भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 5.58

5.58.1

॥ व्यास उवाच ॥ ॥
विचित्रमिदमाख्यातं गयामाहात्म्यमुत्तमम् ॥
भगवन्भवता सर्वं विदितं विश्वमूर्तिना

5.58.2

तत्सर्वं श्रोतुमिच्छामि श्राद्धस्य फलमुत्तमम् ॥
क्षेत्रस्य च द्विजश्रेष्ठ विस्तरेण तपोधन

5.58.3

कियंतः पितरो नित्यं तृप्ता यांति सुरालयम् ॥
केषां के पितरः प्रोक्ताः किमुद्देश्याः पुराऽनघ

5.58.4

॥ सनत्कुमार उवाच ॥ ॥
धन्योऽसि कृतकृत्योऽसि यस्य ते नैष्ठिकी मतिः ॥
तथापि शृणु वै वत्स श्राद्धस्य विधिमुत्तमम्

5.58.5

श्राद्धे प्रकल्पिता लोकाः श्राद्धे धर्मः प्रतिष्ठितः ॥
श्राद्धे यज्ञा हि तिष्ठंति सर्वकर्मफलप्रदाः

5.58.6

श्रद्धया दीयते किंचिद्दैवं ब्रह्माग्नितर्पणम् ॥
श्राद्धं तु तद्विजानीयात्पुरा प्रोक्तं मह र्षिणा

5.58.7

मनुष्या ऋषयः सर्वे सुरसिद्धाश्च राक्षसाः ॥
गंधर्वाः किन्नरा नागा ब्रह्मेशानसुरेश्वराः

5.58.8

त्रीन्पितॄंश्च समुद्दिश्य श्राद्धं दद्युः समाहिताः ॥
प्राप्नुवन्त्यखिलान्कामान्सर्वान्व्यास मनोगतान्

5.58.9

एवं परंपरामार्गं प्रवर्तंते सनातनम् ॥
तथापि पितरो ह्येते समाख्याततमा भुवि

5.58.5.1.58.10

तत्सर्वं संप्रवक्ष्यामि यथा श्रुतं तथा शृणु ॥
त एते पितरो देवा देवाश्च पितरस्तथा

5.58.11

अन्योन्यं पितरो ह्येते देवाः पितृगणैः सह ॥
मार्कंडेन पुरा पृष्टं प्रश्नमेतद्द्विजोत्तम

5.58.12

निबोध त्वं मतं सर्वं यदुक्तं तत्समाहितः ॥
यावंतस्ते पितृगणास्तस्मिँल्लोके च ये गताः

5.58.13

॥ सनत्कुमार उवाच ॥ ॥
सप्तैते यजतां श्रेष्ठाः सर्वे पितृगणाः स्मृताः ॥
चत्वारो मूर्तिमंतो वै त्रयस्तेषां च मूर्तयः ॥

5.58.14

तेषां लोकं विसर्गं च कीर्तयिष्यामि तच्छणु ॥
प्रभावं त्वं महत्त्वं च विस्तरेण तपोधन

5.58.15

धर्ममूर्तिधरास्तेषां तपो ये परमं गताः॥
तेषां नामानि लोकांश्च कीर्तयिष्यामि तच्छृणु

5.58.16

लोकाः सनातना नाम यत्र तिष्ठंति भास्वराः ॥
अमूर्तयः पितृगणास्ते वै पुत्राः प्रजापतेः

5.58.17

विराजस्य द्विजश्रेष्ठ वैराजा इति नः श्रुतम् ॥
यजन्ते तान्देवगणा विधिदृष्टेन कर्मणा

5.58.18

एते वै योगविभ्रष्टा लोकान्प्राप्य सनातनान् ॥
पुनर्युगसहस्रांति जायंते ब्रह्मवादिनः

5.58.19

ते प्राप्य तां स्मृतिं भूयः सांख्ययोगमनुत्तमम् ॥
यांति योगगतिं सिद्धाः पुनरावृत्तिदुर्लभाम्

5.58.5.1.58.20

एते स्युः पितरस्तात योगिनां योगवर्धनाः ॥
आप्याययन्ति ये पूर्वं सोमं योगबलेन वै

5.58.21

तस्माच्छ्राद्धानि देयानि योगिनां द्विजसत्तम ॥
एष वै प्रथमः कल्पः सोमपानामनुत्तमः

5.58.22

एतेषां मानसी कन्या मेना नाम महागिरेः ॥
पत्नी हिमवतः श्रेष्ठा यस्यां मैनाक उच्यते

5.58.23

मैनाकस्य सुतः श्रीमान्क्रौंचो नाम महागिरिः ॥
अग्निष्वात्ताः पितृगणास्तत्र तिष्ठंति भास्वराः

5.58.24

याम्यां बर्हिषदश्चासन्यमाश्च पश्चिमां दिशम् ॥
सोमपाश्चोत्तरां प्राप्ता दिशं धनदपालिताम्

5.58.25

अमूर्तिमंतावाकाशे कव्यवाडनलौ क्षितौ ॥

5.58.26

यक्षरक्षःपिशाचाश्च यजंते भावितात्मनः ॥
साध्या देवान्यजन्ति स्म विश्वेदेवा ऋषींस्तथा

5.58.27

मानवाः श्राद्धदेवं च ऋषयो ब्रह्म सनातनम् ॥
एवं परंपराप्राप्तः श्राद्धधर्मः सनातनः

5.58.28

देवकार्यात्परं कार्यं पितृकार्यं विशिष्यते ॥
भरद्वाजात्मजाः सप्त श्राद्धधर्मपराय णाः

5.58.29

जातिस्मरत्वमापन्ना निर्वाणपदवीं गताः॥
गुरोश्च दोग्ध्रीं गां हत्वा सप्तैते वै द्विजाधमाः

5.58.5.1.58.30

पितॄनुद्दिश्य ते सर्वे भक्षयंतः क्षुधा र्दिताः ॥
तेन पुण्यप्रभावेन योगभ्रष्टा दिवं गताः

5.58.31

सप्त जातिस्मरास्ते वै योगयुक्ता बभूविरे ॥
तस्माच्छ्राद्धं परं प्रोक्तं सूरिभिः परमात्मभिः

5.58.32

श्राद्धे प्रतिष्ठिता लोकाः श्राद्धे योगः परंतप ॥
एवं ते पितरः प्रोक्ताः श्राद्धस्य च विधिं शृणु

5.58.33

ब्रह्मचर्यरतो दांतो न क्रोधी न च मत्सरी ॥
शौचाचारपरो धीरः शास्त्रदृष्टिर्जितेंद्रियः

5.58.34

एवं यः कुरुते श्राद्धं तीर्थे चैव विशेषतः ॥
ततोऽधिकतरा प्रोक्ता तृप्तिर्व्यास क्षयेऽहनि

5.58.35

वृद्धिश्राद्धे तथा प्रोक्ता महालये शताधिका ॥
ततो दशगुणा प्रोक्ता प्रयागे द्विजसत्तम

5.58.36

प्रयागाद्दशगुणा तृप्तिः कुरुक्षेत्रे च सत्तम ॥
कुरुक्षेत्रात्ततो व्यास दशाधिका गया स्मृता

5.58.37

ततो दशाधिका व्यास महाकालवने शुभे ॥
अवंत्यां सर्वतः पुण्यं गयातीर्थे च सर्वदा

5.58.38

येषां निरयमापन्नाः पितरो जन्मजन्मनि ॥
तेषामुद्धरणार्थाय तीर्थमेतत्सुदुर्लभम्

5.58.39

सकृत्स्मरणमात्रेण पितॄणा दत्तमक्षयम् ॥
ये नरा रणमध्यस्थाः पितृवंशविवर्जिताः

5.58.5.1.58.40

गर्भपाते मृता ये च नामगोत्रच्युतास्तथा ॥
स्वगोत्रे परगोत्रे वा आत्मघातमृताः परे

5.58.41

तेषामुद्धरणार्थाय तत्र श्राद्धं विधीयताम् ॥
उद्बंधनमृता ये च विषशस्त्रैर्मृताश्च ये

5.58.42

दष्ट्रिभिर्व्यंगतो वापि दौर्ब्राह्मण्ये मृताश्च ये॥
तेषामुद्धर णार्थाय अत्र श्राद्धं विधीयते

5.58.43

अग्निदग्धाश्च ये जीवा नाग्निदग्धास्तथा परे

5.58.44

विद्युद्धातेन ये केचिन्मुद्गराभिहताः परे ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते

5.58.45

रौरवे चांधतामिस्रे कालसूत्रे च ये गताः ॥
अनेकयातनासंस्थाः प्रेतलोके च ये गताः

5.58.46

असिपत्रवने घोरे कुंभीपाके च ये गताः ॥
पशुयोनिगता ये च पक्षिकीटसरीसृपाः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते

5.58.47

उदकेषु मृता ये च नारीसूतीमृतास्तथा

5.58.48

अश्वसूकूरकृमिदंष्ट्रिश्वशृंगिशकटाहताः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते

5.58.49

भग्नदंष्ट्राश्च शस्त्रास्त्रैर्व्याघ्राहिगजभूमिपैः ॥
शलभैर्वृश्चिकैर्दंष्ट्रिचोरैर्ये चापि घातिताः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते

5.58.5.1.58.50

अष्टशल्यैर्मृता ये च शौचाचारविवर्जिताः ॥
विषूचिकामृता ये च ये चातीसारतो मृताः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते

5.58.51

शाकिन्यादि ग्रहग्रस्तजलमध्ये च ये मृताः ॥
अस्पृश्यस्पर्शसंस्पृष्टाः पापा अपत्यवर्जिताः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते

5.58.52

जन्मांतरसहस्राणि भ्रमंति स्वेन कर्मणा ॥
मानुषं दुर्लभं येषां तेभ्यः श्राद्धं विधीयताम्

5.58.53

येऽन्यजन्मन्यबांधवा येऽन्यजन्मनि बांधवाः॥
येऽन्यजन्मनि संबद्धा मित्रामित्रे तथा परे ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते

5.58.54

पितृवंशे मृता ये च मातृवंशे तथैव च ॥
गुरुश्वशुरबंधूनां ये चान्ये बांधवा मृताः ॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते

5.58.55

ये मे कुले लुप्तर्पिडाः पुत्रदारादिवर्जिताः ॥
क्रियालोपगता ये च तेभ्यः श्राद्धं विधीयते

5.58.56

पंगुकुब्जा विरूपाश्च आमगर्भाश्च ये मृताः॥
ज्ञाताऽज्ञाताः कुले ये च तेभ्यः श्राद्धं विधीयते

5.58.57

आब्रह्मभुवनाद्ये च अन्यैर्दुर्मरणैर्मृताः॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते

5.58.58

तृषार्ताः क्षुधिताश्चैव हापिताश्चैव ये मृताः॥
प्रेतयोनिं गताश्चैव म्लेच्छयोनिं गताश्च ये॥
तेषामुद्धरणार्थाय अत्र श्राद्धं विधीयते

5.58.59

एवं श्राद्धविधिं व्यास तस्मिंस्तीर्थे समाचरेत् ॥
ऋणत्रयविनिर्मुक्तो वांछितार्थं लभेत सः ॥
गयायां च समासाद्य सुरा इंद्रपुरोगमाः ॥
चक्रुश्च विधिवत्सर्वे यदुक्तं देवभाषया

5.58.58

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये गयामाहात्म्ये श्राद्धविधिवर्णनंनामाष्टापञ्चाशत्तमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc