भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 5.14

5.14.1

॥ सनत्कुमार उवाच ॥ ॥
स्नात्वा चतुःसमुद्रे तु पश्येद्राजस्थलं शिवम् ॥
यस्य दर्शनमात्रेण पुत्रवाञ्जायते नरः

5.14.2

समुद्राः संति चत्वारः क्षारक्षीरदधीक्षवः ॥
समीपे तस्य देवस्य सुद्युम्नेन प्रतिष्ठिताः

5.14.3

॥ व्यास उवाच ॥ ॥
राजस्थल समीपे तु समुद्राः केन हेतुना ॥
कथय त्वं मुनिश्रेष्ठ सुद्युम्नेन प्रतिष्ठिताः

5.14.4

लक्षयोजनपर्यंतं जंबुद्वीपं सुशोभनम् ॥
मर्यादायां स्थापितोऽयं समुद्रः क्षारसंज्ञितः

5.14.5

शाकद्वीपे द्विलक्षे तु क्षीराब्धिः संप्रतिष्ठितः ॥
दध्यब्धिस्तु कुशद्वीपे चतुर्लक्षः प्रतिष्ठितः॥
शाल्मले त्विक्षुजलधिर्ह्यष्टलक्षः प्रतिष्ठितः

5.14.6

चत्वारस्ते समाख्याताः समुद्रा भूमिमंडले ॥
राजस्थलसमीपे तु कथमेकत्र संगताः

5.14.7

॥ सनत्कुमार उवाच ॥ ॥
सुद्युम्नो नाम राजासीत्पुरा कल्पे सुधार्मिकः ॥
तस्य पत्नी वरारोहा नाम्ना ख्याता सुदर्शना

5.14.8

मुनिं दाल्भ्यं च सा दृष्ट्वा पप्रच्छ सुतकाम्यया ॥
भगवन्केन दानेन स्नानेन विधिनाऽथवा

5.14.9

सर्वलक्षणसंपूर्णः पुत्रो लभ्यो मया कथम् ॥
एतदाख्याहि विप्रर्षे याथातथ्यं सविस्तरम् ॥

5.14.5.1.14.10

॥ दाल्भ्य उवाच ॥ ॥
विहितास्ते पुरा पुत्र्यब्धयः पुत्रेप्सयोत्तमाः ॥
स्वयंभुवेन देवेन ब्रह्मणा लोककारिणा

5.14.11

तेषु राज्ञा कृते स्नाने तव पुत्रो भविष्यति ॥
शंकराराधने पुत्रि तस्मात्प्रेरय वल्लभम्

5.14.12

दाल्भ्यस्यैव तु वाक्येन विचित्राख्यानकेन च ॥
प्रस्थापयामास पतिं शंकराराधने द्रुतम्

5.14.13

स गत्वा तोषयामास शंकरं गंधमादने ॥
संतुष्टः शंकरः प्राह शशिसूर्याग्निलोचनः

5.14.14

अवंतीं गच्छ राजेद्र पुत्रं प्राप्स्यसि शोभनम्॥
मच्छासनाज्जलधयो गमिष्यंति कुशस्थलीम्

5.14.15

मेरुरूपे स्थले राजन्समीपे शंकरस्य च ॥
द्रक्ष्यसि त्वं नरश्रेष्ठ जलधींस्तत्र संगतान्॥
अभ्यर्थितास्त्वया तत्र स्थास्यंति कलया सदा

5.14.16

एवमुक्त्वा महादेवो जगामादर्शनं विभुः ॥
सुद्युम्नो भार्यया सार्धमाजगाम कुशस्थलीम्

5.14.17

आगतस्तु कुशस्थल्यां समुद्रांश्च ददर्श ह ॥
तांस्तु दृष्ट्वा नमश्चक्रे राजस्थलसमीपतः

5.14.16

ते वै दृष्ट्वा च सुद्युम्नं प्रणतं भक्तवत्सलम् ॥
प्रोचुर्वारिधयः सर्वे वरं वरय सुव्रत

5.14.19

स वव्रे मनसा पुत्रं सर्वलक्षणसंयुतम् ॥
उवाच च पुना राजा यावत्ति ष्ठति मेदिनी ॥
तावदत्रैव स्थातव्यं राजस्थलसमीपतः

5.14.5.1.14.20

॥ समुद्रा ऊचुः ॥ ॥
तावत्स्थास्यामहेऽत्रैव यावत्कल्पावसानकम्

5.14.21

भविष्यति च ते पुत्रः सर्वलक्षणसंयुतः ॥
अत्र ते स्नानमात्रेण तस्मात्स्नानं समाचर

5.14.22

स्थले चात्र शुभे राजन्स्थास्यामः कलया सह ॥।
एवं व्यास समुद्रास्तु सुद्युम्नेनावतारिताः

5.14.23

कुरुते तेषु यो यात्रां तस्य पुण्यफलं शृणु ॥
स्नानं कृत्वा महापुण्ये समुद्रे क्षारसंज्ञके ॥।

5.14.24

कुर्याच्छाद्धं ततो व्यास पितॄणां भक्तितत्परः ॥
पूजयेच्च महादेवं स्थलस्थं पार्वतीपतिम्

5.14.25

मंडकांश्च ततो दद्याद्ब्राह्मणे वेदपारगे ॥।
पात्रं ताम्रमयं कार्यं लवणेन प्रपूरितम्

5.14.26

सहिरण्यं च दातव्यं ब्राह्मणे वेदपारगे ॥
सप्तधान्यसमायुक्तं वेणुजं वस्त्रवेष्टितम्

5.14.27

सदक्षिणं फलैर्युक्तमर्घ्यं दद्यात्प्रयत्नतः ॥
क्षीराब्धिं च ततो गत्वा स्नानं कुर्याच्च पूर्ववत्

5.14.28

क्षीरं तत्र प्रदातव्यं ताम्रपात्रेण पूरितम् ॥
दध्यब्धौ च तथा कृत्वा दद्याद्दध्योदनं शुभम्

5.14.29

इक्ष्वब्धौ च तथा कृत्वा दद्याद्विप्रे गुडं शुभम् ॥
यात्रां कृत्वा तु वै व्यास गां च दद्यात्पयस्विनीम्

5.14.5.1.14.30

।
एवं यः कुरुते यात्रां राजस्थलसमीपतः ॥
भव्यां हि लभते लक्ष्मीं पुत्रांश्चापि मनोरमान्

5.14.31

मृते स्वर्गमवाप्नोति यावदिंद्राश्चतुर्दश ॥
तावत्स्वर्गफलं भुक्त्वा पश्चान्मोक्षं प्रयास्यति

5.14.14

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहा त्म्ये राजस्थलेश्वरसमीपे चतुःसमुद्रमाहात्म्यवर्णनंनाम चतुर्दशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc