संशयः ॥

6.249.11

तुलसींसर्वकायार्थसाधिनीं दुष्टवारिणीम् ॥
यो नरः प्रत्यहं सिञ्चेन्न स याति यमालयम्

6.249.12

चातुर्मास्ये विशेषेण वन्दितापि विमुक्तिदा ॥
नारायणं जलगतं ज्ञात्वा वृक्षगतं तथा

6.249.13

प्राणिनां कृपया लक्ष्मीस्तुलसीवृक्षमाश्रिता ॥
चातुर्मास्ये समायाते तुलसी सेविता यदि

6.249.14

तेषां पापसहस्राणि यांति नित्यं सहस्रधा ॥
गोविन्दस्मरणं नित्यं तुलसीवनसेवनम्

6.249.15

तुलसीसेचनं दुग्धै श्चातुर्मास्येऽतिदुर्लभम् ॥
तुलसीं वर्द्धयेद्यस्तु मानवो यदि श्रद्धया

6.249.16

आलवालांबुदानैश्च पावितं सकलं कुलम् ॥
यथा श्रीस्तुलसीसंस्था नित्यमेव हि वर्द्धते

6.249.17

तथातथा गृहस्थस्य कामवृद्धिः प्रजायते ॥
ब्रह्मचारीगृहस्थश्च वानप्रस्थो यतिस्तथा

6.249.18

तथा प्रकृतयः सर्वास्तुलसीसेवने रताः ॥
श्रद्धया यदि जायन्ते न तासां दुःखदो हरिः

6.249.19

एको हरिः सकलवृक्षगतो विभाति नानारसैस्तु परिभावितमूर्तिरेव ॥
वृक्षाधिवासमगमत्कमला च देवी दुःखादिनाशनकरी सततं स्मृताऽपि

6.249.249

इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठ नाग रखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने तुलसीमाहात्म्यवर्णनंनामैकोनपञ्चाशदुत्तर द्विशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc