भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 5.47-2

5.47-2.1

॥ श्रीदेवदेव उवाच ॥ ॥
सप्ताधिकं विजानीहि नूपुरेश्वरसंज्ञकम् ॥
यस्य दर्शनमात्रेण प्राप्यंते सर्वसिद्धयः ॥

5.47-2.2

पुरा राथन्तरे कल्पे नूपुरोनाम वै गणः ॥
रुद्रभक्तिपरोनित्यं पंचमुद्राविभूषितः

5.47-2.3

स एकदा कुबेरस्य सभायां प्राप्य संस्थितः ॥
द्रष्टुं महोत्सवं तत्र अप्सरोभिः कृतं तदा

5.47-2.4

ननृतुश्चापरास्तत्र ह्युर्वशी योषितां वरा ॥
रंभा तिलोत्तमा मेना ननृतुर्हर्षसंयुताः

5.47-2.5

तासां नृत्यं तदा वीक्ष्य नूपुरो गणपस्तदा ॥
कामबाणार्दितो नूनं तासां मध्ये ननर्त्त ह

5.47-2.6

नृत्यमानस्ततो हृष्टः पुष्पगु च्छेन वक्षसि ॥
उर्वशीं ताडयामास कामबाणप्रपीडितः

5.47-2.7

उर्वशी तु ततः क्रुद्धा पुष्पगुच्छेन ताडिता ॥
जगाम शरणं देवं धनदं सर्वकामदम्

5.47-2.8

उवाच धनदस्तत्र क्रोधेनाकुलमानसः

5.47-2.9

यस्मात्त्वया रंगभंगः कृतः कामार्द्दितेन वै ॥
तस्मात्त्वं मानुषे लोके पतस्व पापपूरुष

5.47-2.5.2.47.10

कुबेरस्य च शापात्तु जगाम धरणीतलम् ॥
विललाप सुदुःखार्त्तः किं कृतं पापिना मया

5.47-2.11

विलप्य सुभृशं सोऽथ शरणं परमेश्वरीम् ॥
जगाम मनसा देवि त्वां स वै वरदायिनीम्

5.47-2.12

त्वं तुष्टा तु तदा जाता प्रत्यक्षा परमेश्वरी ॥
उवाच गणपं प्रीत्या भक्तिनम्रं तदा भुवि

5.47-2.13

गच्छ पुत्र ममादेशान्महाकालवनं शुभम् ॥
प्राचीसरस्वती तत्र वाप्याकारा च विद्यते

5.47-2.14

तस्या दक्षिणतो वत्स विद्यते लिंगमुत्तमम् ॥
वाप्यां स्नात्वा च तल्लिंगं समाराधय भक्तितः

5.47-2.15

सा प्राची स च देवेशस्त्वन्नाम्ना ख्यातिमेष्यति ॥
इत्युक्तो नूपुरो देवि महाकालवनं गतः

5.47-2.16

त्वया च प्रेरितो देवि कीर्त्यर्थं तत्र गम्यताम् ॥
इत्युक्तो नूपुरो दिव्यो गणो हृष्टः कृतांजलिः

5.47-2.17

महाकालवनं रम्यं देवगंधर्वसेवितम् ॥
ददर्श तत्र तल्लिंगं सुरगन्धर्वसेवितम्

5.47-2.18

प्राची सरस्वती तत्र वाप्याकारा च संस्थिता ॥
तस्यां स्नात्वा ततो देवं पूजयामास नूपुरः

5.47-2.19

ततो देवः प्रसन्नात्मा प्रत्युवाचाथ नूपुरम्॥
साधु नूपुर भद्रं ते स्वस्ति प्राप्नुहि सर्वदा ॥

5.47-2.5.2.47.20

भविता वल्लभो देव्याः पार्वत्याः शंकरस्य च ॥
इत्युक्तस्तेन लिंगेन तत्क्षणान्नूपुरः प्रिये

5.47-2.21

उदितादित्यसंकाशो विभावसुसम द्युतिः ॥
तेजोराशिश्च संजातो दुर्निरीक्ष्यस्त्रिविष्टपैः

5.47-2.22

प्रभावं तादृशं दृष्ट्वा देवैरुक्तं वरानने ॥
अहो लिंगस्य माहात्म्यं दृश्यतेत्यद्भुतं भुवि

5.47-2.23

प्राप्ता च कामिकी सिद्धिर्नूपुरेण च दर्शनात् ॥
अतो देवोऽद्यप्रभृति विख्यातो भूतलेऽभवत्

5.47-2.24

सर्वकामप्रदो नित्यं नूपुरेश्वर नामतः ॥
दर्शनं ये करिष्यंति स्नात्वा वाप्यां समाहिताः

5.47-2.25

नूपुरेश्वररुद्रस्य ते यांति परमं पदम् ॥
ये च पूजां करिष्यंति भक्तिभावसम न्विताः ॥
वसंति मुदिताः सर्वे यावदाभूतसंप्लवम्

5.47-2.26

जन्ममृत्युजरारोगदुःखानि विविधानि च ॥
प्रयांति विलयं सद्यः पूजिते नूपुरेश्वरे

5.47-2.27

वापी गंगासमा सा तु स्वयमेव शुभेक्षणे ॥
संगमस्तु वितस्तायां यमुनायास्तु सुव्रते ॥
प्रयागमेतज्जानीहि भूधरेंद्रांगसंभवे

5.47-2.28

।
सोमतीर्थं तदा देवि सर्वपातकनाशनम् ॥
तत्र स्नात्वा पुमान्देवि वाजपेयफलं लभेत्

5.47-2.29

कृष्णाष्टम्यां च यः स्नात्वा पूजयेन्नूपुरेश्वरम् ॥
कुलं वै तारयेत्सोपि मातृकं पितृकं शतम्

5.47-2.5.2.47.30

एष ते कथितो देवि प्रभावः पापनाशनः ॥
नूपुरेश्वरदेवस्य श्रूयतामभयेश्वरम्

5.47-2.47

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये नूपुरेश्वरमाहात्म्यवर्णनंनाम सप्तचत्वारिंशो ऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc