भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 6.173

6.173.1

॥ ऋषय ऊचुः ॥ ॥
अहो बत महाश्चर्यं विश्वामित्रस्य सन्मुनेः ॥
मंत्रप्रभावतो येन तत्तोयं रुधिरीकृतम्

6.173.2

ततःप्रभृति संप्राप्तं कथं तोयं प्रकीर्तय ॥
सरस्वत्या महाभाग सर्वं विस्तरतो वद

6.173.3

॥ सूत उवाच ॥ ॥
बहुकालं प्रवाहः स सरस्वत्या द्विजोत्तमाः ॥
महान्रक्तमयो जातो भूतराक्षससेवितः

6.173.4

कस्यचित्त्वथ कालस्य वसिष्ठो मुनिसत्तमः ॥
अर्बुदस्थस्तया प्रोक्तो दीनया दुःखयुक्तया

6.173.5

तवार्थाय मुने शप्ता विश्वामित्रेण कोपतः ॥
रुधिरौघवहाजाता तपस्विजनवर्जिता

6.173.6

तस्मात्कुरु प्रसादं मे यथा स्यात्सलिलं पुनः ॥
प्रवाहे मम विप्रेन्द्र प्रयाति रुधिरं क्षयम्

6.173.7

त्रैलोक्यकरणे विप्र संक्षये वा स्थितौ हि वा ॥
नाशक्तिर्विद्यते काचित्तव सर्वमुनीश्वर

6.173.8

॥ वसिष्ठ उवाच ॥ ॥
तथा भद्रे करिष्यामि यथा स्यात्सलिलं पुनः ॥
प्रवाहे तव निर्याति सर्वं रक्तं परिक्षयम्

6.173.9

एवमुक्त्वा स विप्रर्षिरवतीर्य धरातले ॥
गतः प्लक्षतरुं यस्मा दवतीर्णा सरस्वती

6.173.6.173.10

समाधिं तत्र संधाय निविष्टो धरणीतले ॥
संभ्रमं परमं गत्वा विश्वामित्रस्य चोपरि

6.173.12

वारुणेन तु मन्त्रेण वीक्ष यन्वसुधातलम् ॥
ततो निर्भिद्य वसुधां भूरितोयं विनिर्गतम् ११ ॥
रन्ध्रद्वयेन विप्रेन्द्रा लोचनाभ्यां निरीक्षणात् ॥
एकस्य सलिलं क्षिप्रं यत्र जाता सरस्वती

6.173.13

प्लक्षमूले ततस्तस्य वेगेनापहृतं बलात् ॥
तद्रक्तं तेन संपूर्णं ततस्तेन महानदी

6.173.14

द्वितीयस्तु प्रवाहो यः संभ्रमा त्तस्य निर्गतः ॥
सा च साभ्रमती नाम नदी जाता धरातले

6.173.15

एवं प्रकृतिमापन्ना भूय एव सरस्वती ॥
यत्पृष्टोऽस्मि महाभागाः सरस्वत्याः कृते द्विजाः

6.173.16

एतत्सारस्वतं नाम व्याख्यानमतिबुद्धिदम् ॥
यः पठेच्छ्रणुयाद्वापि मतिस्तस्य विवर्द्धते ॥
सरस्वत्याः प्रसादेन सत्यमेतन्म योदितम्

6.173.173

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सरस्वत्युपाख्याने सरस्वती शापमोचनसाभ्रमत्युत्पत्तिवृत्तान्तवर्णनंनाम त्रिसप्तत्युत्तरशततमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc