भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 5.76

5.76.1

॥ ईश्वर उवाच ॥ ॥
षट्सप्ततितमं देवमरुणेश्वरसंज्ञकम् ॥
विद्धि पापहरं देवि दर्शनात्कामदं नृणाम्

5.76.2

पुरा देवयुगे देवि प्रजापतिसुते शुभे ॥
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे

5.76.3

ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता तथा ॥
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः

5.76.4

कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ॥
वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं तु ते

5.76.5

हर्षादभ्यधिकां प्रीतिं प्रापतुः स्म वरस्त्रियौ ॥
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः

5.76.6

द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ॥
ओजसा तेजसा चैव विक्रमेणाधिकौ च तौ

5.76.7

तस्यै भर्त्ता वरं प्रादाल्लप्स्यसे पुत्रकोत्तमौ ॥
एवमस्त्विति तां चाह कश्यपो विनतां तदा

5.76.8

यथा च प्रार्थितं लब्ध्वा वरं तुष्टाऽभवत्तदा ॥
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ

5.76.9

कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ॥
धार्यौ गर्भौ प्रयत्नेन इत्युक्त्वा स महातपाः

5.76.5.2.76.10

ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ॥
कालेन महता कद्रूर्नागानां सा शतीर्दश ॥
जनयामास चार्वंगी द्वे चांडे विनता तदा

5.76.11

तयोरंडानि निदधुः प्रहृष्टाः परिचारिकाः ॥
सोपस्वेदेषु भांडेषु पंचवर्षशतानि च

5.76.12

ततः पंचशते काले कद्रूपुत्रा विनिर्गताः ॥
अंडभ्यां विनतायास्तु मिथुनं न व्यदृश्यत

5.76.13

ततः पुत्रार्थिनी देवी व्रीडिता सा तपस्विनी ॥
अंडं बिभेद विनता तत्र पुत्रं ददर्श ह

5.76.14

पूर्वार्द्धकायसंपन्नमितरेणा प्रकाशितम् ॥
स पुत्रो रोषसंरब्धः शशापैनामिति श्रुतम्

5.76.15

योऽहमेवं कृतो मातस्त्वया लोभपरीतया ॥
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि

5.76.16

पंचवर्षशतान्यस्या यया विस्पर्द्धसे सदा ॥
एष ते च सुतो मातर्दास्याद्वै मोक्षयिष्यति

5.76.17

यद्येनमपि मातस्त्वं मामिवांडविभेदनात् ॥
न करिष्यस्यनंगं वा पुत्रं चाति तरस्विनम्

5.76.18

प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया॥
विशिष्टबलमीप्संत्या पंचवर्षशतान्यतः

5.76.19

एवं शप्त्वा ततो देवि विनतां मातरं स्वकम् ॥
अरुणो विललापाथ वाष्पशोकपरिप्लुतः

5.76.5.2.76.20

हाहा मया नृशंसेन माता स्वजननी स्वका ॥
शप्ता विनापराधेन कथं यास्यामि सद्गतिम् ॥
माता देहारणिः पुंसां माता दुःखसहा परा

5.76.21

गर्भक्लेशे परं दुःखं माता जानाति यादृशम् ॥
वात्सल्यं चाधिकं मातुर्दृश्यते न तु पैतृकम्

5.76.22

गुरूणामेव सर्वेषां माता गुरुतरा स्मृता ॥
एकस्यापि सुतस्यैव न दृष्टा निष्कृतिः श्रुतौ

5.76.23

यदि पिंडप्रदानं तु गयायां कुरुते सुतः ॥
गते पितरि पंचत्वं माता पुत्रस्य निर्वृतिः ॥
न च मातृविहीनस्य ममत्वं कुरुते पिता

5.76.24

विकलो मातृहीनस्तु पुत्रो हि प्रोच्यते तदा ॥
यदा स वृद्धो भवति तदा भवति दुःखितः ॥
तदा शून्यं जगत्सर्वं यदा माता वियुज्यते

5.76.25

सोऽहं पापसमाचारो जातो मातृविहिंसकः ॥
मरिष्यामि न संदेहः साधयित्वा हुताशनम्

5.76.26

जातोऽहं विकलांगस्तु प्राक्कृतेनैव कर्मणा ॥
न माता कारणं यस्मात्स्वकीयं कर्म भुज्यते ॥

5.76.27

एवं विलपतस्तस्य कश्यपस्य सुतस्य च ॥
अरुणस्य विशालाक्षि नारदः समुपागतः

5.76.28

दृष्ट्वारुणं सुदुःखार्त्तं विलपंतं पुनः पुनः ॥
प्रत्युवाच प्रसन्नात्मा नारदः प्रहसन्निव

5.76.29

अरुणोऽयमहो रौति कश्यपस्यात्मसंभवः ॥
विनतायाः सुतो ज्येष्ठः संभूतस्तपसां निधिः ॥

5.76.5.2.76.30

उत्पादितोऽयमल्पाहैरर्द्धकायो महाबलः ॥
एनमाश्वासयिष्यामि विनतागर्भसंभवम् ॥
मोहेन विलपंतं च श्रेयो मे भविता धुवम् ॥

5.76.31

इति संचिंत्य मनसि वाक्यैर्मध्वमृतोपमैः ॥
प्रत्युवाचारुणं तत्र नारदो द्विजसत्तमः

5.76.32

तात कश्यपदायाद विनतागर्भसंभव ॥
तेजोराशे दुराधर्ष संतापं मा कृथा वृथा

5.76.33

भाविनोऽर्था भवंतीह दुःखस्य च सुखस्य च ॥
यत्त्वया विनता शप्ता रहस्यं देवनिर्मितम्॥

5.76.34

यदि तेस्ति घृणा चित्ते शप्तात्मजननी त्वया ॥
तदा गच्छ ममादेशान्महाकालवनं शुभम्

5.76.35

उत्तरे देवदेवस्य यात्रेशस्य च पुण्यदम्॥
विद्यते त्रिदशैः पूज्यं सर्वदा सर्वदं शिवम्

5.76.36

अरुणस्त्वेवमुक्तस्तु नारदेन महात्मना ॥
आजगाम क्षणार्द्धेन महाकालवनं शुभम्

5.76.37

ददर्श तत्र तल्लिंगं तेजःकूटोपमं शुभम् ॥
पूजयामास विधिवत्पुष्पैर्भावसमन्वितः

5.76.38

लिंगेनोक्तोऽरुणो देवि सारथ्यं कुरु सर्वदा ॥
सूर्यस्य भ्रमतस्तस्य त्वत्तुल्यो नास्ति सारथिः

5.76.39

मया दत्तं तु सामर्थ्यं सूर्यस्य पुरतः सदा ॥
उदयस्तेऽरुण प्राग्वै पश्चात्सूर्य उदेष्यति

5.76.5.2.76.40

त्वन्नाम्ना त्रिषु लोकेषु ख्यातोऽहमरुणेश्वरः ॥
भविष्यामि न संदेहो नृणामर्थप्रदायकः

5.76.41

ये मां पश्यंति सततं त्वन्नाम्ना चारुणेश्वरम् ॥
ते यास्यंति परं स्थानं दाहप्रलयवर्जितम्

5.76.42

मोदिष्यंति कुलैः सार्द्धं पितृमातृसमुद्भवैः ॥
कल्पकोटिसहस्रं तु ये पश्यंति समाहिताः

5.76.43

न दुःखं जायते तेषां ये पश्यंति रवेर्द्दिने॥
संसारसागरोत्थं वै यावदिंद्राश्चतुर्दश

5.76.44

यः पश्यति चतुर्दश्यां कृष्णायामरुणेश्वरम्

5.76.45

स नेष्यति पितॄन्स्वर्गे नरकस्थान्न संशयः ॥
संक्रांतौ रविवारे च यः पश्येदरुणेश्वरम् ॥
शुंडीरस्वामिनो यात्रा कृता तेन न संशयः

5.76.46

इत्युक्तस्तेन लिंगेन विनतानंदनस्तदा॥
आगतः कृतकृत्यात्मा यत्र देवो दिवस्पतिः

5.76.47

अस्य लिंगस्य माहात्म्यात्कश्यपस्यात्मसंभवः ॥
अरुणो दृश्यते व्योम्नि सूर्यस्य पुरतः सदा

5.76.48

एष ते कथितो देवि प्रभावः पापनाशनः ॥
अरुणेश्वरदेवस्य पुष्पवंतेश्वरं शृणु

5.76.76

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्येऽरुणेश्वरमाहात्म्यवर्णनंनाम षट्सप्ततितमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc