भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 5.68

5.68.1

॥ सनत्कुमार उवाच ॥ ॥
शृणु व्यास महापुण्यं तीर्थं परमशोभनम् ॥
देवप्रयागमाख्यातं सर्वपापप्रणाशनम्

5.68.2

देवानां च परं स्थानं यत्र तीर्थं परंतप ॥
सोमतीर्थोत्तरे भागे प्रयागस्य च दक्षिणे

5.68.3

क्षिप्रायाः पूर्वभागे च तत्र तीर्थं प्रतिष्ठितम् ॥
तत्र तीर्थे नरः स्नात्वा पश्येच्चैव सुरोत्तमम्

5.68.4

देवं माधवमित्याख्यं भुवि सर्वफलप्रदम् ॥
ददाति तस्य देवेंद्रो वांछितार्थं जगत्पतिः

5.68.5

आनंदभैरवस्तत्र सर्वदेवनमस्कृतः ॥
यस्य दर्शनमात्रेण सर्वपापक्षयो भवेत् ॥

5.68.6

न तस्य जायते व्यास यातना भैरवी कदा ॥
स्वर्गद्वारे सदा व्यास जायते निर्भयः पुमान्

5.68.7

ज्येष्ठे मासे सिते पक्षे दशम्यां बुध हस्तयोः ॥
गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे रवौ ॥
दशाला जायते वत्स गंगाजन्म परं शुचि

5.68.8

तद्दिने च नरः स्नात्वा सर्वतीर्थफलं लभेत्॥
अखण्डं च परं तीर्थं शृणु व्यास ह्यतः परम्

5.68.9

यस्य श्रवणमात्रेण व्रतभंगो न जायते ॥
एक एव पुरा ब्रह्मन्ब्राह्मणो ब्रह्मवित्तमः

5.68.5.1.68.10

।
धर्मशर्मेति विख्यातः सदाचाररतः शुचिः ॥
बहुव्रतधरो दांतो वेदवेदांगपारगः

5.68.11

किंचिद्दोषप्रसंगेन व्रतपूर्तिर्न चाभवत् ॥
एवं बहुतिथे काले नारदो देवदर्श नः

5.68.12

तस्य गेहागतो ब्रह्मन्नातिथ्यार्थं महातपाः ॥
तदोत्थाय द्विजो नित्यं बहुमानपुरःसरम्

5.68.13

सत्कृत्य नारदं भूमन्विधिदृष्टेन कर्मणा ॥
पूजयित्वा द्विजश्रेष्ठः पप्रच्छ मुनिसत्तम

5.68.14

भगवन्भवता सर्वं विदितं ज्ञानचक्षुषा ॥
अस्माकं च परं दोषः किंचिज्जातः पुराऽनघ

5.68.15

येन पापप्रसंगेन व्रतभंगोऽभवद्ध्रुवम् ॥
कारणं ब्रूहि मे नाथ किं दोषोऽत्र तु गण्यते

5.68.16

॥ नारद उवाच ॥ ॥
श्रूयतां भो द्विजश्रेष्ठ भवद्भिश्च पुराकृतम् ॥
महाराष्ट्रे सुविख्यातो ब्राह्मणो धनसंचकः

5.68.17

ब्रह्मदत्तेत्यसौ विप्रो वेदब्राह्मणनिंदकः ॥
धनलोभी पराक्रांतः सर्वधर्मबहिर्मुखः ॥

5.68.18

नास्तिको देवतीर्थेषु परद्रव्यापहारकः ॥
परस्त्रीषु रतो नित्यं द्यूतवादी च तस्करः

5.68.19

एवमायुःपरिक्षीणो धनहीनोऽभवत्तदा ॥
इतस्ततोऽभ्रमद्भ्रष्टो नदीतीरे सुविह्वलः

5.68.5.1.68.20

गतश्चौर्यप्रसंगेन यात्रिकैः सह संगतः ॥
किंचित्कालेषु दुःशीलो मृतिं प्राप्तो रुजार्दितः

5.68.21

नीतः संयमिनीं विप्रस्तत्कालं यमकिंकरैः ॥
यमराजपुरं प्राप्तो बहुपापकरो द्विजः

5.68.22

दृष्टोऽसौ धर्मराजेन तदा पत्यपरायणः॥
निरीक्ष्य सहसोवाच धर्मपूर्वमिदं वचः

5.68.23

शृणुध्वं किंकराः सर्वे यूयमेकाग्रमानसाः ॥
अनेनाचरितं सर्वं दुष्कर्म सर्वकिल्बिषम्

5.68.24

गोदातीरे मृतः पापी तत्र नः कारणं न हि॥
तिस्रःकोट्योऽर्धकोटिश्च यानि तीर्थान्यहर्निशम्

5.68.25

आयांति गौतमीतीरे सिंहस्थेऽपि बृहस्पतौ ॥
तेषां तु वायुसंस्पर्शो जातोस्यांते कलेवरे

5.68.26

तेन पुण्यप्रभावेन नोऽस्माकं कारणं क्वचित् ॥
ग्राह्यो भवद्भिनैवायं मुच्यतां भोः पुरःसराः

5.68.27

एवं तैर्मोचितो विप्रः पुनर्ब्रह्मगतिं गतः ॥
तेन पापप्रसंगेन व्रतभंगी गतो भुवि

5.68.28

॥ ब्राह्मण उवाच ॥ ॥
ब्रह्मन्केन प्रकारेण सर्वपापक्षयो भवेत् ॥
किं तपः किं च दानं च किं तीर्थव्रतसेवनम्

5.68.29

येन पुण्यप्रभावेन व्रतभंगो न जायते

5.68.5.1.68.30

॥ नारद उवाच ॥ ॥
शृणु द्विजवरश्रेष्ठ महाकालवनं स्मृतम् ॥
यत्र रुद्रसरः प्रोक्तमृषिणा तत्त्वदर्शिना

5.68.31

कोटिकोटिसुतीर्थानि वर्तंते द्विजसत्तम॥
कोटितीर्थेति विख्यातं तस्माद्द्विज सनातनम्

5.68.32

तत्तीर्थस्योत्तरे भागे सुतीर्थं सर्वकामदम् ॥
नाम्नाऽखंडसरः ख्यातमखंडेश्वरसन्निधौ

5.68.33

यस्य दर्शनमात्रेण सर्वयज्ञफलं लभेत् ॥
तस्माद्धि सर्वथा वत्स गच्छ त्वं तत्र मा चिरम्

5.68.34

इति तस्य वचः श्रुत्वा स द्विजोऽगात्कुमुद्वतीम् ॥
स्नात्वाऽखण्डसरे व्यास दृष्ट्वा देवं महेश्वरम्

5.68.35

सद्यः पुण्यवतांलोकान्प्राप्तो वै द्विजसत्तमः ॥
एवं व्यास महातीर्थमखंडेश्वरमुत्तमम्

5.68.68

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्येऽखंडेश्वरमहिमवर्णननामाष्टषष्टितमोऽध्या यः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc