भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 6.230

6.230.1

॥ सूत उवाच ॥ ॥
एवं गणत्वमापन्ने ह्यन्धके दानवोत्तमे ॥
तस्य पुत्रो वृकोनाम निरुत्साहो द्विषज्जये

6.230.2

भयेन महता युक्तो हतशेषैश्च दानवैः ॥
प्रविवेश समुद्रांतं सुदुर्गं ब्राह्मणोत्तमाः

6.230.3

ततः शक्रः प्रहृष्टात्मा प्रणम्य वृषभध्वजम् ॥
तस्यादेशं समासाद्य प्रविवेशामरावतीम्

6.230.4

चकार च सुखी राज्यं त्रैलोक्येऽपि द्विजोत्तमाः॥
यज्ञभागान्पुनर्लेभे यथार्थं च धरातले

6.230.5

एतस्मिन्नेव काले तु ह्यंधकस्य सुतो वृकः ॥
निष्क्रम्य सागरात्तूर्णं जंबुद्वीपं समागतः

6.230.6

हाटकेश्वरजं क्षेत्रं मत्वा पुण्यं सुसिद्धिदम् ॥
पित्रा यत्र तपस्तप्तमंधकेन दुरात्मना

6.230.7

सगुप्तस्तु तपस्तेपेऽयथा वेत्ति न कश्चन ॥
ध्यायमानः सुरश्रेष्ठं भक्त्या कमलसंभवम्

6.230.8

यावद्वर्षसहस्रांतं जलाहारो द्वितीयकम् ॥
तपस्तेपे स दैत्येन्द्रो ध्यायमानः पितामहम्

6.230.9

वायुभक्षस्ततो जातस्तावत्कालं द्विजोत्तमाः ॥
अंगुष्ठाग्रेण भूपृष्ठं स्पर्शमानो जितेन्द्रियः

6.230.6.230.10

एवं च पञ्चमे प्राप्ते सहस्रे द्विजसत्तमाः ॥
ब्रह्मा तस्य गतस्तुष्टिं दृष्ट्वा तस्य तपो महत्

6.230.11

ततोऽब्रवीत्तमागत्य तां गर्तां ब्राह्मणोत्तमाः ॥
भोभो वृक निवर्तस्व तपसोऽस्मात्सुदारुणात्

6.230.12

वरं वरय भद्रं ते यो नित्यं मन सि स्थितः

6.230.13

॥ वृक उवाच ॥ ॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
जरामरणहीनं मां तत्कुरुष्व पितामह

6.230.14

॥ श्रीब्रह्मोवाच ॥ ॥
मम प्रसादतो वत्स जरामरणवर्जितः ॥
भविष्यसि न सन्देहः सत्यमेतन्मयोदितम्

6.230.15

एवमुक्त्वा ततो ब्रह्मा तत्रैवांतरधी यत ॥
वृकोऽपि कृतकृत्यस्त्वागतश्च स्वगृहं पितुः

6.230.16

गिरिं रैवतकं नाम सर्वर्तुकुसुमोज्ज्वलम् ॥
तत्र गत्वा निजामात्यैः समं मन्त्र्य च सत्व रम् ॥
इन्द्रोपरि ततश्चक्रे यानं युद्धपरीप्सया

6.230.17

इंद्रोऽपि च परिज्ञाय दानवं तं महाबलम् ॥
जरामृत्युपरित्यक्तं प्रभावात्परमेष्ठिनः

6.230.18

परित्यज्य भयाच्चैव पुरीं चैवामरावतीम् ॥
ब्रह्मलोकं गतस्तूर्णं देवैः सर्वैः समन्वितः

6.230.19

एतस्मिन्नंतरे प्राप्तो वृकश्च त्रिदशालये ॥
ससैन्यपरिवारेण प्रहृष्टेन समन्वितः

6.230.6.230.20

ततश्चैंद्रपदे तस्मिन्स्वयमेव व्यवस्थितः ॥
शुक्रात्प्राप्याभिषेकं च पुष्पस्नानसमुद्भवम्

6.230.21

सोऽभिषिक्तस्तु शुक्रेण देवराज्यपदे वृकः॥
स्थापयामास दैतेयान्देवतानां पदेषु च

6.230.22

आदित्यानां वसूनां च रुद्राणां मरुतामपि॥
यज्ञभागकृते विप्राः शुक्रशासनमाश्रिताः

6.230.230

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्याने वृकेन्द्रराज्यलंभनवर्णनंनाम त्रिंशदुत्तरद्विशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc