भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 6.196

6.196.1

॥ सूत उवाच ॥ ॥
अथ तां यौवनोपेतां स्वसुतां प्रेक्ष्य पार्थिवः ॥
अनौपम्येन रूपेण संयुक्तां वरवर्णिनीम् ॥
आनर्तश्चिन्तयामास कन्यकां प्रददाम्यहम्

6.196.2

अनर्हाय च यो दद्या द्वराय निजकन्यकाम् ॥
कार्यकारणलोभेन नरकं स प्रगच्छति

6.196.3

एवं चिंतयतस्तस्य महान्कालो व्यवस्थितः ॥
न पश्यति च तद्योग्यं कंचिद्वरमनुत्तमम्

6.196.4

अथ संप्रेषयामास सर्वभूताश्रयेषु ये ॥
चित्रकर्मणि विख्यातान्नरांश्चित्रकरांस्तदा

6.196.5

गच्छध्वं मम वाक्येन सर्वा न्भूमितले नृपान् ॥
लिखित्वा पट्टमध्ये तु दर्शयध्वं ततः परम्

6.196.6

सुताया मम येनाऽसौ दृष्ट्वाऽभीष्टं नराधिपम् ॥
पत्यर्थं वरयेत्साध्वी मम दोषो भवेन्न हि

6.196.7

तस्य तद्वचनं श्रुत्वा सर्वे चित्रकरास्तदा ॥
प्रस्थिता धरणीपृष्ठे पार्थिवानां गृहेषु च

6.196.8

ते लिखित्वा महीपाला न्यौवनस्थान्वयोऽन्वितान् ॥
रूपौदार्यगुणोपेतान्दर्शयामासुरग्रतः ॥
रत्नवत्याः क्रमेणैव तस्य भूपस्य शासनात्

6.196.9

अथ तेषां तु सर्वेषां मध्ये राजा वृहद्बलः ॥
दशार्णाधिपतिर्भव्यः पत्यर्थं च वृतस्तया

6.196.6.196.10

तदाऽऽनर्ताधिपो हृष्टः प्रेषयामास तं प्रति ॥
विवाहार्थं सुविज्ञाय वाक्य मेतदुवाच ह

6.196.11

गच्छध्वं मम वाक्येन दशार्णाधिपतिं प्रति ॥
वाच्यः स विनयाद्गत्वा विवाहार्थं ममांतिकम्

6.196.12

समागच्छ निजां कन्यां येन यच्छाम्यहं तव ॥
नाम्ना रत्नवतीं ख्यातां त्रैलोक्यस्यापि सुन्दरीम्

6.196.13

गत्वा स सत्वरं तत्र यत्र राजा बृहद्बलः ॥
प्रोवाच सकलं वाक्यमानर्ताधिपतेः स्फुटम्

6.196.14

सोऽपि तत्सहसा श्रुत्वा तेषां वाक्यमनुत्तमम् ॥
परमां तुष्टिमासाद्य प्रस्थितस्तत्पुरं प्रति ॥
सैन्येन महता युक्तश्चतुरंगेण पार्थिवः

6.196.196

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दशार्णाधिपतेर्बृहद्बलस्यानर्तेशपुरं प्रत्यागमनवर्णनंनाम षण्णवत्युत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc