भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 4.4

4.4.1

॥ सूत उवाच ॥ ॥
मुनिपृष्टास्तदा देवा भगवंस्ते किमब्रुवन्॥
सर्वलोकहितार्थाय तदाख्याहि महामुने

4.4.2

॥ श्रीव्यास उवाच ॥ ॥
अगस्तिवचनं श्रुत्वा बहुमानपुरस्सरम् ॥
धिषणाधिपतेरास्यं विबुधा व्यालुलोकिरे

4.4.3

वाक्पतिरुवाच ॥
शृण्वगस्ते महाभाग देवागमनकारणम् ॥
धन्योसि कृतकृत्योसि मान्योसि महता मपि

4.4.4

प्रत्याश्रमं प्रतिनगं प्रत्यरण्यं तपोधनाः ॥
किं न संति मुनिश्रेष्ठ काचिदन्यैव ते स्थितिः

4.4.5

तपोलक्ष्मीस्त्वयीहास्ति ब्राह्मतेजस्त्वयि स्थिरम्॥
पुण्यलक्ष्मीस्त्वयि परा त्वय्यौदार्यं मनस्त्वयि

4.4.6

पतिव्रतेयं कल्याणी लोपामुद्रा सधर्मिणी॥
तवांगच्छायया तुल्या यत्कथापुण्यकारिणी

4.4.7

पतिव्रतास्वरुंधत्या सावित्र्याप्यनसूयया ॥
शांडिल्यया च सत्या च लक्ष्म्या च शतरूपया

4.4.8

मेनया च सुनीत्या च संज्ञया स्वाहया तथा ॥
यथैषा वर्ण्यते श्रेष्ठा न तथान्येति निश्चितम

4.4.9

भुंक्ते भुक्ते त्वयि मुने तिष्ठति त्वयि तिष्ठति ॥
विनिद्रिते च निद्राति प्रथमं प्रतिबुध्यते

4.4.4.1.4.10

अनलंकृतमात्मानं तव नो दर्शयेत्क्वचित्॥
कार्यार्थं प्रोषिते क्वापि सर्वमंडनवर्जिता

4.4.11

न च ते नाम गृह्णीयात्तवायुष्यविवृद्धये ॥
पुरुषांतरनामापि न गृह्णाति कदाचन

4.4.12

आक्रुष्टापि न चाक्रोशेत्ताडितापि प्रसीदति ॥
इदं कुरु कृतं स्वामिन्मन्यतामिति वक्ति च

4.4.13

आहूता गृहकार्याणि त्यक्त्वा गच्छति सत्वरम् ॥
किमर्थं व्याहृता नाथ सप्रसादो विधीयताम्

4.4.14

न चिरं तिष्ठति द्वारि न द्वारमुपसेवते ॥
अदापितं त्वया किंचित्कस्मैचिन्न ददात्यपि

4.4.15

पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् ॥
नियमोदकबर्हींषि पत्रपुप्पाक्षतादिकम्

4.4.16

प्रतीक्षमाणावसरं यथाकालोचितं हि यत् ॥
तदुपस्थापयेत्सर्वमनुद्विग्नातिहृष्टवत्

4.4.17

सेवते भर्त्तुरुच्छिष्टमिष्टमन्नं फलादिकम् ॥
महाप्रसाद इत्युक्त्वा परिदत्तं प्रतीच्छति

4.4.18

अविभज्य न चाश्नीयाद्देवपित्रतिथिष्वपि ॥
परिचारकवर्गेषु गोषु भिक्षुकुलेषु च

4.4.19

संयतोपस्करादक्षा हृष्टा व्यय पराङ्मुखी ॥
कुर्यात्त्वयाननुज्ञाता नोपवासव्रतादिकम्

4.4.4.1.4.20

दूरतो वर्जयेदेषा समाजोत्सवदर्शनम् ॥
न गच्छेत्तीर्थयात्रादि विवाहप्रेक्षणादिषु

4.4.21

सुखसुप्तं सुखासीनं रममाणं यदृच्छया ॥
आंतरेष्वपि कार्येषु पतिं नोत्थापयेत्क्वचित्

4.4.22

स्त्रीधर्मिणी त्रिरात्रं तु स्वमुखं नैव दर्श येत् ॥
स्ववाक्यं श्रावयेन्नापि यावत्स्नाता न शुद्धितः

4.4.23

सुस्नाता भर्तृवदनमीहतेन्यस्य न क्वचित् ॥
अथवा मनसि ध्यात्वा पतिं भानुं विलोकयेत्

4.4.24

हरिद्रां कुंकुमं चैव सिंदूर कज्जलं तथा ॥
कूर्पासकं च तांबूलं मांगल्याभरणं शुभम्

4.4.25

केशसंस्कारकबरी करकर्णादिभूषणम् ॥
भर्त्तुरायुष्यमिच्छंती दूरये न्न पतिव्रता

4.4.26

न रजक्या न हैतुक्या तथा श्रमणया न च ॥
न च दुर्भगया क्वापि सखित्वं कुरुते सती

4.4.27

भर्तृविद्वेषिणीं नारीं नैषा संभाषते क्वचित् ॥
नैकाकिनी क्वचिद्भूयान्न नग्ना स्नाति च क्वचित्

4.4.28

नोलूखले न मुसले न वर्द्धन्यां दृषद्यपि ॥
न यंत्रकेन देहल्यां सती चोपविशेत्क्वचित्

4.4.29

विना व्यवायसमयं प्रागल्भ्यं न क्वचिच्चरेत् ॥
यत्रयत्ररुचिर्भर्त्तुस्तत्र प्रेमवती सदा

4.4.4.1.4.30

इदमेव व्रतं स्त्रीणामयमेवपरो वृषः ॥
इयमेको देवपूजा भर्त्तुर्वाक्यं न लंघयेत

4.4.31

क्लीबं वा दुरवस्थंवा व्याधितं वृद्धमेव वा ॥
सुस्थितं दुःस्थितं वापि पतिमेकं न लंघयेत

4.4.32

हृष्टाहृष्टेविषण्णास्या विषण्णास्ये प्रिये सदा ॥
एकरूपा भवेत्पुण्या संपत्सु च विपत्सु च

4.4.33

सर्पिर्लवणतैलादि क्षयेपि च पतिव्रता ॥
पतिं नास्तीति न ब्रूयादायासेषु न योजयेत्

4.4.34

तीर्थस्नानार्थिनी नारी पतिपादोदकं पिबेत् ॥
शंकरादपि विष्णोर्वा पतिरेकोधिकः स्त्रियाः

4.4.35

व्रतोपवासनियमं पतिमुल्लंघ्य या चरेत् ॥
आयुष्यं हरते भर्त्तुर्मृता निरयमृच्छति

4.4.36

उक्ता प्रत्युत्तरं दद्याद्या नारी क्रोधतत्परा ॥
सरमा जायते ग्रामे सृगाली निर्जने वने

4.4.37

स्त्रीणां हि परमश्चैको नियमः समुदाहृतः ॥ऽ
अभ्यर्च्य चरणौ भर्त्तुर्भोक्तव्यं कृतनिश्चयम्

4.4.38

उच्चासनं न सेवेत न व्रजेत्परवेश्मसु ॥
न त्रपाकर वाक्यानि वक्तव्यानि कदाचन

4.4.39

अपवादो न वक्तव्यः कलहं दूरतस्त्यजेत् ॥
गुरूणां सन्निधौ क्वापि नोच्चैर्ब्रूयान्न वा हसेत्

4.4.4.1.4.40

या भर्तारं परित्यज्य रहश्चरति दुर्मतिः ॥
उलूकी जायते क्रूरा वृक्षकोटरशायिनी

4.4.41

ताडिता ताडितुं चेच्छेत्सा व्याघ्री वृषदंशिका ॥
कटाक्षयतियाऽन्यं वै केकराक्षी तु सा भवेत

4.4.42

या भर्तारं परित्यज्य मिष्टमऽश्नाति केवलम् ॥
ग्रामे वासकरी भूयाद्वल्गुर्वापि श्वविट्भुजा

4.4.43

या त्वं(हुं) कृत्याऽप्रियं ब्रूते मूका सा जायते खलु ॥
या सपत्नीं सदेर्ष्येत दुर्भगा सा पुनःपुन्ः

4.4.44

दृष्टिं विलुप्य भर्तुर्या कंचिदन्यं समीक्षते ॥
काणा च विमुखी चापि कुरूपा चापि जायते

4.4.45

बाह्यादायांतमालोक्य त्वरिता च जलाशनैः ॥
तांबूलैर्व्यजनैश्चैव पादसंवाहनादिभिः

4.4.46

तथैव चाटुवचनैः खेदसंनोदनैः परैः ॥
या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणिता तया

4.4.47

मितं ददाति हि पिता मितं भ्राता मितं सुतः ॥
अमितस्य हि दातारं भर्त्तारं पूजये त्सदा

4.4.48

भर्ता देवो गुरुर्भर्ता धर्म तीर्थ व्रतानि च ॥
तस्मात्सर्वं परित्यज्य पतिमेकं समर्चयेत

4.4.49

जीवहीनो यथा देहः क्षणादशुचितां व्रजेत् ॥
भर्तृहीना तथा योषित्सुस्नाताप्यशुचिः सदा

4.4.4.1.4.50

अमंगलेभ्यः सर्वेभ्यो विधवा त्यक्तमंगला ॥
विधवा दर्शनात्सिद्धिः क्वापि जातु न जायते

4.4.51

विहाय मातरं चैकां सर्वमंगलवर्जिताम ॥
तदाशिषमपि प्राज्ञस्त्यजेदाशीविषोपमाम

4.4.52

कन्याविवाहसमये वाचयेयुरिति द्विजाः ॥
भर्तुः सहचरी भूयाज्जीवतोऽजीवतोपिवा

4.4.53

भर्ता सदानुयातव्यो देहवच्छायया स्त्रिया ॥
चंद्रमा ज्योत्स्नया यद्वद्विद्युत्वान्विद्युता यथा

4.4.54

अनुव्रजति भर्तारं गृहात्पितृवनं मुदा ॥
पदेपदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम

4.4.55

व्यालग्राही यथा व्यालं बलादुद्धरते बिलात ॥
एवमुत्क्रम्य दूतेभ्यः पतिं स्वर्गं नयेत्सती

4.4.57

यमदूताः पलायंते सतीमालोक्य दूरतः ॥
अपि दुष्कृतकर्माणं समुत्सृज्य च तत्पतिम् । । ५६ ॥
न तथा बिभीमो वह्नेर्नतथा विद्युतो यथा ॥
आपतंतीं समालोक्य वयं दूताः पतिव्रताम्

4.4.4.1.4.60

तपनस्तप्यतेत्यंतं दहनोपि च दह्यते ॥
कंपंते सर्व तेजांसि दृष्ट्वा पातिव्रतं महः ॥ ५८ । ।
यावत्स्वलोमसंख्यास्ति तावत्कोट्ययुतानि च ॥
भर्त्रा स्वर्गसुखं भुंक्ते रममाणा पतिव्रता ॥ ५९ । ।
धन्या सा जननी लोके धन्योसौ जनकः पुनः ॥
धन्यः स च पतिः श्रीमान्येषां गेहे पतिव्रता

4.4.61

पितृवंश्यामातृवंश्याःपतिवंश्यास्त्रयस्त्रयः ॥
पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुंजते

4.4.62

शीलभंगेन दुर्वृत्ताः पातयंति कुलत्रयम् ॥
पितुर्मातुस्तथापत्युरिहामुत्र च दुःखिताः

4.4.63

पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भुवम् ॥
तत्रेति भूमिर्मन्येत नात्र भारोस्तिपावनी

4.4.64

बिभ्यत्पतिव्रतास्पर्शं कुरुते भानुमानपि ॥
सोमो गंधवहश्चापि स्वपावित्र्याय नान्यथा

4.4.65

आपः पतिव्रता स्पर्शमभिलष्यंति सर्वदा ॥
अद्य जाड्यविनाशो नो जातास्त्वद्याऽन्यपावनाः

4.4.66

गृहेगृहे न किं नार्यो रूपलावण्यगर्विताः ॥
परं विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता

4.4.67

भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च ॥
भार्या धर्मफला भार्या सं तानवृद्धये

4.4.68

परलोकस्त्वयं लोको जीयते भार्यया द्वयम् ॥
देवपित्रतिथीज्यादि नाभार्यः कर्म चार्हति

4.4.69

गृहस्थः स हि विज्ञेयो यस्य गेहे पतिव्रता ॥
ग्रसतेऽन्या प्रतिपदं राक्षस्या जरयाथवा

4.4.4.1.4.70

यथा गंगाऽवगाहेन शरीरं पावनं भवेत् ॥
तथा पतिव्रता दृष्ट्या शुभया पावनं भवेत्

4.4.71

अनुयाति न भर्तारं यदि दैवात्कथंचन ॥
तत्रापि शीलं संरक्ष्यं शीलभंगात्पतत्यधः

4.4.72

तद्वैगुण्यादपिस्वर्गात्पतिः पतति नान्यथा ॥
तस्याः पिता च माता च भ्रातृवर्गस्तथैव च

4.4.73

पत्यौ मृते च यायोषिद्वैधव्यं पालयेत्क्वचित् ॥
सा पुनः प्राप्य भर्तारं स्वर्गभोगान्समश्नुते

4.4.74

।
विधवा कबरीबंधो भर्तृबंधाय जायते ॥
शिरसो वपनं तस्मात्कार्यं विधवया सदा

4.4.75

एकाहारः सदा कार्यो न द्वितीयं कदाचन ॥
त्रिरात्रं पंचरात्रं वा पक्षव्रतमथापि वा

4.4.76

मासोपवासं वा कुर्याच्चांद्रायणमथापि वा ॥
कृच्छ्रं वराकं वा कुर्यात्तप्तकृच्छ्रमथापि वा

4.4.77

यवान्नैर्वा फलाहारैः शाकाहारैः पयोव्रतैः ॥
प्राणयात्रां प्रकुर्वीत यावत्प्राणः स्वयं व्रजेत्

4.4.78

पर्यंकशायिनी नारी वि धवा पातयेत्पतिम् ॥
तस्माद्भूशयनं कार्यं पतिसौख्यसमीहया

4.4.79

न चांगोद्वर्तनं कार्यं स्त्रिया विधवया क्वचित् ॥
गंधद्रव्यस्य संयोगो नैव कार्यस्तया पुनः

4.4.4.1.4.80

तर्पणं प्रत्यहं कार्यं भर्तुः कुशतिलोदकैः ॥
तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम

4.4.81

विष्णोस्तु पूजनं कार्यं पति बुद्ध्या न चान्यथा ॥
पतिमेव सदा ध्यायेद्विष्णुरूपधरं हरिम्

4.4.82

यद्यदिष्टतमं लोके यच्च पत्युः समीहितम् ॥
तत्तद्गुणवते देयं पतिप्रीणनकाम्यया

4.4.83

वैशाखे कार्तिके माघे विशेषनियमांश्चरेत् ॥
स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः

4.4.84

वैशाखे जलकुंभांश्च कार्तिके घृतदीपकाः ॥
माघे धान्य तिलोत्सर्गः स्वर्गलोके विशिष्यते

4.4.85

प्रपा कार्या च वैशाखे देवे देया गलंतिका ॥
उपानद्व्यजनं छत्रं सूक्ष्मवासांसि चन्दनम्

4.4.86

सकर्पूरं च तांबूलं पुष्पदानं तथैव च ॥
जलपात्राण्यनेकानि तथा पुष्प गृहाणि च

4.4.87

पानानि च विचित्राणि द्राक्षा रंभा फलानि च ॥
देयानि द्विजमुख्येभ्यः पतिर्मे प्रीयतामिति

4.4.88

ऊर्जे यवान्नमश्नीयादेकान्नमथवा पुनः ॥
वृंताकं सूरणं चैव शूकशिंबिं च वर्जयेत्

4.4.89

कार्तिके वर्जयेत्तैलं कार्तिके वर्जये न्मधु ॥
कार्तिके वर्जयेत्कांस्यं कार्तिके चापिसंधितम्

4.4.4.1.4.90

कार्तिके मौननियमे घंटां चारु प्रदापयेत ॥
पत्रभोजी कांस्यपात्रं घृतपूर्णं प्रयच्छति

4.4.91

भूमिशय्याव्रते देया शय्या श्लक्ष्णा सतूलिका ॥
फलत्यागे फलं देयं रसत्यागे च तद्रसम्

4.4.92

धान्यत्यागे च तद्धान्यमथवा शालयः स्मृताः ॥
धेनूर्दद्यात्प्रयत्नेन सालंकाराः सकांचनाः

4.4.93

एकतः सर्वदानानि दीपदानं तथैकतः ॥
कार्तिके दीपदानस्य कलां नार्हंति षोडशीम्

4.4.94

किंचिदभ्युदिते सूर्ये माघस्नानं समाचरेत् ॥
यथाशक्त्या च नियमान्माघस्नायी समाचरेत्

4.4.95

पक्वान्नैर्भो जयेद्विप्रान्यतिनोपि तपस्विनः ॥
लड्डुकैः फेणिकाभिश्च वटकेंडरिकादिभिः

4.4.96

घृतपक्वैः समीरचैः शुचिकर्पूरवासितैः ॥
गर्भे शर्करया पूर्णैर्नेत्रानं दैः सुगंधिभिः

4.4.97

शुष्केंधनानां भारांश्च दद्याच्छीतापनुत्तये ॥
कंचुकं तूलगर्भं च तूलिकां सूपवीतिकाम्

4.4.98

मंजिष्ठा रक्तवासांसि तथा तूलवतीं पटीम् ॥
जातीफल लवंगैश्च तांबूलानि बहून्यपि

4.4.99

कंबलानि विचित्राणि निर्वातानि गृहाणि च ॥
मृदुलाः पादरक्षाश्च सुगंध्युद्वर्त्तनानि च

4.4.4.1.4.100

घृतकंबलपूजाभिर्महास्नानपुरःसरम् ॥
कृष्णागुरुप्रभृतिभिर्गर्भागारे प्रधूपनैः

4.4.1

स्थूलवर्तिप्रदीपैश्च नैवेद्यैर्विविधैस्तथा ॥
भर्तृस्वरूपो भगवान्प्रीयतामिति चोच्चरेत्

4.4.2

एवंविधैश्च विधवा विविधैर्नियमैर्व्रतैः ॥
वैशाखान्कार्तिकान्माघानेवमेवातिवाहयेत्

4.4.3

नाधिरोहेदनड्वाहं प्राणैः कंठगतैरपि ॥
कंचुकं न परीदध्याद्वासो न विकृतं न्यसेत्

4.4.4

अपृष्ट्वा तु सुतान्किंचिन्न कुर्याद्भर्तृतत्परा ॥
एवं चर्यापरा नित्यं विधवापि शुभा मता

4.4.5

एवं धर्मसमायुक्ता विधवापि पतिव्रता ॥
पतिलोकानवाप्नोति नभवेत्क्वापि दुःखभाक्

4.4.6

न गंगया तया भेदो या नारी पतिदेवता ॥
उमाशिवसमा साक्षात्त स्मात्तां पूजयेद्बुधः

4.4.7

बृहस्पतिरुवाच ॥
गंगास्नानफलं त्वेतद्यज्जातं तव दर्शनम् ॥
लोपामुद्रे महामातर्भर्तृपादांबुजेक्षणे

4.4.9

इति स्तुत्वा महाभागां राजपुत्रीं पतिव्रताम् ॥
प्रणम्य च गुरुः प्राह मुनिं सर्वार्थकोविदः ॥ ८. ॥
प्रणवस्त्वं श्रुतिरियं क्षमैषा त्वं स्वयं तपः ॥
सत्क्रियेयं फलं त्वं हि धन्योसीति महामुने

4.4.4.1.4.110

इदं पातिव्रतं तेजो ब्रह्मतेजो भवान्परम् ॥
तत्राप्येतत्तपस्तेजः किमसाध्यतमं तव

4.4.11

तव नाविदितं किंचित्तथापि च वदाम्यहम् ॥
यदर्थमागता देवास्तन्मुनेत्र निशामय

4.4.12

अयं शतमखः श्रीमान्वृत्रहा कुलिशायुधः ॥
सिद्ध्यष्टकं हि यद्द्वारि दृक्प्रसादं समीक्षते

4.4.13

यस्यपुर्याः परिसरे कामधेनु व्रजश्चरेत् ॥
यत्पौराः कल्पवृक्षाणां नित्यं छायासु शेरते

4.4.14

यद्रथ्यासु च तिष्ठंति ते चिंतामणिकर्कराः ॥
अयमग्निर्जगद्योनिर्धर्मराजस्त्वयं पुनः

4.4.15

निरृतिर्वरुणोवायुःश्रीदरुद्रादयस्त्वमी ॥
आराध्यंते च चारित्रैः सर्वकामार्थ मीश्वराः

4.4.17

ममभ्यर्थयितारोमी त्वं याच्यस्तु जगत्कृते ॥
वाङ्मात्रोद्यमसाध्यं तत्तवविश्वोपकारकम् । १६ ।
कश्चिच्छैलो विंध्यनामा भानुमार्गावरोधकः ॥
वर्धितः स्पर्धया मेरोस्तद्वृद्धिं त्वं निवारय

4.4.18

ये च स्वभावकठिना ये च मार्गावरोधकाः ॥
ये स्पर्द्धया वृद्धिमंतस्तद्वृद्धिर्वर्धिताऽशुभा

4.4.19

इति श्रुत्वा गुरोर्वाक्यमविचार्य महामुनिः ॥
क्षणं मुनिःसमाधाय तथेति प्रत्युवाच ह

4.4.4.1.4.120

साधयिष्यामि वः कार्यं विसर्ज्येति दिवौकसः ॥
पुनश्चिंतापरो भूत्वाऽगस्तिर्ध्यानपरोभवत्

4.4.121

वेदव्यास उवाच ॥ ॥
इमं पतिव्रताध्यायं श्रुत्वा स्त्रीपुरुषोपिवा ॥
पापकंचुकमुत्सृज्य शक्रलोकं प्रयास्यति

4.4.4

इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थै काशीखंडे पूर्वार्द्धे पतिव्रताख्यानंनाम चतुर्थोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc