भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 4.10

4.10.1

॥ शिवशर्मोवाच ॥ ॥
रमयंती मनोतीव केयं कस्येयमीशितुः ॥
नयनानंदसंदोहदायिनीपूरनुत्तमा

4.10.2

गणावूचतुः ॥ ॥
शिवशर्मन्महाभागसुतीर्थफलितद्रुम ॥
लोकोऽत्र रमते विप्र सहसाक्षपुरी त्वियम्

4.10.3

तपोबलेन महता विहिता विश्वकमर्णा ॥
दिवापि कौमुदी यस्याः सौधश्रेणीश्रियं श्रयेत्

4.10.4

यदाकलानिधिः क्वापि दर्शे ऽदृश्यत्वमावहेत् ॥
तदा स्वप्रेयसीं ज्योत्स्नां सौधेष्वेषु निगूहयेत्

4.10.5

यदच्छभित्तौ वीक्ष्य स्वमन्ययोपिद्विशंकिता ॥
मुग्धानाशुविशेच्चित्रमपिस्वांचित्रशालिकाम्

4.10.6

हर्म्येषु नीलमणिभिर्निर्मितेष्वत्रनिर्भयम् ॥
स्वनीलिमानमाधाय तमोहःस्वपि तिष्ठति

4.10.7

चंद्रकांतशिलाजालस्रुतमात्रामलंजलम् ॥
तत्र चादाय कलशैर्नेच्छंत्यन्यज्जलं जनाः

4.10.8

कुविंदा न च संत्यत्र न च ते पश्यतो हराः ॥
चैलान्यलंकृतीरत्र यतः कल्पद्रुमोर्पयेत्

4.10.9

गणका नात्र विद्यंते चिंताविद्याविशारदाः ॥
यतश्चिकेति सर्वेषां चिंता चिंतामणिर्द्रुतम्

4.10.4.1.10.10

सूपकारा न संत्यत्र रसकर्म विचक्षणाः॥
दुग्धे सर्वरसानेका कामधेनुरतोयतः

4.10.11

कीर्तिरुच्चैःश्रवा यस्य सर्वतो वाजिराजिषु ॥
रत्नमुच्चैःश्रवाः सोत्र हयानां पौरुषाधिकः

4.10.12

ऐरावतो दंतिवरश्चतुर्दंतोत्र राजते ॥
द्वितीय इव कैलासो जंगमस्फटिकोज्ज्वलः

4.10.13

तरुरत्नंपारिजातः स्त्रीरत्नं सोर्वशी त्विह ॥
नंदनं वनरत्नं च रत्नं मंदाकिनी ह्यपाम्

4.10.14

त्रयस्त्रिंशत्सुराणां या कोटिः श्रुति समीरिता ॥
प्रतीक्षते साऽवसरं सेवायै प्रत्यहंत्विह

4.10.15

स्वर्गेष्विंद्रपदादन्यन्न विशिष्येत किंचन ॥
यद्यत्त्रिलोक्यामैश्वर्यं न तत्तुल्यमनेन हि

4.10.16

अश्वमेधसहस्रस्य लभ्यं विनिमयेन यत् ॥
किं तेन तुल्यमन्यत्स्यात्पवित्रमथवा महत

4.10.17

अर्चिष्मती संयमिनी पुण्यवत्यमलावती ॥
गंधवत्यलकेशी च नैतत्तुल्या महर्धिभिः

4.10.18

अयमेव सहस्राक्षस्त्वयमेव दिवस्पतिः ॥
शतमन्युरयं देवो नामान्येतानि नामतः

4.10.19

सप्तापि लोकपाला ये त एनं समुपासते ॥
नारदाद्यैर्मुनिवरैरयमाशीर्भिरीड्यते

4.10.4.1.10.20

एतत्स्थैर्येण सर्वेषां लोकानां स्थैर्यमिष्यते ॥
पराजयान्महेंद्रस्य त्रैलोक्यं स्यात्पराजितम्

4.10.21

दनुजा मनुजा दैत्यास्तपस्यंत्युग्रसंयमाः ॥
गंधर्व यक्षरक्षांसि महेंद्रपदलिप्सवः

4.10.22

सगराद्या महीपाला वाजिमेधविधायकाः ॥
कृतवंतो महायत्नं शक्रैश्वर्यजिघृक्षवः

4.10.23

निष्प्रत्यूहं क्रतुशतं यः कश्चित्कुरुतेऽवनौ ॥
जितेंद्रियोमरावत्यां स प्राप्नोति पुलोमजाम्

4.10.24

असमाप्तक्रतुशता वसंत्यत्र महीभुजः ॥
ज्योतिष्टोमादिभिर्यागैर्ये यजंत्यपि ते द्विजाः

4.10.25

तुलापुरुषदानादि महादानानि षोडश ॥
ये यच्छंत्यमलात्मानस्ते लभंतेऽमरावतीम्

4.10.26

अक्लीबवादिनो धीराः संग्रामेष्वपराङ्मुखाः ॥
विक्रांता वीरशयने तेऽत्र तिष्ठंति भूभुजः

4.10.27

इत्युद्देशात्समाख्याता महेंद्रनगरी स्थितिः ॥
यायजूका वसंत्यत्र यज्ञविद्याविशारदाः

4.10.28

इमामर्चिष्मतीं पश्य वीतिहोत्रपुरीं शुभाम् ॥
जातवेदसि ये भक्तास्ते वसंत्यत्र सुव्रताः

4.10.29

अग्निप्रवेशं ये कुर्युर्दृढसत्त्वा जितेंद्रियाः ॥
स्त्रियो वा सत्त्वसंपन्नास्ते सर्वे अग्नितेजसः

4.10.4.1.10.30

अग्निहोत्ररता विप्रास्तथाग्निब्रह्मचारिणः ॥
पंचाग्निव्रतिनो ये वै तेऽग्निलोकेग्नितेजसः

4.10.31

शीते शीतापनुत्यै यस्त्विध्मभारान्प्रयच्छति ॥
कुर्यादग्निष्टिकां वाऽथ स वसेदग्निसन्निधौ

4.10.32

अनाथस्याग्निसंस्कारं यः कुर्याच्छ्रद्धयान्वितः ॥
अशक्तः प्रेरयेदन्यं सोग्निलोके महीयते

4.10.33

जठराग्निविवृद्ध्यै यो दद्यादाग्नेयमौषधम् ॥
मंदाग्नये स पुण्यात्मा वह्निलोके वसेच्चिरम्

4.10.34

यज्ञोपस्कर वस्तूनि यज्ञार्थं द्रविणं तु वा ॥
यथाशक्ति प्रदद्याद्यो ह्यर्चिष्मत्यांवसेत्स वै

4.10.35

अग्निरेको द्विजातीनां निःश्रेयसकरः परः ॥
गुरुर्देवो व्रतं तीर्थं सर्वमग्निर्विनिश्चितम्

4.10.36

अपावनानि सर्वाणि वह्निसंसर्गतः क्षणात् ॥
पावनानि भवंत्येव तस्माद्यः पावकः स्मृतः

4.10.37

अपि वेदं विदित्वा यस्त्यक्त्वा वै जातवेदसम् ॥
अन्यत्र बध्नाति रतिं ब्राह्मणो न स वेदवित्

4.10.38

अंतरात्मा ह्ययं साक्षान्निश्चितो ह्याशुशुक्षणिः ॥
मांसग्रासान्पचेत्कुक्षौ स्त्रीणां नो मांसपेशिकाम्

4.10.39

तैजसी शांभवी मूर्तिः प्रत्यक्षा दहनात्मिका ॥
कर्त्री हंत्री पालयित्री विनैनां किं विलोक्यते

4.10.4.1.10.40

चित्रभानुरयं साक्षान्नेत्रं त्रिभुवनेशितुः ॥
अंधं तमोमये लोके विनैनं कः प्रकाशकः

4.10.41

धूपप्रदीपनैवेद्य पयो दधि घृतैक्षवम् ॥
एतद्भुक्तं निषेवंते सर्वे दिवि दिवौकसः

4.10.42

शिवशर्मोवाच ॥ ॥
कोयं कृशानुः कस्यायं सूनुः कथमिदं पदम् ॥
आग्नेयं लब्धमेतेन ब्रूतमेतन्ममाग्रतः

4.10.43

॥ गणावूचतुः ॥ ॥
आकर्णय महाप्राज्ञ वर्णयावो यथातथम् ॥
योयं यस्य यथाऽनेन प्रापि ज्योतिष्मतीपुरी

4.10.44

नर्मदायास्तटे रम्ये पुरे नर्मपुरे पुरा ॥
पुरारिभक्तः पुण्यात्माऽभवद्विश्वानरो मुनिः

4.10.45

ब्रह्मचर्याश्रमे निष्ठो ब्रह्मयज्ञरतःसदा ॥
शांडिल्यगोत्रः शुचिमान्ब्रह्मतेजो निधिर्वशी

4.10.46

विज्ञाताखिलशास्त्रार्थो लौकिकाचारचंचुरः ॥
कदाचिच्चिंतयामास हृदि ध्यात्वा महेश्वरम्

4.10.47

चतुर्णामप्याश्रमाणां कोतीव श्रेयसे सताम् ॥
यस्मिन्प्राप्नोति संक्षुण्णे परत्रेह च वा सुखम्

4.10.48

इदं श्रेयस्त्विदं श्रेयस्त्विदं तु सुकरं भवेत् ॥
इत्थं सर्वं समालोड्य गार्हस्थ्यं प्रशशंस ह

4.10.49

ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः ॥
एषामाधारभूतोसौ गृहस्थो नान्यथेति च

4.10.4.1.10.50

देवैर्मनुष्यैः पितृभिस्तिर्यग्भिश्चोपजीव्यते ॥
गृहस्थः प्रत्यहं यस्मात्तस्माच्छ्रेष्ठो गृहाश्रमी

4.10.51

अस्नात्वा चाप्यहुत्वा वाऽदत्त्वा वाश्नाति यो गृही ॥
देवादीनामृणी भूत्वा नरकं प्रतिपद्यते

4.10.52

अस्नाताशी मलं भुंक्ते त्वजपी पूयशोणितम् ॥
अहुताशी कृमीन्भुंक्तेप्यदत्त्वाविड्विभोजनः

4.10.53

ब्रह्मचर्यं हि गार्हस्थ्ये यादृक्कल्पनयोज्झितम् ॥
स्वभावचपले चित्ते क्व तादृग्ब्रह्मचारिणि

4.10.54

हठाद्वा लोकभीत्या वा स्वार्थाद्वा ब्रह्मचर्यभाक् ॥
संकल्पयति चित्ते चेत्कृतमप्यकृतं तदा

4.10.55

परदारपरित्यागात्स्वदारपरितुष्टितः ॥
ऋतुकालाभिगामित्वाद्ब्रह्मचारी गृहीरितः

4.10.56

विमुक्तरागद्वेषो यः कामक्रोधविवर्जितः ॥
साग्निः सदारः स गृही वानप्रस्थाद्विशिष्यते

4.10.57

वैराग्याद्गृहमुत्सृज्य गृहधर्मान्हृदि स्मरेत् ॥
स भवेदुभयभ्रष्टो वानप्रस्थो न वा गृही

4.10.58

अयाचितोपस्थितया यो वृत्त्या वर्तते गृही ॥
येन केनापि संतुष्टो भिक्षुकात्स विशिष्यते

4.10.59

प्राथयेद्यत्क्वचित्किंचिद्दुष्प्रापं वा भविष्यति ॥
अशनेषु न संतुष्टः स यतिः पतितो भवेत्

4.10.4.1.10.60

गुणागुणविचार्येत्थं स वै विश्वानरो द्विजः ॥
उद्ववाह विधानेन स्वोचितां कुलकन्यकाम्

4.10.61

अग्निशुश्रूषणरतः पंचयज्ञपरायणः ॥
षट्कर्मनिरतो नित्यं देवपित्रतिथिप्रियः

4.10.62

धर्मार्थकामान्युक्तात्मा सोर्जयन्स्वस्वकालतः ॥
परस्परमसंकोचं दंपत्योरानुकूल्यतः

4.10.63

पूर्वाह्णे दैविकं कर्म सोकरोत्कर्मकांडवित् ॥
मध्यंदिने मनुष्याणां पितॄणामपराह्नके

4.10.64

एवं बहुतिथे काले गते तस्याग्रजन्मनः ॥
भार्या शुचिष्मती नाम कामपत्नी वसुव्रता

4.10.65

अपश्यंत्यंकुरमपि संततेः स्वर्गसाधनम् ॥
विज्ञाय शंकंरं कांतं प्रणिपत्य व्यजिज्ञपत्

4.10.66

शुचिष्मत्युवाच॥
आर्यपुत्रार्यधिषण प्राणनाथ प्रियव्रत ॥
न दुर्लभं ममास्तीह किंचित्त्वच्चरणार्चनात्

4.10.67

ये वै भोगाः समुचिताः स्त्रीणां ते त्वत्प्रसादतः ॥
अलंकृत्य मया भुक्ताः प्रसंगाद्वच्मि तान्यपि

4.10.68

सुवासांसि सुवासाश्च सुशय्या सुनितंबिनी॥
स्रक्तांबूलान्नपानाश्च अष्टौ भोगाः स्वधर्मिणाम्

4.10.69

एकं मे प्रार्थितं नाथ चिराय हृदिसंस्थितम् ॥
गृहस्थानां समुचितं तत्त्वं दातुमिहार्हसि

4.10.4.1.10.70

विश्वानर उवाच ॥
किमदेयं हि सुश्रोणि तव प्रियहितैषिणि ॥
तत्प्रार्थय महाभागे प्रयच्छाम्यविलंबितम्

4.10.71

महेशितुः प्रसादेन मम किंचिन्न दुर्ल्भम् ॥
इहामुत्र च कल्याणि सर्वकल्याणकारिणः

4.10.72

इति श्रुत्वा वचः पत्युस्तस्य सा पतिदेवता ॥
उवाच हृष्टवदना यदि देयो वरो मम

4.10.73

वरयोग्यास्मि चेन्नाथ नान्यं वरमहं वृणे ॥
महेशसदृशं पुत्रं देहि माहेश्वरानव

4.10.74

इति तस्या वचः श्रुत्वा शुचिष्मत्याः शुचिव्रतः ॥
क्षणं समाधिमाधाय हृ(?)द्येतत्समचिंतयत्

4.10.75

अहो किमेतया तन्व्या प्रार्थितं ह्यतिदुर्लभम् ॥
मनोरथपथाद्दूरमस्तुवा स हि सर्वकृत्

4.10.76

तेनैवास्या मुखे स्थित्वा वाक्स्वरूपेण शंभुना ॥
व्याहृतं कोऽन्यथाकर्तुमुत्सहेत भवेदिदम्

4.10.77

ततः प्रोवाच तां पत्नीमेकपत्निव्रते स्थितः ॥
विश्वानरमुनिः श्रीमानिति कांते भविष्यति

4.10.78

इत्थमाश्वास्य तां पत्नीं जगाम तपसे मुनिः ॥
यत्र विश्वेश्वरः साक्षात्काशीनाथोधितिष्ठति

4.10.79

प्राप्य वाराणसीं तूर्णं दृष्ट्वाथ मणिकर्णिकाम् ॥
तत्याज तापत्रितयमपिजन्मशतार्जितम्

4.10.4.1.10.80

दृष्ट्वा सर्वाणि लिंगानि विश्वेश प्रमुखानि च ॥
स्नात्वा सर्वेषु कुंडेषु वापीकूटसरःसु च

4.10.81

नत्वा विनायकान्सर्वान्गौरीः सर्वाः प्रणम्य च ॥
संपूज्य कालराजं च भैरवं पापभक्षणम्

4.10.82

दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः ॥
आदिकेशवमुख्यांश्च केशवान्परितोष्य च

4.10.83

लोलार्कमुख्य सूर्यांश्च प्रणम्य च पुनः पुनः ॥
कृत्वा पिण्डप्रदानानि सर्वतीर्थेष्वतंद्रितः

4.10.84

सहस्रभोजनाद्यैश्च यतीन्विप्रान्प्रतर्प्य च ॥
महापूजोपचारैश्च लिंगान्यभ्यर्च्य भक्तितः

4.10.85

असकृच्चिन्तयामास किं लिंगं क्षिप्रसिद्धिदम् ॥
यत्र निश्चलतामेति तपस्तनयकाम्यया

4.10.86

श्रीमदोंकारनाथं वा कृत्तिवासेश्वरं किमु ॥
कालेशं वृद्धकालेशं कलशेश्वरमेव च

4.10.87

केदारेशं तु कामेशं चन्द्रेशं वा त्रिलोचनम् ॥
ज्येष्ठेशं जंबुकेशं वा जैगीषव्येश्वरं तु वा

4.10.88

दशाश्वमेधमीशानं द्रुमि चंडेशमेव च ॥
दृक्केशं गरुडेशं च गोकर्णेशं गणेश्वरम्

4.10.89

ढुंढ्याशागजसिद्धाख्यं धर्मेशं तारकेश्वरम् ॥
नन्दिकेशं निवासेशं पत्रीशं प्रीतिकेश्वरम्

4.10.4.1.10.90

पर्वतेशं पशुपतिं ब्रह्मेशं मध्यमेश्वरम् ॥
बृहस्पतीश्वरं वाथ विभांडेश्वरमेव च

4.10.91

भारभूतेश्वरं किं वा महालक्ष्मीश्वरं तु वा ॥
मरुत्तेशं तु मोक्षेशं गंगेशं नर्मदेश्वरम्

4.10.92

मार्कंडं मणिकर्णीश रत्नेश्वरमथापि वा ॥
अथवा योगिनीपीठं साधकस्यैव सिद्धिदम्

4.10.93

यामुनेशं लांगलीशं श्रीमद्विश्वेश्वरं विभुम् ॥
अविमुक्तेश्वरं वाथ विशालाक्षीशमेव च

4.10.94

व्याघ्रेश्वरं वराहेशं व्यासेशं वृषभध्वजम् ॥
वरुणेशं विधीशं वा वसिष्ठेशं शनीश्वरम्

4.10.95

सोमेश्वरं किमिन्द्रेशं स्वर्लीनं संगमेश्वरम् ॥
हरिश्चंद्रेश्वरं किं वा हरिकेशेश्वरं तु वा

4.10.96

त्रिसंध्येशं महादेवमुपशांति शिवं तथा॥
भवानीशं कपर्दीशं कंदुकेशं मखेश्वरम्

4.10.97

मित्रावरुणसंज्ञं वा किमेषामाशुपुत्रदम् ॥
क्षणं विचार्य स मुनिरिति विश्वानरः सुधीः

4.10.98

आज्ञातं विस्मृतं तावत्फलितो मे मनोरथः ॥
सिद्धैः संसेवितं लिंगं सर्वसिद्धिकरं परम्

4.10.99

दर्शनात्स्पर्शनाद्यस्य मनो निर्वृतिभाग्भवेत् ॥
उद्घाटितं सदैवास्ते स्वर्गद्वारं हि यत्र वै

4.10.4.1.10.100

दिवानिशं पूजनार्थं विज्ञाप्य त्रिदशेश्वरम् ॥
पञ्चमुद्रे महापीठे सिद्धिदे सर्वजंतुषु

4.10.1

यत्र सा विकटा देवी प्रकटा सिद्धिरूपिणी ॥
यत्र स्थितानां भक्तानां साक्षात्सिद्धिविनायकः

4.10.2

निर्धूय विघ्नजालानि सर्वाः सिद्धीः प्रयच्छति ॥
अविमुक्ते महाक्षेत्रे सिद्धिक्षेत्रं हि तत्परम्

4.10.3

यत्र वीरेश्वरं लिंगं महागुह्यतमं मतम् ॥
तिलांतरापि नो काश्यां भूमिर्लिंगं विना क्वचित्

4.10.4

परं वीरेश सदृशं न लिंगं त्वाशुसिद्धिदम् ॥
धर्मदं चार्थदं सम्यक्कामदं मोक्षदं तथा

4.10.5

यथा वीरेश्वरं लिंगं काश्यां नान्यत्तथा धुवम् ॥
पंचस्वरोत्र गंधर्वः परां सिद्धिमगात्पुरा

4.10.6

विद्याधरः स्वच्छविद्यो वसुपूर्णश्च यक्षराट् ॥
नृत्यंती निजभावेन पुराह्यत्राप्सरोवरा

4.10.7

सदेहा कोकिलालापा लिंगमध्ये लयं गता ॥
ऋषिर्वेदशिरा नाम जपन्वै शतरुद्रियम्

4.10.8

मन्त्रज्योतिर्मये लिंगे सशरीरो विशत्पुरा ॥
चन्द्रमौलि भरद्वाजावुभौ पाशुपतोत्तमौ

4.10.9

वीरेश्वरं समभ्यर्च्य गायमानौ लयं गतौ ॥
शंखचूडो हि नागेंद्रः स्वफणामणिभिर्निशि

4.10.4.1.10.110

षण्मासात्सिद्धिमगमद्बहुनीराजनैरिह ॥
किन्नरी हंसपद्यत्र भर्त्रा वेणुप्रियेण वै

4.10.11

गायंती सुस्वरं याता परां निर्वाणभूमिकाम् ॥
असंख्याताः सहस्राणि सिद्धाः सिद्धिमिहागताः

4.10.12

सिद्धलिंगमिहाख्यातं तस्माद्वीरेश्वरं परम्

4.10.13

वीरेश्वरं समाराध्य भ्रष्टराज्यो जयद्रथः ॥
हत्वा रिपूनस्खलितं राज्यं प्राप विदेहजः

4.10.14

विदूरथोऽथ नृपतिरपुत्रः पुत्रवानभूत् ॥
वीरेश्वरप्रसादेन मगधाधिपतिर्वशी

4.10.15

वसुदत्तोत्र च वणिक्सुतां वसुसुतोपमाम् ॥
अब्दमभ्यर्च्य वीरेशं रत्नदत्तोप्यवाप्तवान्

4.10.16

अहमप्यत्र वीरेशं समाराध्यत्रिकालतः ॥
आशु पुत्रमवाप्स्यामि यथाभिलषितं स्त्रिया

4.10.17

इति कृत्वा मतिं धीरो विप्रो विश्वानरः कृती ॥
चन्द्र्कूपजलैः स्नात्वा जग्राह नियमं व्रती

4.10.18

एकाहारोभवन्मासं मासं नक्ताशनोभवत ॥
अयाचिताशनो मासं मासं त्यक्ताशनः पुनः

4.10.19

पयोव्रतोभवन्मासं मासं शाकफलाशनः ॥
मासं मुष्टितिलाहारो मासं पानीयभोजनः

4.10.4.1.10.120

पंचगव्याशनो मासं मासं चांद्रायणव्रती ॥
मासं कुशाग्रजलभुङ्मासं श्वसनभक्षणः

4.10.21

अथ त्रयोदशे मासि स्नात्वा त्रिपथगांभसि ॥
प्रत्यूष एव वीरेशं यावदायाति स द्विजः

4.10.22

तावद्विलोकयांचक्रे मध्ये लिंगं तपोधनः ॥
विभूतिभूषितं बालमष्टवर्षाकृतिं शुभम्

4.10.23

आकर्णपूर्णनेत्रं च सुरक्तदशनच्छदम् ॥
चारुपिंगजटामौलिं नग्नं प्रहसिताननम्

4.10.24

शैशवोचितनेपथ्यधारिणं चित्तहारिणम् ॥
पठंतं श्रुतिसूक्तानि हसंतं च स्वलीलया

4.10.25

तमालोक्य स्तुतिं चक्रे रोमकंचुकितो मुदा ॥
प्रोच्चरद्गद्गदालापो नमोस्त्विति पुनः पुनः

4.10.26

विश्वानर उवाच ॥ ॥
एकब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेहनानास्ति किंचित् ॥
एको रुद्रो न द्वितीयोवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम्

4.10.27

एकः कर्ता त्वं हि सर्वस्य शंभो नानारूपेष्वेकरूपोस्य रूपः ॥
यद्वत्प्रत्यप्स्वर्क एकोप्यनेकस्तस्मान्नान्यं त्वां विनेशं प्रपद्ये

4.10.28

रज्जौ सर्पः शुक्तिकायां च रूप्यंनैरःपूरस्तन्मृगाख्ये मरीचौ ॥
यद्वत्तद्वद्विष्वगेष प्रपंचो यस्मिञ्ज्ञाते तं प्रपद्ये महेशम्

4.10.29

तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीत भानौप्रसादः ॥
पुष्पे गंधो दुग्धमध्येपि सर्पिर्यत्तच्छंभो त्वं ततस्त्वां प्रपद्ये

4.10.4.1.10.130

शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यंघ्रिरायासि दूरात् ॥
व्यक्षः पश्येस्त्वं रसज्ञोप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वां प्रपद्ये

4.10.31

नोवेदस्त्वामीश साक्षाद्धिवेदनो वा विष्णुर्नोविधाताऽखिलस्य ॥
नो योगींद्रानेंद्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये

4.10.32

नो ते गोत्रं नेशजन्मापिनाख्यानो वा रूपं नैव शीलं न देशः ॥
इत्थंभूतोपीश्वरस्त्वं त्रिलोक्याः सर्वान्कामान्पूरयेस्तद्भजे त्वाम्

4.10.33

त्वत्तः सर्वं त्वं हि सर्वं स्मरारे त्वं गौरीशस्त्वं च नग्नोऽतिशांतः ॥
त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्त्वं यत्किंनास्यतस्त्वां नतोस्मि

4.10.34

स्तुत्वेति भूमौ निपपात विप्रः स दंडवद्यावदतीव हृष्टः ॥
तावत्स बालोखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि

4.10.35

तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती ॥
प्रत्यब्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो

4.10.36

सर्वांतरात्मा भगवान्सर्वः सर्वप्रदो भवान् ॥
याच्ञां प्रतिनियुंक्ते मां किमीशो दैन्यकारिणीम्

4.10.37

इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य ह ॥
शुचेः शुचिव्रतस्याशु शुचिस्मित्वाब्रवीच्छिशुः

4.10.38

बाल उवाच ॥
त्वया शुचे शुचिष्मत्यां योभिलाषः कृतो हृदि ॥
अचिरेणैवकालेन स भविष्यत्यसंशयः

4.10.39

तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते ॥
ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः

4.10.4.1.10.140

अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् ॥
अब्दं त्रिकालपठनात्कामदं शिवसंनिधौ

4.10.41

एतत्स्तोत्रस्य पठनं पुत्र पौत्र धनप्रदम् ॥
सर्वशांतिकरं चापि सर्वापत्परिनाशनम्

4.10.42

स्वर्गापवर्ग संपत्तिकारकं नात्र संशयः ॥
प्रातरुत्थाय सुस्नातो लिंगमभ्यर्च्य शांभवम्

4.10.43

वर्षं जपन्निदं स्तोत्रमपुत्रः पुत्रवान्भवेत् ॥
वैशाखे कार्तिके माघे विशेषनियमैर्युतः

4.10.44

यः पठेत्स्नानसमये स लभेत्सकलं फलम् ॥
कार्तिकस्य तु मासस्य प्रसादादहमव्ययः

4.10.45

तव पुत्रत्वमेष्यामि यस्त्वन्यस्तत्पठिष्यति ॥
अभिलाषाष्टकमिदं न देयं यस्य कस्यचित्

4.10.46

गोपनीयं प्रयत्नेन महावंध्याप्रसूतिकृत् ॥
स्त्रिया वा पुरुषेणापि नियमाल्लिंग संनिधौ

4.10.147

अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः ॥
इत्युक्त्वांतर्दधे बालः सोपि विप्रो गृहं गतः

4.10.10

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखण्डे पूवार्द्धे इंद्राग्निलोकवर्णनंनाम दशमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc