भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 5.34-3

5.34-3.34.1

श्रीमार्कण्डेय उवाच -
तत्रैव तु भवेदन्यदादित्यस्य महात्मनः ।
कीर्तयामि नरश्रेष्ठ यदि ते श्रवणे मतिः

5.34-3.34.2

युधिष्ठिर उवाच -
एतदाश्चर्यमतुलं श्रुत्वा तव मुखोद्गतम् ।
विस्मयाद्धृष्टरोमाहं जातोऽस्मि मुनिसत्तम

5.34-3.34.3

सहस्रकिरणो देवो हर्ता कर्ता निरञ्जनः ।
अवतारेण लोकानामुद्धर्ता नर्मदातटे

5.34-3.34.4

पुरुषाकारो भगवानुताहो तपसः फलात् ।
कस्य गोत्रे समुत्पन्नः कस्य देवोऽभवद्वशी

5.34-3.34.5

श्रीमार्कण्डेय उवाच -
कुलिकान्वयसम्भूतो ब्राह्मणो भक्तिमाञ्छुचिः ।
ईक्ष्यामीति रविं तत्र तीर्थे यात्राकृतोद्यमः

5.34-3.34.6

योजनानां शतं साग्रं निराहारो गतोदकः ।
प्रस्थितो देवदेवेन स्वप्नान्ते वारितः किल

5.34-3.34.7

भोभो मुने महासत्त्व अलं ते व्रतमीदृशम् ।
सर्वं व्याप्य स्थितं पश्य स्थावरं जङ्गमं च माम्

5.34-3.34.8

तपाम्यहं ततो वर्षं निगृह्णाम्युत्सृजामि च ।
न मृ(भृ?)तं चैव मृत्युं च यः पश्यति स पश्यति

5.34-3.34.9

वरं वरय भद्रं त्वमात्मनो यस्तवेप्सितम्

5.34-3.34.10

ब्राह्मण उवाच -
यदि तुष्टोऽसि मे देव देयो यदि वरो मम ।
उत्तरे नर्मदाकूले सदा संनिहितो भव

5.34-3.34.11

ये भक्त्या परया देव योजनानां शते स्थिताः ।
स्मरिष्यन्ति जितात्मानस्तेषां त्वं वरदो भव

5.34-3.34.12

कुब्जान्धबधिरा मूका ये केचिद्विकलेन्द्रियाः ।
तव पादौ नमस्यन्ति तेषां त्वं वरदो भव

5.34-3.34.13

शीर्णघ्राणा गतधियो ह्यस्थिचर्मावशेषिताः ।
तेषां त्वं करुणां देव अचिरेण कुरुष्व ह

5.34-3.34.14

येऽपि त्वां नर्मदातोये स्नात्वा तत्र दिने दिने ।
अर्चयन्ति जगन्नाथ तेषां त्वं वरदो भव

5.34-3.34.15

प्रभाते ये स्तविष्यन्ति स्तवैर्वैदिकलौकिकैः ।
अभिप्रेतं वरं देव तेषां त्वं दद भोच्युत

5.34-3.34.16

तवाग्रे वपनं देव कारयन्ति नरा भुवि ।
स्वामिंस्तेषां वरो देय एष मे परमो वरः

5.34-3.34.17

एवमस्त्विति तं चोक्त्वा मुनिं करुणया पुनः ।
शतभागेन राजेन्द्र स्थित्वा चादर्शनं गतः

5.34-3.34.18

तत्र तीर्थे नरो भक्त्या गत्वा स्नानं समाचरेत् ।
तर्पयेत्पितृदेवांश्च सोऽग्निष्टोमफलं लभेत्

5.34-3.34.19

अग्निप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
द्योतयन्वै दिशः सर्वा अग्निलोकं स गच्छति

5.34-3.34.20

यस्तत्तीर्थं समासाद्य त्यजतीह कलेवरम् ।
स गतो वारुणं लोकमित्येवं शङ्करोऽब्रवीत्

5.34-3.34.21

तत्र तीर्थे तु यः कश्चित्संन्यासेन तनुं त्यजेत् ।
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते

5.34-3.34.22

अप्सरोगणसंकीर्णे दिव्यशब्दानुनादिते ।
उषित्वायाति मर्त्ये वै वेदवेदाङ्गविद्भवेत्

5.34-3.34.23

व्याधिशोकविनिर्मुक्तो धनकोटिपतिर्भवेत् ।
पुत्रदारसमोपेतो जीवेच्च शरदः शतम्

5.34-3.34.24

प्रातरुत्थाय यस्तत्र स्मरते भास्करं तदा ।
आजन्मजनितात्पापान्मुच्यते नात्र संशयः

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रवितीर्थवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc