भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 5.26-2

5.26-2.1

ईश्वर उवाच ॥
विद्धि षड्विंशकं देवि देवं सोमेश्वरं परम्॥
यस्य दर्शनमात्रेण निष्कलंको नरो भवेत्

5.26-2.2

अत्रिर्नाम महाभागो ब्रह्मणो मानसः सुतः॥
प्रजापतिरभूद्देवि कल्पे वाराहसंज्ञके

5.26-2.3

तस्य पुत्रोऽभवत्सोमो दक्षोथ मातृभागतः॥
सप्तविंशतिर्याः कन्या दाक्षायण्यः प्रकीर्तिताः

5.26-2.4

सोमपत्न्यो हि मंतव्यास्तासां श्रेष्ठा तु रोहिणी॥
तामेव भजते सोमो नेतरां इति शुश्रुम॥

5.26-2.5

इतराः प्रोचुरागत्य दक्षस्याग्रे यथातथम् ॥
दक्षोऽथ स तदागत्य तमुवाच स नाकरोत्

5.26-2.6

यदा न वारितस्तस्थौ दक्षः कुद्धस्तदा प्रिये ॥
शशाप सोमं संक्रुद्धः शीघ्रमंतर्हितो भव

5.26-2.7

एवं शप्तस्तु सोमो वै तदा ह्यंतर्हितोऽभवत् ॥
शशाप सोमो दक्षं तु भवानपि भविष्यति ॥

5.26-2.8

अनेकत्वं विहायैतज्जलदेहं सनातनम् ॥
अतः प्राचेतसो दक्षो ब्रह्मपुत्रोऽपि गीयते

5.26-2.9

एवमंतर्हितः सोमो गतो वै दक्षशापतः ॥
देवाश्च नागा यक्षाश्च गंधर्वाः पितृभिः सह ॥
वैराजं ब्रह्मसदनं ब्रह्माणं समुपस्थिताः

5.26-2.5.2.26.10

तस्याग्रे कथयामासुर्नमस्कृत्य पुनःपुनः ॥
भगवन्सर्वभूतानामादिकर्त्ता स्वयंभुवः

5.26-2.11

स्रष्टा च हव्यकव्यानां पाहि नः शरणागतान्॥
देवानां वचनं श्रुत्वा ज्ञात्वा देवः प्रजापतिः

5.26-2.12

आश्वासयामास सुरान्सुश्लिष्टैर्वचनांबुभिः ॥
अवश्यं त्रिदशास्तेन प्राप्तव्यं कर्मणः फलम्

5.26-2.13

शापांतं भगवान्देवो विष्णुरेव करिष्यति ॥
एतच्छ्रुत्वा ततो देवा वाक्यं पंकजजन्मनः ॥
शरण्यं शरणं विष्णुमुपतस्थुर्गतव्यथाः

5.26-2.14

ब्रह्मणा सहिता देवि स्तुतिं चक्रुः समाहिताः ॥
नमस्ते देवदेवेश नमस्ते विश्वभावन ॥
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज

5.26-2.15

नारायण जगन्नाथ देवास्त्वां शरणं गताः ॥
त्वं हि नः परमो ध्येय स्त्वं हि नः परमो गुरुः

5.26-2.16

त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥
अंतर्धानं गतः सोमो दक्षशापाज्जनार्द्दन

5.26-2.17

विना सोमेन चौषध्यो नष्टा देव महीतले ॥
तेषां तद्वचनं श्रुत्वा विष्णुर्वचनमव्रवीत्

5.26-2.18

भयं त्यजध्वममरा अभयं वो ददाम्यहम् ॥
नष्टं चंद्रमसं शीघ्रं मानयिष्याम्यसंशयम्

5.26-2.19

एवमुक्त्वा तु भगवान्विसृज्य त्रिदशेश्वरान् ॥
सोमं सस्मार सहसा शंखचक्रगदाधरः

5.26-2.5.2.26.20

यदा स्मृतो न चाभ्येति तदा क्रुद्धो जनार्दनः ॥
पुराणपुरुषो देवो ब्रह्माणमिदमव्रवीत्

5.26-2.21

देवैरसुरसंघैश्च मथ्यतां कलशोदधिः ॥
भविष्यति पुनश्चंद्रो मथ्यमाने महोदधौ

5.26-2.22

अमृतं तत्र लप्स्यध्वं रत्नानि विविधानि च ॥
तस्य तद्वचनं श्रुत्वा वासुदेवस्य पार्वति

5.26-2.23

मंथानं मंदरं कृत्वा नेत्रं कृत्वा च वासुकिम् ॥
देवा मथितुमारब्धाः समुद्रं निधिमंभसाम्

5.26-2.24

सोमार्थे च पुरा देवि तथैवासुरदानवाः ॥
एतैर्मुखमुपाश्लिष्टौ नाग राजो महेर्ष्यया

5.26-2.25

विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ॥
अतो वै भगवान्देवो यतो नारायणस्ततः

5.26-2.26

शिरस्युद्यम्य नाग स्य पुनः पुनरवाक्षिपत् ॥
उदधौ मथ्यमाने वै महाञ्छब्दो बभूव ह

5.26-2.27

तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा ॥
विलयं समुपाजग्मुः शतशोथ सहस्रशः

5.26-2.28

तस्मिंस्तु मथिते देवि प्रयत्नात्केशवस्य च ॥
प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्वलः

5.26-2.29

तमेव देवा मनुजाः पितरश्च यशस्विनि ॥
उपजीवंति वृक्षाश्च तथैवौषधयो विधुम्

5.26-2.5.2.26.30

समुत्पन्नमथो दृष्ट्वा भगवान्प्राह केशवः ॥
पालयेमाः प्रजाश्चंद्र त्वं ज्येष्ठो जगतो भव

5.26-2.31

इत्युक्तो वासुदेवेन प्रजाः पालयितुं शशी ॥
पूर्वं सोमोपि यो नष्टः प्रविष्टो गहनं वनम्

5.26-2.32

तस्याग्रे नारदः सर्वं कथयामास सत्वरम् ॥
देवर्षेर्वचनं श्रुत्वा नारदस्य महात्मनः

5.26-2.33

पीडितो दक्षशापेन सोमोऽप्यंतर्हितस्तदा ॥
जगाम शरणं देवि ब्रह्माणं परमेष्ठिनम्

5.26-2.34

तत्र गत्वा यथाशापं कथयामास गद्गदः ॥
पूर्वचंद्रवचः श्रुत्वा ब्रह्मा वचनमब्रवीत्

5.26-2.35

अयं मे प्रथमः पुत्रः पीडितः शशिना भृशम् ॥
नवेनोदधिजातेन किं मया क्रियते पुनः

5.26-2.36

विष्णुना च बलं दत्तमस्मै चंद्रमसे दृढम् ॥
तस्माद्यास्यामि तत्राहं यत्र देवो जनार्दनः

5.26-2.37

तं दृष्ट्वा मधुहंतारं ब्रह्मा विष्णुमुवाच ह ॥
त्वदादेशाजगन्नाथ एष चंद्रः कृतो मया

5.26-2.38

स चायं पीडितो देव शशांकेन नवेन वै ॥
इत्युक्तो ब्रह्मणा देवि वासुदेवो जगत्पतिः ॥
वृत्तांतं कथयामास ब्रह्माग्रे च पुनःपुन.

5.26-2.39

ब्रह्मापि पूर्वचंद्रार्थे विष्णुं लोकनमस्कृतम् ॥
तुष्टाव प्रणतो भूत्वा प्रांजलिः प्रणतः स्थितः

5.26-2.5.2.26.40

नमः कृष्ण नमो विष्णो नमो जिष्णो नमोनमः ॥
नमो वामन गोविंद नमोऽनंत नमोऽच्युत

5.26-2.41

जयस्व गोविंद महानुभाव जयस्व विश्णो जय पद्मनाभ ॥
जयस्व सर्वाद्य गदाधरेश जयस्व विश्वेश्वर विश्वमूर्त्ते

5.26-2.42

एवं स्तुतस्तदा देवि ब्रह्मणा लोककारिणा ॥
समीपस्थं समालोक्य सोमं वचनम ब्रवीत्

5.26-2.43

गच्छ सोम ममादेशान्महाकालवनोत्तमे ॥
उत्तरे मुक्तिलिंगस्य लिंगं कातिकरं परम् ॥
तमाराधय यत्नेन स ते देहं प्रदास्यति ॥

5.26-2.44

इत्युक्तो वासुदेवेन ब्रह्मणा च पुनः पुनः ॥
आजगाम महादेवि महाकालवनोत्तमे ॥
लिंगं दृष्ट्वा च तुष्टाव स्तोत्रेणानेन सुव्रते

5.26-2.45

॥
॥ चंद्र उवाच ॥ ॥
नमो देवाधिदेवाय त्रिनेत्राय महात्मने ॥
रक्तपिंगलनेत्राय जटामुकुटधारिणे

5.26-2.46

भूतवेतालजुष्टाय महादेवाय शूलिने ॥
भीमाट्टहासयुक्ताय कपर्दिस्थाणवे नमः

5.26-2.47

पूष्णो दंतविनाशाय तथांधकविनाशिने ॥
कैलासवरवासाय सर्वदेवायते नमः ॥

5.26-2.48

विकरालोर्द्ध्वकेशाय भैरवाय नमोनमः ॥
अग्निज्वालाकरालाय कलिधर्मविवासिने

5.26-2.49

तथा दारुवनध्वंसकारिणे तिग्मशूलिने ॥
कृतकंकणभोगींद्रकंठसूत्राय शूलिने

5.26-2.5.2.26.50

प्रचंडदंडहस्ताय वडवाग्निमुखाय च ॥
वेदांतवेद्याय नमो यज्ञमूर्ते नमोनमः

5.26-2.51

दक्षयज्ञविनाशाय जगद्भयकराय च ॥
विश्वेश्वराय देवाय स्थूलसूक्ष्माय शंभवे ॥
कपर्दिने करालाय सर्वदेवाय ते नमः

5.26-2.52

एवं स्तुतस्तदा देवि चंद्रेणांतर्हितेन च ॥
लिंगरूपी महादेवस्तुष्टो वाक्यमथाब्रवीत्

5.26-2.53

स्तोत्रेणानेन तुष्टोऽस्मि ब्रूहि सोम किमिच्छसि ॥
यत्तेभिलषितं सर्वं तत्कर्त्तास्मि न संशयः

5.26-2.54

॥ सोम उवाच ॥ ॥
यदि त्वहमनुग्राह्यो यदि तुष्टोऽसि मे प्रभो ॥
कांत्या दीप्त्या तथा मूर्त्या तथा रूपेण च प्रभो॥

5.26-2.55

स्वपदं कर्त्तुमिच्छामि त्वत्प्रसादान्महेश्वर ॥
एवमस्त्विति लिंगेन तत्क्षणाद्रजनीचर

5.26-2.56

द्विजराजेन तत्प्राप्तं लिंगस्यास्य प्रसादतः ॥
सोमेनाराधितो यस्माद्देवदेवो महेश्वरि

5.26-2.57

तेन सोमेश्वरोनाम विख्यातो भुवनत्रये ॥
येऽर्चयंति महादेवि देवं सोमेश्वरंपरम्

5.26-2.58

कृत पुण्या नरा मर्त्यास्ते यांति परमं पदम् ॥
यः पश्यति नरो भक्त्या लिंगं सोमेश्वरं प्रिये

5.26-2.59

विमुक्तो जन्मदुःखाद्यैर्लीयते मयि मानवः ॥
ते नराः पशवो लोके किं तेषां जीविते फलम्

5.26-2.5.2.26.60

यैश्च सोमेश्वरो देवो न दृष्टो न च पूजितः ॥
संसारेऽस्मिन्महाघोरे जन्मरोगभयाकुले

5.26-2.61

एकः सोमेश्वरः पूज्यः कुष्ठरोगविनाशनः ॥
स एव सुकृती लोके कुलं तेनाभ्यलंकृतम्

5.26-2.62

आधारः सर्वलोकानां येन सोमेश्वरो ऽर्चितः ॥
सकृदभ्यर्च्य सोमेशं बिल्वपत्रेण मानवः ॥
मुक्तो भोगी निरातंको मम लोके वसेच्चिरम्

5.26-2.63

कांचनैः कुसुमैर्देवि लिंगं सोमेश्वरं प्रिये ॥
पूजयंति नरा भक्त्या ते यांति परमां गतिम्

5.26-2.64

एष ते कथितो देवि प्रभावः पापनाशनः ॥
सोमेश्वरस्य देवस्य शृणुष्वानरकेश्वरम्

5.26-2.26

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये सोमेश्वरमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc