भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 5.20-2

5.20-2.1

॥ ईश्वर उवाच ॥ ॥
प्रतीहारेश्वरं देवि विद्धि विंशतिमं प्रिये ॥
यस्य दर्शनमात्रेण धनवानिह जायते

5.20-2.2

दक्षकोपात्त्वं च देवि पुरा प्राणैर्विसर्जितैः ॥
हिमाचले तथा जाता मया प्राप्ता पुनः प्रिये

5.20-2.3

प्रारब्धा च मया देवि त्वया सार्द्धं रतिस्तदा ॥
दिव्यं वर्षशतं जातं साग्रं देवि प्रमोदतः ॥
अनुरागवशाच्चैव मन्मथेन प्रपीडिता

5.20-2.4

महारतिं समीक्ष्याथ देवाः संक्षुब्धमानसाः ॥
चक्रुर्मंत्रं यथाकालं वासवाद्या यथोचितम्

5.20-2.5

दिव्यं वर्षशतं रुद्रो गौर्या सह सदा रतिम् ॥
कुर्वंस्तिष्ठति देवोऽसौ मंदरे चारुकंदरे

5.20-2.6

अनयोर्बीजसंपत्योः पुत्रो यो हि भवेत्तदा ॥
विनश्येत्तेन त्रैलोक्यमखिलं च न संशयः

5.20-2.7

तस्य तेजोपि नो वोढुं समर्था निश्चितं वयम् ॥
तस्मात्तत्क्रियतां कर्म रतिर्येनो पशाम्यति

5.20-2.8

उपायं दृष्टवांस्तत्र देवानां गुरुरग्रणीः ॥
बृहस्पतिर्महातेजा वेदशास्त्रार्थपारगः

5.20-2.9

गच्छंतु त्रिदशाः सर्वे शिवस्य तु समीपतः॥
स्वयं विज्ञाप्यतां देवस्तत्कर्म न करिष्यति

5.20-2.5.2.20.10

इति निश्चित्य ते देवि जग्मुः शीघ्रं सुरास्तदा॥
मंदराद्रेः शुभे द्वारि स्थितास्ते विस्मयान्विताः

5.20-2.11

गणानामधिपो नंदी द्वारि तिष्ठति यत्नतः॥
त्वया सार्द्धमहं देवि कुर्वंस्तिष्ठामि तां रतिम्

5.20-2.12

अथ प्रवेशो देवानां दुष्करो मम पार्श्वतः ॥
तदा चिंतयमानाश्च तत्र तिष्ठंति ते सुराः

5.20-2.13

अग्निना तद्धितं वाक्यमुक्तं तेषां पुरः शुभम् ॥
हंसरूपं समास्थाय यास्यामि शिवसन्निधौ

5.20-2.14

वंचयित्वा प्रतीहारं कृतं तेन तथैव च॥
हंसरूपेण कथितं कर्णे मम शुचिस्मिते

5.20-2.15

इन्द्राद्या अमरा देवा द्वारि तिष्ठंति संयताः॥
श्रुत्वा तस्य च तद्वाक्यं ततोहं द्वारमागतः

5.20-2.16

ततश्च तै- कुतो मह्यं प्रणामश्च यथाक्रमम्॥
मया दृष्टाश्च ते देवा युष्माकं किं करोम्यहम्

5.20-2.17

तैरुक्तं त्यज्यतां चैव संभोगस्तु सुदारुणः॥
तथा मया कृतं देवि गतास्ते त्रिदिवं पुनः

5.20-2.18

ततः शप्तो मया नंदी भूलोकं गच्छ सत्वरम्॥
ततः शापपरिभ्रष्टः पृथिव्यां पतितस्तदा

5.20-2.19

सोच्छ्वासहृदयो दीनो दुःखव्याकुललोचनः॥
विलपंश्च तथा नंदी विलुठञ्छोकतो भुवि

5.20-2.5.2.20.20

वंचितश्चाग्निना बाढं वासवेन विशेषतः॥
किं मया दुष्कृतं कर्म कृतं किं चित्पुरातनम्

5.20-2.21

स दृष्टो लोकपालैस्तु तामवस्थां गतो गणः ॥
पृष्टश्च तैः कुतो नदिन्विलापं कुरुषे महत्

5.20-2.22

सर्वं निवेदितं तेन तेषामग्रे च नंदिना ॥
उपायः कथितस्तैश्च महाकालवनं ततः

5.20-2.23

ततश्च वचनं श्रुत्वा नंदी रोमांचकंचुकः ॥
महाकालवने देवि जगाम स तदा गणः ॥
पूजयामास विधिवद्धृत्वा कपालिकीं तनुम्

5.20-2.24

अशरीरसमुत्पन्ना वाणी लिंगात्तदा प्रिये ॥
संजाता शापमोक्षस्ते प्रतीहार सुभक्तितः ॥
पूजितोऽसौ महाभक्त्या प्रतीहारेण नंदिना

5.20-2.25

तदाप्रभृति लोकेस्मिन्प्रतीहारेश्वरेश्वरः ॥
मया ते कथितो देवि प्रतीहारेश्वरस्य च ॥
प्रभावः सर्वलोकानामत्यभीष्टफलप्रदः

5.20-2.26

पूजयिष्यंति ये भक्त्या प्रतीहारेश्वरं शिवम् ॥
स्थानभ्रंशो वियोगश्च तेषां स्वप्नेऽपि नो भवेत्

5.20-2.27

सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ॥
तत्सर्वं नाशमायाति प्रतीहारेश्वरार्चनात्

5.20-2.28

मनसा ये स्मरिष्यति प्रतीहारेश्वरं शिवम्॥
एवं तस्य कुलं सर्वं याति स्वर्गं न संशयः

5.20-2.20

इति श्री स्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये प्रतीहारेश्वरमाहात्म्यवर्णनंनाम विंशोध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc