भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 3.8-2

3.8-2.1

॥ सूत उवाच ॥ ॥
नित्यानंदमयं शांतं निर्विकल्पं निरामयम् ॥
शिवतत्त्वमनाद्यंतं ये विदुस्ते परं गताः

3.8-2.2

विरक्ताः कामभोगेभ्यो ये प्रकुर्वंत्यहैतुकीम् ॥
भक्तिं परां शिवे धीरास्तेषां मुक्तिर्न संसृतिः

3.8-2.3

विषयानभिसंधाय ये कुर्वंति शिवे रतिम् ॥
विषयैर्नाभिभूयंते भुंजानास्तत्फलान्यपि

3.8-2.4

येन केनापि भावेन शिवभक्तियुतो नरः ॥
न विनश्यति कालेन स याति परमां गतिम्

3.8-2.5

आरुरुक्षुः परं स्थानं विषयासक्तमानसः ॥
पूजयेत्कर्मणा शंभुं भोगांते शिवमाप्नुयात्

3.8-2.6

अशक्तः कश्चिदुत्स्रष्टुं प्रायो विषयवासनाम् ॥
अतः कर्ममयी पूजा कामधेनुः शरीरिणाम्

3.8-2.7

मायामयेपि संसारे ये विहृत्य चिरं सुखम् ॥
मुक्तिमिच्छन्ति देहांते तेषां धर्मोयमीरितः

3.8-2.8

शिवपूजा सदा लोके हेतुः स्वर्गापवर्गयोः ॥
सोमवारे विशेषेण प्रदोषादिगुणान्विते

3.8-2.9

केवलेनापि ये कुर्युः सोमवारे शिवार्चनम् ॥
न तेषां विद्यते किंचिदिहामुत्र च दुर्लभम्

3.8-2.3.3.8.10

उपोषितः शुचिर्भूत्वा सोमवारे जितेंद्रियः ॥
वैदिकैर्लौकिकैर्वापि विधिवत्पूजयेच्छिवम्

3.8-2.11

ब्रह्मचारी गृहस्थो वा कन्या वापि सभर्त्तृका॥
विभर्तृका वा संपूज्य लभते वरमीप्सितम्

3.8-2.12

अत्राहं कथयिष्यामि कथां श्रोतृमनोहराम्॥
श्रुत्वा मुक्तिं प्रयांत्येव भर्तिर्भवति शांभवी

3.8-2.13

आर्यावर्ते नृपः कश्चिदासीद्धर्मभृतां वरः॥
चित्रवर्मेति विख्यातो धर्मराजो दुरात्मनाम्॥

3.8-2.14

स गोप्ता धर्मसेतूनां शास्ता दुष्पथगामिनाम् ॥
यष्टा समस्तयज्ञानां त्राता शरणमिच्छताम्

3.8-2.15

कर्त्ता सकलपुण्यानां दाता सकलसंपदाम् ॥
जेता सपत्नवृंदानां भक्तः शिवमुकुन्दयोः

3.8-2.16

सोनुकूलासु पत्नीषु लब्ध्वा पुत्रान्महौजसः ॥
चिरेण प्रार्थितां लेभे कन्यामेकां वराननाम्

3.8-2.17

स लब्ध्वा तनयां दिष्ट्या हिमवानिव पार्वतीम् ॥
आत्मानं देवसदृशं मेने पूर्णमनोरथम्

3.8-2.18

स एकदा जातकलक्षणज्ञानाहूय साधून्द्विजमुख्यवृंदान् ॥
कुतूहलेनाभिनिविष्टचेताः पप्रच्छ कन्याजनने फलानि

3.8-2.19

अथ तत्राब्रवीदेको बहुज्ञो द्विजसत्तमः ॥
एषा सीमंतिनी नाम्ना कन्या तव महीपते

3.8-2.3.3.8.20

उमेव मांगल्यवती दमयंतीव रूपिणी ॥
भारतीव कलाभिज्ञा लक्ष्मीरिव महागुणा ॥

3.8-2.21

सुप्रजा देवमातेव जानकीव धृतव्रता ॥
रविप्रभेव सत्कांतिश्चंद्रिकेव मनोरमा

3.8-2.22

दशवर्षसहस्राणि सह भर्त्रा प्रमोदते ॥
प्रसूय तनयानष्टौ परं सुखमवाप्स्यति

3.8-2.23

इत्युक्तवंतं नृपतिर्धनैः संपूज्य तं द्विजम् ॥
अवाप परमां प्रीतिं तद्वागमृतसेवया

3.8-2.24

अथान्योऽपि द्विजः प्राह धैर्यवानमितद्युतिः ॥
एषा चतुर्दशे वर्षे वैधव्यं प्रतिपत्स्यति

3.8-2.25

इत्याकर्ण्य वचस्तस्य वज्रनिर्घातनिष्ठुरम् ॥
मुहूर्तमभवद्राजा चिंताव्याकुलमानसः

3.8-2.26

अथ सर्वान्समुत्सृज्य ब्राह्मणान्ब्रह्मवत्सलः ॥
सर्वं दैवकृतं मत्त्वा निश्चिंतः पार्थिवोऽभवत्

3.8-2.27

सापि सीमंतिनी बाला क्रमेण गतशैशवा ॥
वैधव्यमात्मनो भावि शुश्रावात्मसखीमुखात्

3.8-2.28

परं निर्वेदमापन्ना चिंतयामास बालिका ॥
याज्ञवल्क्यमुनेः पत्नीं मैत्रेयीं पर्यपृच्छत

3.8-2.29

मातस्त्वच्चरणांभोजं प्रपन्नास्मि भयाकुला॥
सौभाग्यवर्धनं कर्म मम शंसितुमर्हसि

3.8-2.3.3.8.30

इति प्रपन्नां नृपतेः कन्यां प्राह मुनेः सती॥
शरणं व्रज तन्वंगि पार्वतीं शिवसंयुताम्

3.8-2.31

सोमवारे शिवं गौरीं पूजयस्व समाहिता॥
उपोषिता वा सुस्नाता विरजाम्बरधारिणी

3.8-2.32

यतवाङ्निश्चलमनाः पूजां कृत्वा यथोचिताम् ॥
ब्राह्मणान्भोजयित्वाथ शिवं सम्यक्प्रसादयत्

3.8-2.33

पापक्षयोऽभिषेकेण साम्राज्यं पीठपूजनात् ॥
सौभाग्यमखिलं सौख्यं गंधमाल्याक्षतार्पणात्

3.8-2.34

धूपदानेन सौगंध्यं कांतिर्दीपप्रदानतः ॥
नैवेद्यैश्च महाभोगो लक्ष्मीस्तांबूलदानतः

3.8-2.35

धर्मार्थकाममोक्षाश्च नमस्कारप्रदानतः ॥
अष्टैश्वर्यादिसिद्धीनां जप एव हि कारणम्

3.8-2.36

होमेन सर्वकामानां समृद्धिरुपजायते ॥
सर्वेषामेव देवानां तुष्टिर्ब्राह्मणभोजनात्

3.8-2.37

इत्थमाराधय शिवं सोमवारे शिवामपि ॥
अत्यापदमपि प्राप्ता निस्तीर्णाभिभवा भवेः

3.8-2.38

घोराद्घोरं प्रपन्नापि महाक्लेशं भयानकम् ॥
शिवपूजाप्रभावेण तरिष्यसि महद्भयम्

3.8-2.39

इत्थं सीमंतिनीं सम्यगनुशास्य पुनः सती ॥
ययौ सापि वरारोहा राजपुत्री तथाऽकरोत्

3.8-2.3.3.8.40

दमयंत्यां नलस्यासीदिंद्रसेनाभिधः सुतः ॥
तस्य चंद्रांगदो नाम पुत्रोभू च्चंद्रसन्निभः

3.8-2.41

चित्रवर्मा नृपश्रेष्ठस्तमाहूय नृपात्मजम् ॥
कन्यां सीमंतिनीं तस्मै प्रायच्छद्गुर्वनुज्ञया

3.8-2.42

सोऽभून्महोत्सवस्तत्र तस्या उद्वाहकर्मणि ॥
यत्र सर्वमहीपानां समवायो महानभूत्

3.8-2.43

तस्याः पाणिग्रहं काले कृत्वा चंद्रांगदः कृती ॥
उवास कतिचिन्मासांस्तत्रैव श्वशुरालये

3.8-2.44

एकदा यमुनां तर्तुं स राजतनयो बली ॥
आरुरोह तरीं कैश्चिद्वयस्यैः सह लीलया

3.8-2.45

तस्मिंस्तरति कालिंदीं राजपुत्रे विधेर्वशात् ॥
ममज्ज सह कैवतैरावर्त्ताभिहता तरी

3.8-2.46

हा हेति शब्दः सुमहानासीत्तस्यास्तटद्वये ॥
पश्यतां सर्वसैन्यानां प्रलापो दिवम स्पृशत्

3.8-2.47

मज्जंतो मम्रिरे केचित्केचिद्ग्राहोदरं गताः ॥
राजपुत्रादयः केचिन्नादृश्यंत महाजले

3.8-2.48

तदुपश्रुत्य राजापि चित्रवर्मातिवि ह्वलः ॥
यमुनायास्तटं प्राप्य विचेष्टः समजायत

3.8-2.49

श्रुत्वाथ राजपत्न्यश्च वभूबुर्गतचेतनाः ॥
सा च सीमंतिनी श्रुत्वा पपाप डूवि मूर्च्छिता

3.8-2.3.3.8.50

तथान्ये मंत्रिमुख्याश्च नायकाः सपुरोहिताः॥
विह्वलाः शोकसंतप्ता विलेपुर्मुक्तमूर्धजाः

3.8-2.51

इंद्रसेनोपि राजेद्रः पुत्रवार्त्तां सुदुःखितः॥
आकर्ण्य सह पत्नीभिर्नष्टसंज्ञः पपात ह

3.8-2.52

तन्मंत्रिणश्च तत्पौरास्तथा तद्देशवासिनः ॥
आबालवृद्धवनिताश्चुक्रुशुः शोकविह्वलाः

3.8-2.53

शोकात्केचिदुरो जघ्नुः शिरो जघ्नुश्च केचन ॥
हा राजपुत्र हा तात क्वासि क्वासीति बभ्रमुः

3.8-2.54

एवं शोकाकुलं दीनमिंद्रसेनमहीपतेः ॥
नगरं सहसा क्षुब्धं चित्रवर्मपुरं तथा

3.8-2.55

अथ वृद्धैः समाश्वस्तश्चित्रवर्मा महीपतिः ॥
शनैर्नगरमागत्य सान्त्वयामास चात्मजाम्

3.8-2.56

स राजांभसिमग्नस्य जामातुस्तस्य बांधवैः ॥
आगतैः कारयामास साकल्यादौर्ध्वदैहिकम्

3.8-2.57

सा च सीमंतिनी साध्वी भर्तृलोकमतिः सती ॥
पित्रा निषिद्धा स्नेहेन वैधव्यं प्रत्यपद्यत

3.8-2.58

मुनेः पत्न्योऽपदिष्टं यत्सोमवारव्रतं शुभम् ॥
न तत्याज शुभाचारा वैधव्यं प्राप्तवत्यपि

3.8-2.59

एवं चतुर्दशे वर्षे दुःखं प्राप्य सुदारुणम् ॥
ध्यायन्ती शिवपादाब्जं वत्सरत्रयमत्यगात्

3.8-2.3.3.8.60

पुत्रशोकादिवोन्मत्तमिंद्रसेनं महीपतिम् ॥
प्रसह्य तस्य दायादाः सप्तांगं जह्रुरोजसा

3.8-2.61

हृतसिंहासनः शूरैर्दायादैः सोऽप्रजो नृपः ॥
निगृह्य काराभवने सपत्नीको निवेशितः ॥

3.8-2.62

चंद्रागदोऽपि तत्पुत्रो निमग्नो यमुनाजले ॥
अधोधोमज्जमानोऽसौ ददर्शोरगकामिनीः

3.8-2.63

जलक्रीडासु सक्तास्ता दृष्ट्वा राजकुमार कम् ॥
विस्मितास्तमथो निन्युः पातालं पन्नगालयम्

3.8-2.64

स नीयमानस्तरसा पन्नगीभिर्नृपात्मजः ॥
तक्षकस्य पुरं रम्यं विवेश परमाद्भुतम् ॥

3.8-2.65

सोऽपश्यद्राजतनयो महेंद्रभवनोपमम् ॥
महारत्नपरिभ्राजन्मयूखपरिदीपितम्

3.8-2.66

वज्रवैडूर्यपाचादिप्रासादशतसंकुलम् ॥
माणिक्य गोपुरद्वारं मुक्तादामभिरुज्ज्वलम्

3.8-2.67

चंद्रकांतस्थलं रम्यं हेमद्वारकपाटकम् ॥
अनेकशतसाहस्रमणिदीपविराजितम्

3.8-2.68

तत्रापश्यत्सभा मध्ये निषण्णं रत्नविष्टरे ॥
तक्षकं पन्नगाधीशं फणानेकशतोज्ज्वलम्

3.8-2.69

दिव्यांबरधरं दीप्तं रत्नकुण्डलराजितम् ॥
नानारत्नपरिक्षिप्तमुकुट द्युतिरंजितम्

3.8-2.3.3.8.70

फणामणिमयूखाढ्यैरसंख्यैः पन्नगोत्तमैः ॥
उपासितं प्रांजलिभिश्चित्ररत्नविभूषितैः

3.8-2.71

रूपयौवनमाधुर्यविलासगति शोभिना ॥
नागकन्यासहस्रेण समंतात्परिवारितम्

3.8-2.72

दिव्याभरणदीप्तांगं दिव्यचंदनचर्चितम् ॥
कालाग्निमिव दुर्धर्षं तेजसादित्यसन्निभम् ॥

3.8-2.73

दृष्ट्वा राजसुतो धीरः प्रणिपत्य सभास्थले ॥
उत्थितः प्रांजलिस्तस्य तेजसाक्षिप्तलोचनः

3.8-2.74

नागराजोपि तं दृष्ट्वा राजपुत्रं मनोरमम् ॥
कोऽयं कस्मादिहायात इति पप्रच्छ पन्नगीः

3.8-2.75

ता ऊचुर्यमुनातोये दृष्टोऽस्माभिर्यदृच्छया ॥
अज्ञातकुलनामायमानीतस्तव सन्निधिम्

3.8-2.76

अथ पृष्टो राजपुत्रस्तक्षकेण महात्मना ॥
कस्यासि तनयः कस्त्वं को देशः कथमागतः

3.8-2.77

राजपुत्रो वचः श्रुत्वा तक्षकं वाक्यमब्रवीत्

3.8-2.78

॥ राजपुत्र उवाच ॥ ॥
अस्ति भूमंडले कश्चिद्देशो निषधसंज्ञकः ॥
तस्याधिपोऽभवद्राजा नलो नाम महा यशाः ॥
स पुण्यकीर्तिः क्षितिपो दमयन्तीपतिः शुभः

3.8-2.79

तस्मादपींद्रसेनाख्यस्तस्य पुत्रो महाबलः ॥
चंद्रांगदोस्मि नाम्नाहं नवोढः श्वशुरालये ॥
विहरन्यमुनातोये निमग्नो देवचोदितः

3.8-2.3.3.8.80

एताभिः पन्नगस्त्रीभिरानीतोस्मि तवांतिकम् ॥
दृष्ट्वाहं तव पादाब्जं पुण्यैर्जन्मांतरार्जितैः

3.8-2.81

अद्य धन्योऽस्मि धन्योऽस्मि कृतार्थो पितरौ मम ॥
यत्प्रेक्षितोऽहं कारुण्यात्त्वया संभाषितोपि च

3.8-2.82

॥ सूत उवाच ॥ ॥
इत्युदारमसंभ्रांतं वचः श्रुत्वातिपेशलम् ॥
तक्षकः पुनरौत्सुक्याद्बभाषे राजनंदनम्

3.8-2.83

॥ तक्षक उवाच ॥ ॥
भोभो नरेंद्रदायाद मा भैषीर्धीरतां व्रज ॥
सर्वदेवेषु को देवो युष्माभिः पूज्यते सदा

3.8-2.84

॥ राजपुत्र उवाच ॥ ॥
यो देवः सर्वेदेवेषु महादेवं इति स्मृतः ॥
पूज्यते स हि विश्वात्मा शिवोऽस्माभिरुमापतिः

3.8-2.85

यस्य तेजोंशलेशेन रजसा च प्रजापतिः ॥
कृतरूपोऽसृजद्विश्वं स नः पूज्यो महेश्वरः

3.8-2.86

यस्यांशात्सात्त्विकं दिव्यं बिभ्रद्विष्णुः सनातनः ॥
विश्वं बिभर्त्ति भूतात्मा शिवोऽस्माभिः स पूज्यते ॥

3.8-2.87

यस्यांशात्तामसाज्जातो रुद्रः कालाग्निसन्निभः ॥
विश्वमेतद्धरत्यंते स पूज्योऽस्माभिरीश्वरः

3.8-2.88

यो विधाता विधातुश्च कारणस्यापि कारणम् ॥
तेजसां परमं तेजः स शिवो नः परा गतिः

3.8-2.89

योंतिकस्थोऽपि दूरस्थः पापोपहृतचेतसाम् ॥
अपरिच्छेद्य धामासौ शिवो नः परमा गतिः

3.8-2.91

योऽग्नौ तिष्ठति यो भूमौ यो वायौ सलिले च यः ॥
य आकाशे च विश्वात्मा स पूज्यो नः सदाशिवः॥ 3.3.8.९० ।
यः साक्षी सर्वभूतानां य आत्मस्थो निरंजनः ॥
यस्येच्छावशगो लोकः सोऽस्माभिः पूज्यते शिवः

3.8-2.92

यमेकमाद्यं पुरुषं पुराणं वदंति भिन्नं गुणवैकृतेन ॥
क्षेत्रज्ञमेकेथ तुरीयमन्ये कूटस्थमन्ये स शिवो गतिर्नः

3.8-2.93

यं नास्पृशंश्चैत्यमचिंत्यतत्त्वं दुरंतधामानमतत्स्वरूपम् ॥
मनोवचोवृत्तय आत्मभाजां स एष पूज्यः परमः शिवो नः

3.8-2.94

यस्य प्रसादं प्रतिलभ्य संतो वांछंति नैंद्रं पदमुज्ज्वलं वा ॥
निस्तीर्णकर्मार्गलकालचक्राश्चरंत्यभीताः स शिवो गतिर्नः

3.8-2.95

यस्य स्मृतिः सकलपापरुजां विघातं सद्यः करोत्यपि चु पुल्कसजन्मभाजाम् ॥
यस्य स्वरूपमखिलं श्रुतिभिर्विमृग्यं तस्मै शिवाय सततं करवाम पूजाम्

3.8-2.96

यन्मूर्ध्नि लब्धनिलया सुरलोकसिंधुर्यस्यांगगाँ भगवती जगदंबिका च ॥
यत्कुंडले त्वहह तक्षकवासुकी द्वौ सोऽस्माकमेव गतिरर्धशशांकमौलिः

3.8-2.97

जयति निगमचूडाग्रेषु यस्यांघ्रिपद्मं जयति च हृदि नित्यं योगिनां यस्य मूर्तिः ॥
जयति सकलतत्त्वोद्भासनं यस्य मूर्तिः स विजितगुणसर्गः पूज्यतेऽस्माभिरीशः

3.8-2.98

॥ सूत उवाच ॥ ॥
इत्याकर्ण्य वचस्तस्य तक्षकः प्रीतमानसः ॥
जातभक्तिर्महादेवे राजपुत्रमभाषत

3.8-2.99

॥ तक्षक उवाच ॥ ॥
परितुष्टोऽस्मि भद्रं स्तात्तव राजेद्रनंदन ॥
बालोपि यत्परं तत्त्वं वेत्सि शैवं परात्परम्

3.8-2.3.3.8.100

एष रत्नमयो लोक एताश्चारुदृशोऽबलाः ॥
एते कल्पद्रुमाः सर्वे वाप्योमृतरसांभसः

3.8-2.101

नात्र मृत्युभयं घोरं न जरारोगपीडनम् ॥
यथेष्टं विहरात्रैव भुंक्ष्व भोगान्यथोचितान्

3.8-2.2

इत्युक्तो नागराजेन स राजेंद्रकुमारकः ॥
प्रत्युवाच परं प्रीत्या कृतांजलिरुदारधीः

3.8-2.3

कृतदारोऽस्म्यहं काले सुव्रता गृहिणी मम ॥
शिव पूजापरा नित्यं पितरावेकपुत्रकौ

3.8-2.4

ते त्वद्य मां मृतं मत्त्वा शोकेन महतावृताः ॥
प्रायः प्राणैर्वियुज्यंते दैवात्प्राणान्वहंति वा

3.8-2.5

अतो मया बहुतिथं नात्र स्थेयं कथंचन ॥
तमेव लोकं कृपया मां प्रापयितुमर्हसि

3.8-2.6

इत्युक्तवंतं नरदेवपुत्रं दिव्यैर्वरान्नैः सुरपादपोत्थैः ॥
आप्याययित्वा वरगंधवासः स्रग्रत्नदिव्याभरणैर्विचित्रैः

3.8-2.7

संतोषयित्वा विविधैश्च भोगैः पुनर्बभाषे भुजगाधिराजः ॥
यदायदा त्वं स्मरसि त्वदग्रे तदा तदाविष्क्रियते मयेति

3.8-2.8

पुनश्च राजपुत्राय तक्षकोश्वं च कामगम् ॥
नानाद्वीपसमुद्रेषु लोकेषु च निरर्गलम्

3.8-2.9

दत्तवान्रत्नाभरण दिव्याभरणवाससाम् ॥
वाहनाय ददावेकं राक्षसं पन्नगेश्वरः

3.8-2.3.3.8.110

तत्सहायार्थमेकं च पन्नगेंद्रकुमारकम् ॥
नियुज्य तक्षकः प्रीत्या गच्छेति विससर्ज तम्

3.8-2.11

इति चंद्रांगदः सोऽथ संगृह्य विविधं धनम् ॥
अश्वं कामगमारुह्य ताभ्यां सह विनिर्ययौ

3.8-2.12

स मूहूर्तादिवोन्मज्ज्य तस्मा देव सरिज्जलात् ॥
विजहार तटे रम्ये दिव्यमारुह्य वाजिनम्

3.8-2.13

अथास्मिन्समये तन्वी सा च सीमंतिनी सती ॥
स्नातुं समाययौ तत्र सखी भिः परिवारिता

3.8-2.14

सा ददर्श नदीतीरे विहरंतं नृपात्मजम् ॥
रक्षसा नररूपेण नागपुत्रेण चान्वितम्

3.8-2.15

दिव्यरत्नसमाकीर्णं दिव्य माल्यावतंसकम् ॥
देहेन दिव्यगंधेन व्याक्षिप्तदशयोजनम्

3.8-2.16

तमपूर्वाकृतिं वीक्ष्य दिव्याश्वमधिसंस्थितम् ॥
जडोन्मत्तेव भीतेव तस्थौ तन्न्यस्तलोचना

3.8-2.17

तां च राजेंद्रपुत्रोऽसौ दृष्टपूर्वामिति स्मरन् ॥
निर्मुक्तकंठाभरणां कंठसूत्रविवर्जिताम्

3.8-2.18

असंयोजितधम्मिल्लामंगरागविवर्जिताम् ॥
त्यक्तनीलांजनापांगीं कृशांगीं शोकदूषिताम्

3.8-2.19

दृष्ट्वाऽवतीर्य तुरगादुपविष्टः सरित्तटे ॥
तामाहूय वरारोहामुपवेश्येदम ब्रवीत्

3.8-2.3.3.8.120

का त्वं कस्य कलत्रं वा कस्यासि तनया सती ॥
किमिदं तेंगने बाल्ये दुःसहं शोकलक्षणम्

3.8-2.21

इति स्नेहेन संपृष्टा सा वधूरश्रुलोचना ॥
लज्जिता स्वयमाख्यातुं तत्सखी सर्वमब्रवीत्

3.8-2.22

इयं सीमंतिनी नाम्ना स्नुषा निषधभूपतेः ॥
चंद्रांगदस्य महिषी तनया चित्रवर्मणः

3.8-2.23

अस्याः पतिर्दैवयोगान्निमग्नोऽस्मिन्महाजले ॥
तेनेयं प्राप्तवैधव्या बाला दुःखेन शोषिता

3.8-2.24

एवं वर्षत्रयं नीतं शोकेनातिबलीयसा ॥
अद्येंदुवारे संप्राप्ते स्नातुमत्र समागता

3.8-2.25

श्वशुरोऽस्याश्च राजेंद्रो हृतराज्यश्च शत्रु भिः ॥
बलाद्गृहीतो बद्धश्च सभार्यस्तद्वशे स्थितः

3.8-2.26

तथाप्येषा शुभाचारा सोमवारे महेश्वरम् ॥
सांबिकं परया भक्त्या पूजयत्यमलाशया

3.8-2.27

॥ सूत उवाच ॥ ॥
इत्थं सखीमुखेनैव सर्वमावेद्य सुव्रता ॥
ततः सीमंतिनी प्राह स्वयमेव नृपात्मजम्

3.8-2.28

कस्त्वं कंदर्पसंकाशः काविमौ तव पार्श्वगौ ॥
देवो नरेंद्रः सिद्धो वा गंधर्वो वाथ किन्नरः

3.8-2.29

किमर्थं मम वृत्तांतं स्नेहवानिव पृच्छसि ॥
किं मां वेत्सि महाबाहो दृष्टवान्किमु कुत्रचित्

3.8-2.3.3.8.130

दृष्टपूर्व इवाभासि मया च स्वजनो यथा ॥
सर्वं कथय तत्त्वेन सत्यसारा हि साधवः

3.8-2.31

॥ सूत उवाच ॥
एतावदुक्त्वा नरदेवपुत्री सबाष्पकंठं सुचिरं रुरोद ॥
मुमोह भूमौ पतिता सखीभिर्वृता न किंचित्कथितुं शशाक

3.8-2.32

श्रुत्वा चंद्रांगदः सर्वं प्रियायाः शोककारणम् ॥
मुहूर्त्तमभवतूष्णीं स्वयं शोकसमाकुलः

3.8-2.33

अथाश्वास्य प्रियां तन्वीं विविधैर्वाक्यनैपुणैः ॥
सिद्धा नाम वयं देवाः कामगा इति सोऽब्रवीत्

3.8-2.34

ततो बलादिवाकृष्य पाणिग्रहणशंकिताम् ॥
पुलकांचितसर्वांगीं तां कर्णे त्विदमब्रवीत्

3.8-2.35

क्वापि लोके मया दृष्टस्तव भर्त्ता वरानने ॥
त्वद्व्रताचरणात्प्रीतः सद्य एवागमिष्यति ॥

3.8-2.36

अपनेष्यति ते शोकं द्वित्रैरेव दिनैर्ध्रुवम् ॥
एतच्छंसितुमायातस्तव भर्त्तुः सखाऽस्म्यहम्

3.8-2.37

अत्र कार्यो न संदेहः शपामि शिवपादयोः ॥
तावत्त्वद्धृदये स्थेयं न प्रकाश्यं च कुत्रचित्

3.8-2.38

सा तु तद्वचनं श्रुत्वा सुधाधाराशताधिकम् ॥
संभ्रमोद्भ्रांतनयना तमेव मुहुरैक्षत ॥

3.8-2.39

प्रेमबंधानुगुणितं वाक्यं चाह रसायनम् ॥
विभ्रमोदारसहितं मधुरापांगवीक्षणम्

3.8-2.3.3.8.140

स्वपाणिस्पर्शनोद्भिन्नपुलकांचितविग्रहम्॥
पूर्व दृष्टानि चांगेषु लक्षणानि स्वरादिषु ॥
वयःप्रमाणं वर्णं च परीक्ष्यैनमतर्कयत्

3.8-2.141

एष एव पतिर्मे स्याद्ध्रुवं नान्यो भविष्यति ॥
अस्मिन्नेव प्रसक्तं मे हृदयं प्रेमकातरम्

3.8-2.142

परलोकादिहायातः कथमेवं स्वरूपधृक् ॥
दुर्भाग्यायाः कथं मे स्याद्भर्तुर्नष्टस्य दर्शनम्

3.8-2.143

स्वप्नोयं किमु न स्वप्नो भ्रमोऽयं किं तु न भ्रमः ॥
एष धूर्तोऽथवा कश्चिद्यक्षो गंधर्व एव वा

3.8-2.44

मुनिपल्या यदुक्तं मे परमापद्गतापि च ॥
व्रतमेतत्कुरुष्वेति तस्य वा फलमेव वा

3.8-2.45

यो वर्षायुत सौभाग्यं ममेत्याह द्विजोत्तमः॥
नूनं तस्य वचः सत्यं को विद्यादीश्वरं विना

3.8-2.46

निमित्तानि च दृश्यंते मंगलानि दिनेदिने॥
प्रसन्ने पार्वतीनाथे किमसाध्यं शरीरिणाम्

3.8-2.47

इत्थं विमृश्य बहुधा तां पुनर्मुक्तसंशयाम्॥
लज्जानम्रमुखीं कर्णे शशंसात्मप्रयोजनम्

3.8-2.48

इमं वृत्तांतमाख्यातुं तत्पित्रोः शोकतप्तयोः ॥
गच्छामः स्वस्ति ते भद्रे सद्यः पतिमवाप्स्यसि

3.8-2.49

इत्युक्त्वाश्वं समारुह्य जगाम नृपनंदनः ॥
ताभ्यां सह निजं राष्ट्रं प्रत्यपद्यत तत्क्षणात्

3.8-2.3.3.8.150

स पुरोपवनाभ्याशे स्थित्वा तं फणि पुत्रकम् ॥
विससर्जात्मदायादान्नृपासनगतान्प्रति

3.8-2.151

स गत्वोवाच ताञ्छीघ्रमिंद्रसेनो विमुच्यताम् ॥
चंद्रांगदस्तस्य सुतः प्राप्तोऽयं पन्नगाल यात्

3.8-2.152

नृपासनं विमुंचंतु भवंतो न विचार्यताम् ॥
नो चेच्चंद्रागदस्याशु बाणाः प्राणान्हरंति वः

3.8-2.153

स मग्नो यमुनातोये गत्वा तक्षकमंदिरम् ॥
लब्ध्वा च तस्य साहाय्यं पुनर्लोकादिहागतः

3.8-2.54

इत्याख्यातमशेषेण तद्वृत्तांतं निशम्य ते ॥
साधुसाध्विति संभ्रांताः शशंसुः परिपंथिनः

3.8-2.55

अथेंद्रसेनाय निवेद्य सत्वरं नष्टस्य पुत्रस्य पुनः समागमम् ॥
प्रसाद्य तं प्राप्तनरेश्वरासनं दायादमुख्यास्तु भयं प्रपेदिरे

3.8-2.56

अथ पौरजनाः सर्वे पुरोद्याने नृपात्मजम् ॥
दृष्ट्वा राज्ञे द्रुतं प्रोचुर्लेभिरे च महाधनम्

3.8-2.57

आकर्ण्य पुत्रमायांतं राजानंदजलाप्लुतः ॥
न व्यजानादिमं लोकं राज्ञी च परया मुदा

3.8-2.58

अथ नागरिकाः सर्वे मंत्रिवृद्धाः पुरोधसः ॥
प्रत्युद्गम्य परिष्वज्य तमानिन्युर्नृपांति कम्

3.8-2.59

अथोत्सवेन महता प्रविश्य निजमंदिरम् ॥
राजपुत्रः स्वपितरौ ववंदे बाष्पमुत्सृजन्

3.8-2.3.3.8.160

तं पादमूले पतितं स्वपुत्रं विवेद नासौ पृथिवीपतिः क्षणम् ॥
प्रबोधितोऽमात्यजनैः कथंचिदुत्थाय क्लिन्नेन हृदालिलिंग

3.8-2.61

क्रमेण मातॄरभिवंद्य ताभिः प्रवर्धिताशीः प्रणयाकु लाभिः ॥
आलिंगितः पौरजनानशेषान्संभावयामास स राजसूनुः

3.8-2.62

तेषां मध्ये समासीनः स्ववृत्तांतमशेषतः ॥
पित्रे निवेदयामास तक्षकस्य च मित्रताम्

3.8-2.63

दत्तं भुजंगराजेन रत्नादिधनसंचयम् ॥
दिव्यं तद्राक्षसानीतं पित्रे सर्वं न्यवेदयत्

3.8-2.64

राजपुत्रस्य चरितं दृष्ट्वा श्रुत्वा च विह्वलः ॥ ।
मेने स्नुषायाः सौभाग्यं महेशाराधनार्जितम्

3.8-2.65

सौमांगल्यमयीं वार्तामिमां निषधभूपतिः॥
चारैर्निवेदयामास चित्रवर्ममहीपतेः

3.8-2.66

श्रुत्वाऽमृतमयीं वार्त्तां स समुत्थाय संभ्रमात् ॥
तेभ्यो दत्त्वा धनं भूरि ननर्तानंदविह्वलः

3.8-2.67

अथाहूय स्वतनयां परिष्वज्याश्रुलोचनः ॥
भूषणैर्भूषयामास त्यक्तवैधव्यलक्षणाम्

3.8-2.68

अथोत्सवो महानासीद्राष्ट्रग्रामपुरादिषु ॥
सीमंतिन्याः शुभाचारं शशंसुः सर्वतो जनाः

3.8-2.69

चित्रवर्माथ नृपतिः समाहूयेंद्रसेनजम् ॥
पुनर्विवाहविधिना सुतां तस्मै न्यवेदयत्

3.8-2.3.3.8.170

चन्द्रांगदोऽपि रत्नाद्यैरानीतैस्तक्षकालयात् ॥
स्वां पत्नीं भूषयां चक्रे मर्त्यानामतिदुर्लभैः

3.8-2.71

अंगरागेण दिव्येन तप्तकांचनशोभिना ॥
शुशुभे सा सुगंधेन दशयोजनगामिना

3.8-2.72

अम्लानमालया शश्वत्पद्मकिंजल्कवर्णया ॥
कल्पद्रुमोत्थया बाला भूषिता शुशुभे सती

3.8-2.73

एवं चंद्रांगदः पत्नीमवाप्य समये शुभे ॥
ययौ स्वनगरीं भूयः श्वशुरेणानुमोदितः

3.8-2.74

इन्द्रसेनोऽपि राजेंद्रो राज्ये स्थाप्य निजात्मजम् ॥
तपसा शिवमाराध्य लेभे संयमिनां गतिम्

3.8-2.75

दशवर्ष सहस्राणि सीमंतिन्या स्वभार्यया ॥
सार्धं चन्द्रांगदो राजा बुभुजे विषयान्बहून्

3.8-2.76

प्रासूत तनयानष्टौ कन्यामेकां वराननाम् ॥
रेमे सीमंतिनी भर्त्रा पूजयती महेश्वरम् ॥
दिनेदिने च सौभाग्यं प्राप्तं चैवेन्दुवासरात्

3.8-2.177

॥ सूत उवाच ॥ ॥
विचित्रमिदमाख्यानं मया समनुवर्णितम् ॥
भूयोऽपि वक्ष्ये माहात्म्यं सोमवारव्रतोदितम्

3.8-2.8

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां ब्रह्मोत्तरखण्डे सोमवारव्रतवर्णनंनामाष्टमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc