भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 5.8-2

5.8-2.1

॥ श्रीरुद्र उवाच ॥ ॥
कपालेश्वरसंज्ञं च ह्यष्टमं विद्धि पार्वति ॥
यस्य दर्शनमात्रेण ब्रह्महत्या प्रणश्यति

5.8-2.2

पुरा वैवस्वते कल्पे त्रेताकाले समागते ॥
महाकालवने दिव्ये यजे पैतामहे प्रिये

5.8-2.3

उपविष्टेषु विप्रेषु हूयमाने हुताशने ॥
वेषं कापालिकं कृत्वा गतोऽहं तत्र संसदि

5.8-2.4

जीर्णकंथावृतो देवि मुंडः खट्वांगधारकः ॥
चिताभस्मविलिप्तांगो विकृतो विकृताननः ॥
कपालं च करे कृत्वा कपालकृतभूषणः

5.8-2.5

ब्राह्मणाश्च ततः क्रुद्धा दृष्ट्वा मां जाल्मरूपिणम् ॥
कपालधारिणं सर्वे धिक्छब्दैश्च जगर्हिरे

5.8-2.6

असकृत्पापपापेति गच्छगच्छ विडंबिताः ॥
कथं च होमः क्रियते प्राप्ते कापालिके पुरः

5.8-2.7

अकपालानि शौचानि इति वेदेषु गीयते ॥
यज्ञवेदिर्न तेर्हा तु मनुष्यास्थि धरस्य वै

5.8-2.8

मया प्रोक्तास्तु ते विप्राः श्रूयतां द्विजसत्तमाः ॥
यूयं कारुणिकाः सर्वे परदुःखेन दुःखिताः

5.8-2.9

कर्त्तव्या च दया सद्भिः सर्वदा सर्वदेहिनाम् ॥
सर्वेषामेव जंतूनां मित्रं ब्राह्मण उच्यते

5.8-2.5.2.8.10

अहं कापालिको विप्रो भस्मभूषितविग्रहः ॥
कापालव्रतमास्थाय चरामि पृथिवीतले

5.8-2.11

आराधयामि सततं महादेवं जगत्पतिम् ॥
ब्रह्महत्याविनाशाय व्रतं द्वादशवार्षिकम्

5.8-2.12

अघघ्नं विश्रुतं लोके प्रारब्धं हि मया द्विजाः ॥
प्रायश्चित्तनिमित्तं तु शुद्धो यास्यामि सद्गतिम्

5.8-2.13

मदीयं वचनं श्रुत्वा तैः प्रोक्तं द्विजसत्तमैः ॥
अतीव पापिष्ठतरो यो ह्येवं भाषसेऽधम

5.8-2.14

कपालैर्भूषितो निंद्यो विशेषेण तु विप्रहः ॥
नाकारितो महादेवो दक्षयज्ञमहोत्सवे

5.8-2.15

यस्मिन्यज्ञे समायाता आदित्या वसवस्तथा ॥
विश्वेदेवाश्च मरुतो गंधर्वाः किंनरास्तथा

5.8-2.16

ब्रह्मा विष्णुः सहस्राक्षो वरुणो वायुरेव च ॥
धनदः सागरा नद्यः सरांसि सकलानि च

5.8-2.17

सुपर्णा गिरयो नागाः सर्वे चाकारिताः क्रतौ ॥
सानुगास्ते सभार्याश्च ब्राह्मणा वेदपारगाः

5.8-2.18

ब्रह्मर्षयो महाभागास्तथा देवर्षयोऽमलाः ॥
एवमुक्त्वा महादेवं मानुषास्थिविभूषितम्

5.8-2.19

अपवित्रमिति ज्ञात्वा कथं त्वं वक्तुमर्हसि ॥
प्रवेशो दीयतां मह्यं विशेषेणासि ब्रह्महा

5.8-2.5.2.8.20

इत्युक्तोऽहं यदा विप्रैर्मया प्रोक्तं वचस्तदा ॥
प्रतीक्ष्यतां मुहूर्तं तु भुक्त्वा यास्याम्यहं पुनः

5.8-2.21

इत्युक्ते वचने देवि ताडितोऽहं भृशं तदा ॥
लोष्ठैर्लगुडकैः पादैर्मुष्टिभिश्च पुनःपुनः

5.8-2.22

अथ प्रहस्य तत्क्षिप्त्वा तां वेदिं दर्भसंस्तृताम् ॥
कपालदीपवन्नष्टो न ज्ञातोऽहं द्विजोत्तमैः

5.8-2.23

मयि नष्टे कपालं तत्क्षिप्तं मंडपबाह्यतः ॥
अथान्यत्तत्र संजातं तादृग्रूपं यशस्विनि

5.8-2.24

एवं शतसहस्राणि प्रयुतान्यर्बुदानि च ॥
तत्र क्षिप्तानि जातानि ततस्ते विस्मयान्विताः

5.8-2.25

अथाहुर्ज्ञानिनः सर्वे नेदमन्यस्य चेष्टितम् ॥
ऋते देवान्महादेवाद्गंगाचंद्रार्द्धशेखरात्

5.8-2.26

ततोऽहं विविधैः स्तोत्रैः स्तुतो विप्रैः पृथक्पृथक् ॥
होमं चक्रुश्च ते वह्नौ मंत्रैश्च शतरुद्रियेः

5.8-2.27

अहं तुष्टस्तदा देवि द्विजानामनुकंपया ॥
व्रियतां ब्राह्मणाः सर्वे वरं यन्मनसेप्सितम्

5.8-2.28

तदा ते ब्राह्मणाः प्रोचुर्यदज्ञानाद्वधस्तव ॥
कृतस्तेन कृतास्माभिर्ब्रह्महत्या जगत्प्रभो

5.8-2.29

ब्रह्महत्याविनाशाय प्रसादं कुरु नः प्रभो ॥
वरयामो वरं ह्येनं नान्यं वरमभीप्सितम्

5.8-2.5.2.8.30

द्विजानां च तदा तेषामग्रे कथितवानिदम् ॥
यत्र राशिः कपालानां भवद्भिर्विहितो भुवि

5.8-2.31

अनादिलिंगं तत्रासीच्छन्नं कालविपर्यये ॥
पश्यंतु विप्रास्तल्लिंगं ब्रह्महत्याविमोचनम्

5.8-2.32

कृता मयापि विप्रेंद्रा ब्रह्महत्या स्वयं पुरा ॥
छिंदता ब्रह्मणः शीर्षं पञ्चमं तेजसोत्कटम्

5.8-2.33

ब्रह्महत्या ततो जाता ममातीव सुदुःसहा ॥
कपालं च करे लग्नं तथा चातीव दुःसहम्

5.8-2.34

दह्यमानस्ततश्चाहं व्याप्तो वै ब्रह्महत्यया ॥
नाशाय सत्वरं तस्याः स्वार्थयात्रामहं गतः

5.8-2.35

गतः सर्वेषु तीर्थेषु नैव मुक्तस्तु हत्यया ॥
ततो दुःखी सुसंतप्तो नैव लेभे सुखं क्वचित

5.8-2.36

एतस्मिन्नंतरे दैवी वागुवाचाशरीरिणी ॥
गच्छावन्तीं स्वयं नाथ किमर्थं खिद्यते वृथा

5.8-2.37

महाकालवनं पुण्यं त्वया नाथ विनिर्मितम् ॥
कपालकरसंस्थानं रुद्रमद्भुतदर्शनम् ॥
न जानासि कथं क्षेत्रं महापातकनाशनम्

5.8-2.38

तस्मिन्क्षेत्रे महल्लिंगं गजरूपस्य संनिधौ ॥
विद्यते पश्य देवेश ब्रह्महत्या प्रणश्यति

5.8-2.39

ततोऽहमागतस्तूर्ण वाक्यं श्रुत्वा तदोत्तमम्॥
महल्लिंगं मया दृष्टं(?) कपालकरसंस्थितम्

5.8-2.5.2.8.40

मम हस्तात्तदा विप्राः कपालमपतद्भुवि ॥
कपालेश्वरदेवोऽयमिति नाम मया कृतम्

5.8-2.41

पश्यंतु विप्रास्तं देवं कपालेश्वरसंज्ञ कम् ॥
यस्य दर्शनमात्रेण निष्कलंका भविष्यथ

5.8-2.42

लिंगं दृष्टं तदा तैस्तु कपालैर्बहुभिवृतम् ॥
कृतार्थास्ते तदा जातास्तस्य लिंगस्य दर्शनात्

5.8-2.43

अतोऽसौ भुवि विख्यातः कपालेश्वरसंज्ञकः ॥
येऽर्चयन्ति महादेवि कपालेश्वरसंज्ञकम्

5.8-2.44

कृतपुण्या नरा देवि ते यांति परमं पदम् ॥
कृत्वापि पातकं घोरं ब्रह्महत्यादिकं नरः

5.8-2.45

तत्पापं विलयं याति लिंगस्यास्य च दर्शनात् ॥
कर्मणा मनसा वाचा यत्पापं समुपार्जितम् ॥
तत्क्षपयति देवोऽयं चतुर्द्दश्यां समर्चितः

5.8-2.46

प्रसंगादपि ये पूजां करिष्यंति वरानने ॥
तेऽपि कामानवाप्स्यंति यांश्च कांश्चित्सुदुर्लभान् ॥
ऐश्वर्यधर्ममतुलं दीर्घमायुररोगताम्

5.8-2.47

निःसपत्नत्वमतुलं यच्चान्यत्तदवाप्नुयात् ॥
अतीव पापिनो ये च क्रूरकर्मरता नराः

5.8-2.48

विपाप्मानो भविष्यंति गणेशाश्च मम प्रिये ॥
नियमेन प्रपश्यंति ये देवं वत्सरं प्रिये ॥
ते पश्यंति तनुं त्यक्त्वा मदीयं भवनं प्रियम्

5.8-2.49

एष ते कथितो देवि प्रभावः पापनाशनः ॥
कपालेश्वरदेवस्य स्वर्गद्वारेश्वरं शृणु

5.8-2.8

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये कपालेश्वरमाहात्म्यवर्णनंनामाष्टमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc