भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 5.28

5.28.1

॥ सनत्कुमार उवाच ॥ ॥
अथान्यं संप्रवक्ष्यामि देवं त्रैलोक्यविश्रुतम्॥
चंद्रादित्यमिति ख्यातं चंद्रादित्यार्चितं पुरा

5.28.2

यस्तं समर्चयेद्देवं सुरासुरनमस्कृतम् ॥
गंधपुपोस्तथा धूपैर्नैवेद्यैविविधैस्तथा

5.28.3

चंद्रादित्यादिसालोक्यं प्रयाति सर्वकामिकम् ॥
विमानं सूर्यसंकाशैर्यावच्चंद्रदिवाकरौ

5.28.4

॥
इति चन्द्रादित्यमाहात्म्यम् ॥
॥ सनत्कुमार उवाच ॥ ॥
करभेशं ततो गच्छेद्देवदेवं महेश्वरम् ॥
यस्य दर्शनमात्रेण कुयोनौ नैव जायते

5.28.5

॥ व्यास उवाच ॥ ॥
करभेशमहं देवं श्रोतुमिच्छामि तत्त्वतः ॥
कथं देवः समुत्पन्नः करभेशेतिसंज्ञितः

5.28.6

॥ सनत्कुमार उवाच ॥ ॥
पुरा देवगणैः सार्धं देवदेवो महेश्वरः ॥
वनेऽस्मिन्क्रीडयामास परमाह्लादसंयुतः

5.28.7

क्रीडन्बहुतिथे काले शंकरः करभोऽभवत् ॥
ज्ञायते च स नो देवैः शंकरः करभाकृतिः

5.28.8

अन्वेषयंति ते देवास्ततो विस्मयसंयुताः ॥
न पश्यंति यदा तत्र तं देवं शूलपाणिनम्

5.28.9

देवैः पृष्टस्ततो ब्रह्मा क्वास्ति देवो महेश्वरः ॥
ध्यात्वाथ ब्रह्मणा दृष्टो गुप्तो योगप्रभुर्हरः

5.28.5.1.28.10

देवैः सार्धं ततो ब्रह्मा पप्रच्छ गणनायकम् ॥
न दृष्टः शंकरोऽस्माभिर्गतः कुत्र विनायक

5.28.11

कथयस्व नमस्तुभ्यं दास्यामो लड्डुकान्विभो ॥
एवमुक्तस्तदा हृष्टः प्रोवाच गणनायकः

5.28.12

करभोऽयं महाऽदेवो दृश्यते विबुधो त्तमाः ॥
श्रुत्वा चैवं वचो देवाः प्रहृष्टाः करभं ययुः

5.28.13

ज्ञातोऽस्माभिर्महादेव जल्पंत इति ते स्वयम् ॥
गत्वा चैव ततः सर्व चतुर्दिक्षु स्थिताः स्वयम्

5.28.14

विचिंत्येति कथं ज्ञातः शंकरो विस्मयं गतः ॥
त्यक्त्वाथ कारभं रूपं देवदेवो महेश्वरः

5.28.15

लिंगमुत्पादयामास दिव्यं यत्करभे श्वरम् ॥
ते दृष्ट्वाऽथ सुराः सर्वे साष्टांगप्रणतिस्थिताः

5.28.16

ततःप्रभृति विख्यातः शंकरः करभेश्वरः ॥
कोटितीर्थादुत्तरस्मिन्स्थापयामास विघ्नपम्

5.28.17

स्वनाम्ना प्रथितं चक्रे करभं चातिपूजितम् ॥
स्नात्वा तत्र शुचिर्भूत्वा यस्तमर्चयते शिवम्

5.28.18

गंधपुष्पैश्च नैवेद्यैः शृणु तेषां च यत्फलम् ॥
सर्वमेधेषु यत्पुण्यं सर्वदानेषु यत्फलम्

5.28.19

ततोऽधिकं स लभते नात्र कार्या विचारणा ॥
महाकालं ततो गच्छन्संपूर्णं फलमाप्नुयात्

5.28.5.1.28.20

ततः प्रसिद्धो लोकेऽस्मिन्नृद्धिदः करभेश्वरः

5.28.21

॥
इति करभेश्वरमाहात्म्यम् ॥ ॥ छ ॥ ॥
॥ सनत्कुमार उवाच ॥ ॥
लैडुकैश्च ततो देवैर्विघ्ननाथः समर्चितः ॥
तदाप्रभृति विख्यातो विश्वेशो लड्डुकप्रियः

5.28.22

यः समर्चयते भक्त्या तस्य विघ्नो न जायते ॥
तस्मै ददाति संतुष्टः सर्वान्कामान्विनायकः

5.28.23

निराहारश्चतुर्थ्यां च स्नात्वा शिप्रां विशेषतः ॥
रक्तांबरधरोभूत्वा रक्तपुष्पैर्विनायकम्

5.28.24

रक्तचंदनतोयेन मंत्रैः स्नपनपूर्वकम् ॥
चंदनेनापि रक्तेन तं विलेप्य प्रपूजयेत्

5.28.25

धूपं दद्यात्तथा दिव्यं सुगंधं लड्डुकप्रिये ॥
नैवेद्ये लड्डुका देया आज्यखंडपरिप्लुताः

5.28.26

न तस्य जायते व्याधिर्भयं विघ्नं कदाचन ॥
लभते च सदाभीष्टं मृतः शिवपुरं व्रजेत्

5.28.27

अवतीर्णः पुनर्लोके जायते वसुधाधिपः ॥
मतिमान्पुत्रवाञ्छूरो नात्र कार्या विचारणा

5.28.28

॥
इति गणेशमा हात्म्यम् ॥
॥ सनत्कुमार उवाच ॥ ॥
कुसुमेशं सुरद्वारे सुरासुरनमस्कृतम् ॥
श्रद्धया पूजयेद्यस्तु शिवलोके स मोदते

5.28.29

जयेश्वरं तु यः पश्येद्देवदेवं महेश्वरम् ॥
जयी स्यात्सर्वकार्येषु शिवलोकं स गच्छति

5.28.5.1.28.30

शिवद्वारे शिवं लिंगमर्चयेन्मानवो यदि ॥
त्रिदिवं याति यानेन गाणपत्यं च विंदति

5.28.31

अथान्यं संप्रवक्ष्यामि मार्कंडेश्वरमुत्तमम् ॥
मार्कण्डेयो मुनिर्यत्र तप्तवान्सुमहत्तपः

5.28.32

दृष्ट्वा तं शंकरं देवं वाजपेयफलं लभेत् ॥
सर्वपापविशुद्धात्मा चिरायुर्जायते नरः

5.28.33

शृणु व्यास महास्थानं यस्यां पुर्यामनुत्तमम् ॥
यत्र तिष्ठति सा देवी ब्रह्माणी हंसवाहिनी

5.28.34

भक्तानां पूरयेदाशां पुत्रवत्परिपालयेत् ॥
यथा माता तथा देवी दृष्टा शांतिपरैरपि

5.28.35

अर्चिता ब्रह्मणा सा तु स्तुता देवी सुरोत्तमैः ॥
अर्चयेद्गंधृपुष्पैश्च नैवेद्यैः सर्वसिद्धिदाम् ॥
अपि या ब्रह्मणः पूर्वमभूदेव सुसिद्धिदा

5.28.36

यः स्नात्वा ब्रह्मसरसि पश्ये द्ब्रह्मेश्वरं शिवम्॥
भवबंधविनिर्मुक्तो ब्रह्मलोके स मोदते

5.28.37

अथान्यां संप्रवक्ष्यामि यज्ञवापीमनुत्तमाम् ॥
यत्र वै ब्रह्मणा पूर्वमिष्टो यज्ञः सदक्षिणः

5.28.38

यज्ञार्थं यत्कृतं कुंडं यज्ञवापी च सा स्मृता ॥
पशुश्च पतितो यस्मात्तस्मात्पशुपतिः स्मृतः

5.28.39

तस्यां स्नात्वा शुचिर्भूत्वा पश्येत्पशुपतिं तु यः ॥
उद्धरेत्स पितॄन्व्यास पशुयोनिगतानपि

5.28.5.1.28.40

सुवर्णमणिमुक्ताद्यैर्विमानैः सर्वकामगैः ॥
याति रुद्रपुरं दिव्यं यत्र देवो महेश्वरः

5.28.41

रूपकुंडे नरः स्नात्वा सुरूपो जायतेनरः ॥
स्वर्गे स देवगंधर्वैः स्पृहणीयवपुर्भवेत्

5.28.42

कुंडे स्नात्वाप्यनंगे यः शुचिर्भूत्वा समाहितः ॥
पश्येच्च देवदेवेशमनंगेनार्चितं पुरा ॥
कामं स लभतेऽभीष्टं मृतो याति शिवालयम्

5.28.43

आषाढे तु सिताष्टम्यां जागरं यस्तु कारयेत् ॥
केदारे यत्फलं प्रोक्तं तत्समानमवाप्नुयात्

5.28.44

करीकुंडे नरः स्नात्वा विश्वरूपं तु योऽर्चयेत् ॥
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति

5.28.45

अजागंधे नरः स्नात्वा दृष्ट्वा ब्रह्मेश्वरं शिवम् ॥
ब्रह्महत्यासमं पापं तत्क्षणात्संव्यपोहति

5.28.47

चक्रतीर्थे नरः स्नात्वा चक्र स्वामिनमर्चयेत् ॥
जायते स नरो व्यास चक्रवर्ती सदा भुवि ॥ ४६.॥
सिद्धेश्वरं यदा पश्येत्स्नात्वा सुविधिपूर्वकम् ॥
कामिकेन विमानेन रुद्रलोकं स गच्छति

5.28.48

॥
इति यज्ञवापीमाहात्म्यम् ॥ ॥
सोमवत्यां नरः स्नात्वा यः सोमेश्वरमर्चयेत् ॥
सोमवन्निर्मलो भूत्वा सोमलोके स मोदते

5.28.49

॥ व्यास उवाच ॥ ॥
तीर्थं सोमवतीनाम लिंगं सोमेश्वरं तथा ॥
अभूदेतत्कथं नाम श्रोतुमिच्छामि तत्त्वतः

5.28.5.1.28.50

॥ सनत्कुमार उवाच ॥ ॥
शृणु व्यास यथोत्पन्नं सोमतीर्थं सुशोभनम् ॥
सोमेश्वरं यथा लिंगमेतत्सत्यं वदामि ते

5.28.51

यो देवो भगवान्सोमो लोकस्याप्यायनं परम् ॥
आसीत्तस्य पुरा व्यास पिता विप्रो महातपाः

5.28.52

अवन्त्यां च महाभागो योऽत्रिर्नामा तपोनिधिः ॥
वर्षाणां त्रीणि दिव्यानि सहस्राणि तपो महत्

5.28.53

[ह्त्त्प्:॥पुरनस्तुद्य्.पगे.त्ल्।अत्रि-%26%232309%3ब्%26%232340%3ब्%26%232381%3ब्%26%232352%3ब्%26%232367%3ब्.ह्त्म् अत्रि शब्दोपरि टिप्पणी]
ऊर्ध्वबाहुः स वै तेपे ब्रह्मध्यानपरायणः ॥
ऊर्ध्वं गतं ततो व्यास ब्राह्म्यं तेजो महात्मनः

5.28.54

नेत्राभ्यां तेन सुस्राव भासयच्च दिशो दश ॥
तेजस्तत्सहसा दृष्ट्वा दिशो दशोद्धतं स्वतः

5.28.55

दिशश्च तद्यदा व्यास सर्वा धर्तुं न चाशकन् ॥
असुस्रवत्तदा दिग्भ्यस्तद्धि तेजोतिदुःसहम्

5.28.56

लोकांश्च भासयत्सर्वान्धरण्यां वै पपात ह ॥
सोमो जातस्ततस्तेन शीतांशुश्च जनप्रियः

5.28.57

वारि सोमात्समुत्पन्नं व्यास तेनैव तेजसा ॥
प्रविष्टा सा नदी शिप्राममृतेनातिपूरिता

5.28.58

ततः सोमवती शिप्रा विख्याता सर्वसि द्धिदा ॥
सोमयुक्तां नदीं शिप्रां दृष्ट्वा पापं व्यपोहति

5.28.59

ख्याता च त्रिषु लोकेषु पापिनां पुण्यदायिनी ॥
ब्रह्महा वा सुरापो वा स्तेयी वा गुरुतल्पगः

5.28.5.1.28.60

चत्वारोऽप्यत्र पापेन मुच्यंते दर्शनाद्ध्रुवम् ॥
अमासोमौ यदा युक्तौ सोमवत्यां तदा मुने

5.28.61

स्नानं दानं च यो धीमाञ्जपं होमं समाचरेत् ॥
अक्षयं तस्य तत्सर्वं यावच्चंद्रदिवाकरौ

5.28.62

तिलोदकप्रदानेन पिंडदानेन कारिता ॥
अकाले कालिकी तृप्तिः पितॄणां च यतो मता

5.28.63

सर्वत्र दुर्लभा सिप्रा सोमं सोमग्रहस्तथा ॥
सोमेश्वरः सोमवारः सकाराः पंच दुर्लभाः

5.28.64

शिप्रासोमजलं व्यास कोटितीर्थफलप्रदम् ॥
अमासोमसमायोगे पितृतीर्थसमं स्मृतम्

5.28.65

अमायां सोमवारश्चेद्व्यतीपातो यदा भवेत् ॥
शतगुणं गयायास्तु सोमवत्यां प्रकीर्तितम्

5.28.66

एवं सोमवतीतीर्थं जातमत्र महामुने ॥
सोमं दृष्ट्वाथ पतितं क्षितौ ब्रह्मा जगद्गुरुः

5.28.67

रथे तं स्थापयामास लोकानां हितकाम्यया ॥
सं तु वेदमयो व्यास धर्माक्षः सत्यसंग्रहः

5.28.68

युक्तो वाजिसहस्रेण ब्रह्मणा प्रेरितस्तदा ॥
दृष्ट्वा सोमं ततो देवा रथे तं ब्रह्मणा युतम्

5.28.69

तुष्टुवुः सर्वभावेन हृष्टाः सर्वे समाहिताः ॥
तस्य संस्तूयमानस्य तेजः सोमस्य भास्वरम्

5.28.5.1.28.70

आप्यायमानं त्रीँल्लोकान्पपात धरणीतले ॥
ब्रह्मा तेन रथेनाथ सागरांतां वसुन्धराम्

5.28.71

त्रिःसप्तकृत्वोऽतिशयाच्चकाराब्धिप्रदक्षिणम् ॥
तस्य तत्पतितं तेजो व्यास सोमस्य शीतलम्

5.28.72

तदेवौषधयो दिव्या जाता भुवि सुनिर्मलाः ॥
याभिर्धार्यो ह्ययं लोकः प्रजाश्चैव चतुर्विधाः

5.28.73

तुष्टोऽथ भगवान्सोमो जगतेः सर्वदा मुने ॥
दशवर्षसहस्राणि तेपेऽतिदुःसहं तपः

5.28.74

ततस्तस्मै ददौ वाक्यं ब्रह्मा लोकपितामहः ॥
बीजौषधानि विप्राणां सोमो राजा बभूव ह

5.28.75

सप्तविंशतिं सोमाय दाक्षायणीर्महाव्रताः ॥
पत्नीः प्राचेतसो दक्षो ददौ नक्षत्रसंज्ञकाः

5.28.76

स तत्प्राप्य महद्राज्यं सोमो भार्यायुतस्तदा ॥
समारेभे राजसूयं सहस्रशतदक्षिणम्

5.28.77

होता च भगवानत्रिरध्वर्युर्भगवान्भृगुः ॥
हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमेयिवान्

5.28.78

सदस्यो भगवान्विष्णुः सनकादिमुखैर्युतः ॥
ददौ स दक्षिणां सोमस्त्रीँल्लोकान्सुसमाहितः

5.28.79

सिनीवाली कुहूश्चैव धृतिः पुष्टिः प्रभा वसुः ॥
कीर्तिर्धृतिश्च लक्ष्मीस्तं देव्यो दिव्याः सिषेविरे

5.28.5.1.28.80

प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः ॥
अतीव राजते चन्द्रो दशधा भासयन्दिशः

5.28.81

तस्य तत्प्राप्य दुष्प्राप्यमैश्वर्यमृषिसंस्कृतम् ॥
विबभ्राम मतिर्व्यास विनयाद्यमपास्य च

5.28.82

बृहस्पतेस्तदा भार्यां तारानाम्नीं यशस्विनीम् ॥
जहार तमसा साध्वीमवमान्यां गिरःसुतम्

5.28.83

वाच्यमानस्तदा सोमो देवदेवर्षिभिस्तथा ॥
नैव व्यसर्जयत्तारां तस्मा आंगिरसाय च

5.28.84

बृहस्पतेस्ततः पक्षं शक्रो जग्राह कोपतः ॥
स हि शिष्यो महातेजा गुरोः पूर्वं वृहस्पतेः

5.28.85

ततो युद्धमभूत्तत्र सुघोरं शक्रसोमयोः ॥
देवानां दानवानां च व्यास त्रासकरं महत्

5.28.86

सर्वे भीतास्ततो देवा ब्रह्माणं शरणं गताः ॥
अग्रतो ब्रह्मणो युद्धं कथितं शक्रसोमयोः

5.28.87

देवानां वचनं श्रुत्वा सार्द्धं देवैः पितामहः ॥
आगत्य युद्धभूमिं सोऽवारयद्देवदानवान्

5.28.88

वारितास्ते स्थितास्तत्र युद्धं त्यक्त्वा सुरासुराः ॥
तारामादाय स तदा ददा वांगिरसे द्विजे

5.28.89

तामंतःप्रसवां दृष्ट्वा प्राह भार्यां बृहस्पतिः ॥
मदीयायां न ते योन्यां गर्भो धार्यः कथंचन

5.28.5.1.28.90

उत्ससर्ज ततस्तारा कुमारं देवरूपिणम् ॥
इषीकास्त्रं समासाद्य ज्वलंतमिव पावकम्

5.28.91

स तेजो जातमात्रोऽपि देवानामाक्षिपच्छिशुः ॥
ततः संशयमापन्ना ऊचुस्तारां दिवौकसः

5.28.92

कस्यायं ब्रूहि सुभगे सोमस्याथ बृहस्पतेः ॥
नाचचक्षे तु देवानां वेधाः पप्रच्छ तां पुनः

5.28.93

यदत्र सत्यं तद्ब्रूहि तारे कस्य सुतो ह्ययम् ॥
सा प्रांजलिरुवाचेदं ब्रह्माणं वरदं विभुम्

5.28.94

सोमस्येति रहः सोऽयं कुमारो देवसंनिभः ॥
सोमस्य तं सुतं ज्ञात्वा परिष्वज्य पितामहः

5.28.95

बुध इत्यकरोन्नाम तस्य पुत्रस्य वै तदा ॥
परदारापहाराच्च यत्पापं तेन दुःसहम्

5.28.96

तेन सोमोऽभवत्कुष्ठी क्षयरोगयुतस्तदा ॥
ततो राज्ये स्वकं पुत्रं स्थापयित्वा यथाविधि

5.28.97

अवन्तीमाजगामाशु सोमो देवदिदृक्षया ॥
सोमाहे सोमवत्यां च अमायोगे जितेंद्रियः

5.28.98

स्नात्वा संपूजयामास सोमः सोमेश्वरं ततः ॥
तस्य भक्त्या च सन्तुष्टः प्राह सोमं महे श्वरः

5.28.99

मत्प्रसादाद्वपुः कांतं तव सोम भविष्यति ॥
सोमेश्वरमिति ख्यातं भुक्तिप्रदायकम्

5.28.5.1.28.100

एवं व्यास तु तत्तीर्थं लिंगं चैवाति दुर्लभम् ॥
कथितं तथ्यभावेन मया तुष्टेन सांप्रतम्

5.28.101

श्रावणं प्राप्य यो मासं सोमनाथं जितेंद्रियः ॥
नित्यं पश्येन्नरो व्यास तस्य पुण्यफलं शृणु

5.28.102

सौराष्ट्रे सोमनाथस्य पूजायाः प्रत्यहं फलम् ॥
लभते स नरो व्यास नात्र कार्या विचारणा

5.28.28

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये सोमवतीतीर्थमाहात्म्यवर्णनंनामाष्टाविंशो ऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc