भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 5.5

5.5.1

॥ व्यास उवाच ॥ ॥
युद्धे निवारिते तत्र रक्तस्वेदजयोः पुरा ॥
किं कृतं ब्रह्मणा तत्र प्रायश्चित्तं च कर्मणाम्

5.5.2

जनार्दनेन किं कर्म शंकरेण च यन्मुने ॥
एतत्सर्वं समाख्याहि प्रसीद वदतांवर

5.5.3

॥ सनत्कुमार उवाच ॥ ॥
ब्रह्मा जुह्वन्नग्निहोत्रं वनौषधिफलच्छदैः ॥
शस्तैः कुशसमिद्भिश्च यथोक्तं हरिणा पुरा

5.5.4

बदर्याश्रममासाद्य नरनारायणावृषी ॥
तेपतुस्तौ तपश्चोग्रं हितार्थं सर्वदेहिनाम्

5.5.5

कपालपाणिर्देवेशः पर्यटन्वसुधामिमाम् ॥
कुशस्थलीं समासाद्य प्रविष्टस्तद्वनोत्तमम्

5.5.6

नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ॥
नानापक्षिरवाकीर्णं नानामृगसमाकुलम्

5.5.7

द्रुमपुष्पभरामोदवासितं यत्सुवायुना ॥
बुद्धिपूर्वमिव न्यस्तैः फलपुष्पैः सुपूजितम्

5.5.8

नानागंधरसाढ्यैश्च पक्वापक्वफलोद्भवैः ॥
फलैः सुवर्णरूपाढ्यैरासमन्तान्मनोरमैः

5.5.9

जीर्णपत्रतृणादीनि शुष्क काष्ठफलानि च ॥
बहिः क्षिपंति जातानि मरुतोनुग्रहाणि च

5.5.5.1.5.10

नानापुष्पसमूहानां गन्धमादाय मारुतः ॥
शीतलो वाति तं भूमिदेशं यत्र विवेश सः

5.5.11

हरितस्निग्धनिच्छिद्रैः पर्णैरञ्छिद्रकोटरैः ॥
वृक्षैरनेकसंख्यैश्च भूषितं शिरसान्वितैः

5.5.12

अरोगिदर्शनीयैश्च सुवृत्तैः क्वचि दुद्धतैः ॥
कुटुम्बैरिव विप्राणां सिद्धिर्वै भाति सर्वतः

5.5.13

शोभनैर्वायुसंकीर्णैरंकुरैः प्रावृता द्रुमाः ॥
कुलीनैरिव निच्छिद्रैः स्वगणैः प्रावृता नराः

5.5.14

पवनोद्धूतशिखरैः स्पर्शयंति परस्परम् ॥
आरात्पवनतोऽन्योन्यस्पृष्टशाखावतंसकाः

5.5.15

नागवृक्षाः क्वचित्पुष्पैर्भ्रमरालीनकेस रैः ॥
नयनैरिव शोभंते धवलैः कृष्णतारकैः

5.5.16

पुष्पसन्नद्धशिखराः कर्णिकारद्रुमाः क्वचित् ॥
युग्मयुग्मविवाहे च शोभंते साधु दंपतीः

5.5.17

सुपुष्पविभवाटोपैः सिन्दुवारस्य पंक्तयः ॥
मूर्तिमत्य इवाभांति पूजिता वनदेवताः

5.5.18

क्वचित्क्वचित्कुन्दलताः सुपुष्पाभरणोज्ज्वलाः ॥
दिक्षुदिक्षु प्रशोभन्ते बालचन्द्रा इवोद्यताः

5.5.19

अतिविद्रुमशोभाढ्या कासंत्यो यूथिकालताः ॥
पुष्पिताः पुष्पविटपान्वीज यंत्य इवोत्थिताः

5.5.5.1.5.20

शालार्जुनाः क्वचिद्भांति वनोद्देशेषु पुष्पिताः ॥
धौतकौशेयवासोभिः प्रावृताः पुरुषोत्तमाः

5.5.21

अविमुक्तं तु वल्लीभिः पुष्पितास्तु द्रुमास्तथा ॥
उपगूढा विराजन्ते नारीभिरिव सुप्रिया

5.5.22

चूताश्च तिलकाश्चैव मञ्जरीभिः करैरिव ॥
वायुप्रत्ताभिरन्योन्यं ढौकन्तीव हि सज्जनान्

5.5.23

परस्परं च संयुक्तैस्तिलकाशोकपल्लवैः ॥
हस्तैर्हस्तान्स्पृशंतीव सुहृदश्चित्तसंगताः

5.5.24

फलपुष्पनगा नम्राः पेशलेनेव सज्जनाः ॥
अन्योन्यमर्पयंतीव सपुष्पाणि फलानि च

5.5.25

मारुताश्लिष्टसंतुष्टैः पादपाः शालिवारिभिः ॥
आर्याः समागता लोके प्रीतिदाय इव स्थिताः

5.5.26

पुष्पाणामिव वेगेन स्वशोभार्थं व्रजंति वै ॥
समसन्नाहमासाद्य पुरुषाः स्पर्धयेव हि

5.5.27

पुष्पशोभाभरनतैः शिखरैः कंपसंयुतैः ॥
नृत्यन्ति पक्षिणो मत्ता युक्ताः शोभनशेखरैः

5.5.28

भृंगाः पवनविक्षिप्तामृतवल्लीलताश्रिताः ॥
सवल्लिकाः प्रनृत्यन्ति मानवा इव सप्रियाः

5.5.29

पुष्पाभिः कुन्दवल्लीभिः पादपाः क्वचिदावृताः ॥
भाति तारागणैश्चित्रैः शरदीव नभस्तलम्

5.5.5.1.5.30

द्रुमा णामप्यथाग्रेषु पुष्पिता माधवी लता ॥
शिखरा इव शोभन्ते रचिता बुद्धिपूर्वकम्

5.5.31

हरिताः कांचनच्छायाः फलिताः पुष्पिता द्रुमाः॥
सौहृदं दर्शयन्तीव नराः साधुसमागमे

5.5.32

पुष्पकिंजल्कबहुलाः किंजल्कबहुलोदराः ॥
किंजल्कमत्तमधुपा विशदा इव शारिका

5.5.33

शिरीष पुष्पसंकाशाः शुका मिथुनतः क्वचित्॥
कीर्तयंति गिरश्चित्राः पूजिता ब्राह्मणा यथा

5.5.34

संयुक्ताः सहचारिण्या मयूराश्चित्रबर्हिणः ॥
वनांतरे व्यतिष्ठंत एकांत इव संस्थिताः

5.5.35

कूजंति पत्रिसंघाता नानाद्भुतविराविणः ॥
कुर्वंति रमणीयं हि रमणीयतरं वनम्

5.5.36

नाना मृगगणाकीर्णं नित्यं समुदितांडजम् ॥
तद्वनं नंदनसमं मनोदृष्टिविवर्धनम्

5.5.37

कपालपाणिर्भगवांस्तथारूपं वनोत्तमम् ॥
ददर्श शंकरो दृष्ट्या सौम्यया नंदनोपमम्

5.5.38

ता वृक्षपंक्तयः सर्वा दृष्ट्वा रुद्रं समागतम् ॥
निवेद्य शंभवे भक्त्या मुमुचुः पुष्पसंपदम्

5.5.39

पुष्पप्रतिग्रहं कृत्वा पादपानां महेश्वरः ॥
वरं वृणीध्वं भद्रं वः पादपानित्युवाच सः

5.5.5.1.5.40

एवमुक्ते भगवता तरवो निरवग्रहाः ॥
ऊचुः प्रांजलयः सर्वे नमस्कृत्य महेश्वरम्

5.5.41

वरं ददासि देवेश प्रसन्न जनवत्सल ॥
इहैव भगवन्नित्य वने सन्निहितो भव

5.5.42

एष नः परमः कामो देवदेव नमोऽस्तु ते ॥
त्वं चेद्वससि देवेश वनेऽस्मिन्विश्वभावन

5.5.43

सर्वात्मना प्रपन्ना वै याचामहे वरोत्तमम् ॥
किमन्यवरकोटीभिरेष नो दीयतां वरः

5.5.44

इत्युक्तः पादपैः सर्वैः शरणागतवत्सलः ॥
वरं ददौ पादपेभ्यः प्रोच्यमानं मया शृणु

5.5.45

॥ महेश्वर उवाच ॥ ॥
बाढं मे मनसा वासो नित्यमत्र वनोत्तमे ॥
वरं ददामि भूयो वो न वृथा दर्शनं मम

5.5.46

नाग्निर्न वायुर्न जलं न सूर्यकिरणातपः ॥
न विद्युदशनिः शीतं रुजं वो जनयिष्यति

5.5.47

नित्यं पुष्पवरोपेता नित्यं सुस्थिरयौवनाः ॥
कामगाः कामरूपाश्च कामरूपफलप्रदाः

5.5.48

कामसंदर्शनाः पुंसां तपःसंध्याज्वलदृशाम् ॥
श्रिया परमया युक्ता मत्प्रसादाद्भविष्यथ

5.5.49

एवं स वरदः शंभुरनुजग्राह पादपान् ॥
स्थित्वा वर्षसहस्रं तु कपालं चाक्षिपद्भुवि

5.5.5.1.5.50

क्षितिं निपतता तेन कंपते स्म रसातलम् ॥
विवशास्तत्यजुर्वेलां सागराः क्षुभितोर्मयः

5.5.51

शक्राशनिहतानीव व्याघ्रव्यालान्वितानि च ॥
शिखराणि व्यशीर्यंत पर्वतानां सहस्रशः

5.5.52

देवसिद्धविमानानि गंधर्वनगराणि च ॥
प्रस्फुरन्ति विनिष्पेतुर्विनिनेशुर्धरातले

5.5.53

कपोतमेषाश्चात्यंतं पुनः संघातदर्शनाः ॥
ज्योतिर्ग्रहाश्छादयंतो बभूवुस्तीर्णभास्कराः

5.5.54

महता तस्य शब्देन जडांधबधिरं कृतम् ॥
बभूव व्याकुलं सर्वं त्रैलोक्यं सचराचरम्

5.5.55

सुरासुराणां सर्वेषां शरीराणि मनांसि च ॥
अवसे दुश्चकंपुश्च किमेतदिति जज्ञिरे

5.5.56

धैर्यमालंब्य सर्वेऽपि समागम्येंद्रपूर्वकाः ॥
ब्रह्मलोकं समासाद्य ब्रह्माणमिदमूचिरे

5.5.57

किं निमित्तं तु भगवन्नेतदुत्पातदर्शने ॥
त्रैलोक्यं कंपितं येन संयुक्तं कालकर्मणा

5.5.58

जातं कल्पावसानं च भिन्नमर्यादसागरम् ॥
चत्वारो दिग्गजाः किं नु बभूवुरचलाश्चलाः

5.5.59

धरा समाधृता कस्मात्सप्तसागरवारिणा ॥
उत्पत्तिर्नास्ति सर्वस्य भगवन्न प्रयोजनम्

5.5.5.1.5.60

यादृशोऽयं श्रुतः शब्दो न भूतो नापि विश्रुतः ॥
त्रैलोक्यमाकुलं येन चक्रे रौद्रेण भूयसा

5.5.61

एवमुक्तोऽब्रवीद्ब्रह्मा परमेशानुभावितः ॥
तत्प्रसादात्प्रति ज्ञानी ज्ञात्वा रुद्रमुपस्थितम्

5.5.62

यत्पृष्टं मरुतः सर्वे शृणुध्वं तत्र कारणम् ॥
निश्चयेनात्र विज्ञेयं श्रद्दधानैर्यथाविधि

5.5.63

मुखं छित्त्वा नखाग्रेण मद्देहात्पंचमं शिरः ॥
कपालपाणिर्भगवान्विष्णोराश्रममभ्यगात्

5.5.64

ययाचे पात्रमादाय भिक्षां नारायणं प्रभुम् ॥
उत्पपात मुनिस्तत्र नरोनाम धनुर्धरः

5.5.65

ततः कुशस्थलीमेत्य भगवांस्तद्वनोत्तमम् ॥
विवेश तरुमार्गेण पुष्पामोदाभिनंदितः

5.5.66

अनुगृह्याथ भगवान्वनं तत्सर्वगांडजम् ॥
जगतोऽनुग्रहार्थाय तत्र वासमरोचयत्

5.5.67

तत्कपालं करस्थं यन्न्यस्तं भगवता क्षितौ ॥
तेनैषा कम्पिता भूमिः कृतं त्रैलोक्यमाकुलम्

5.5.68

तद्द्रक्ष्यथ विरूपाक्षं प्रपद्यत मया सह ॥
आराध्यमानो भग वान्प्रदास्यति वरं हि वः

5.5.69

इत्युक्त्वा भगवान्ब्रह्मा सह तैर्देवदानवैः ॥
जगाम तद्वनोद्देशं यत्रास्ते वृषभध्वजः

5.5.5.1.5.70

प्रहृष्टमनसः सर्वे कोकिलालापलापिताम् ॥
पुष्पोच्चयोक्षितां सीमां विविशुः शंकरेप्सवः

5.5.71

संप्राप्तं सर्वमेतैस्तद्वनं नंदनसंमितम् ॥
सुवल्लीगृहशोभाढ्यं सुदृढं शुशुभे तदा

5.5.72

दृष्ट्वा तद्वनमुत्तमं तनुभृतामाह्रादकं चेतसां नानासत्फलपुष्पपादपवनैरासेवितं सर्वतः ॥
तस्मिन्बर्हिणहंससारसकुलै र्मंडूकमत्स्यैर्युते द्रक्ष्यामो हरमत्र चेतसि सुराः प्रापुर्मुदं ते तदा

5.5.5

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्य खण्डेऽवन्तीक्षेत्रमाहात्म्ये देवागमनवर्णनंनाम पंचमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc