भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 3.6-2

3.6-2.1

॥ ऋषय ऊचुः ॥ ॥
यदुक्तं भवता सूत महदाख्यानमद्भुतम् ॥
शम्भोर्माहात्म्यकथनमशेषाघहरं परम्

3.6-2.2

भूयोपि श्रोतुमिच्छामस्तदेव सुसमाहिताः ॥
प्रदोषे भगवाञ्छंभुः पूजितस्तु महात्मभिः

3.6-2.3

संप्रयच्छति कां सिद्धिमेतन्नो ब्रूहि सुव्रत ॥
श्रुतमप्यसकृत्सूत भूयस्तृष्णा प्रवर्धते

3.6-2.4

॥ सूत उवाच ॥ ॥
साधु पृष्टं महाप्राज्ञा भवद्भिर्लोकविश्रुतैः ॥
अतोऽहं संप्रवक्ष्यामि शिवपूजाफलं महत्

3.6-2.5

त्रयोदश्यां तिथौ सायं प्रदोषः परिकीर्त्तितः ॥
तत्र पूज्यो महादेवो नान्यो देवः फलार्थिभिः

3.6-2.6

प्रदोषपूजामाहात्म्यं को नु वर्णयितुं क्षमः ॥
यत्र सर्वेऽपि विबुधास्तिष्ठंति गिरिशांतिके

3.6-2.7

प्रदोषसमये देवः कैलासे रजतालये ॥
करोति नृत्यं विबुधैरभिष्टुतगुणोदयः

3.6-2.8

अतः पूजा जपो होमस्तत्कथास्तद्गुणस्तवः ॥
कर्त्तव्यो नियतं मर्त्यैश्चतुर्वर्गफला र्थिभिः

3.6-2.9

दारिद्यतिमिरांधानां मर्त्यानां भवभीरुणाम् ॥
भवसागरमग्नानां प्लवोऽयं पारदर्शनः

3.6-2.3.3.6.10

दुःखशोकभयार्त्तानां क्लेशनिर्वाणमिच्छताम् ॥
प्रदोषे पार्वतीशस्य पूजनं मंगलायनम्

3.6-2.11

दुर्बुद्धिरपि नीचोपि मन्दभाग्यः शठोऽपि वा ॥
प्रदोषे पूज्य देवेशं विपद्भ्यः स प्रमुच्यते

3.6-2.12

शत्रुभिर्हन्यमानोऽपि दश्यमानोपि पन्नगैः ॥
शैलैराक्रम्यमाणोऽपि पतितोऽपि महांबुधौ

3.6-2.13

आविद्धकालदण्डोऽपि नानारोगहतोऽपि वा ॥
न विनश्यति मर्त्योऽसौ प्रदोषे गिरिशार्चनात्

3.6-2.14

दारिद्र्यं मरणं दुःखमृणभारं नगोपमम् ॥
सद्यो विधूय संपद्भिः पूज्यते शिवपूजनात्

3.6-2.15

अत्र वक्ष्ये महापुण्यमितिहासं पुरातनम् ॥
यं श्रुत्वा मनुजाः सर्वे प्रयांति कृतकृत्यताम्

3.6-2.16

आसीद्विदर्भविषये नाम्ना सत्यरथो नृपः ॥
सर्वधर्मरतो धीरः सुशीलः सत्यसंगरः

3.6-2.17

तस्य पालयतो भूमिं धर्मेण मुनिपुंगवाः ॥
व्यतीयाय महान्कालः सुखेनैव महामतेः

3.6-2.18

अथ तस्य महीभर्तुर्बभूवुः शाल्वभूभुजः ॥
शत्रवश्चोद्धतबला दुर्मर्षणपुरोगमाः

3.6-2.19

कदाचिदथ ते शाल्वाः संनद्धबहुसैनिकाः ॥
विदर्भनगरीं प्राप्य रुरुधुर्विजिगीषवः

3.6-2.3.3.6.20

दृष्ट्वा निरुद्ध्यमानां तां विदर्भाधिपतिः पुरीम् ॥
योद्धुमभ्याययौ तूर्णं बलेन महता वृतः

3.6-2.21

तस्य तैरभवयुद्धं शाल्वैरपि बलोद्धतैः ॥
पाताले पन्नगेन्द्रस्य गन्धर्वैरिव दुर्मदैः

3.6-2.22

विदर्भनृपतिः सोऽथ कृत्वा युद्धं सुदारुणम् ॥
प्रनष्टोरुबलैः शाल्वैर्निहतो रणमूर्धनि

3.6-2.23

तस्मिन्महारथे वीरे निहते मंत्रिभिः सह ॥
दुद्रुवुः समरे भग्ना हतशेषाश्च सैनिकाः

3.6-2.24

अथ युद्धेभिविरते नदत्सु रिपुमंत्रिषु ॥
नगर्यां युद्ध्यमानायां जाते कोलाहले रवे

3.6-2.25

तस्य सत्यरथस्यैका विदर्भाधिपतेः सती ॥
भूरिशोकसमाविष्टा क्वचिद्यत्नाद्विनिर्ययौ

3.6-2.26

सा निशासमये यत्नादंतर्वत्नी नृपांगना ॥
निर्गता शोक संतप्ता प्रतीचीं प्रययौ दिशम्

3.6-2.27

अथ प्रभाते मार्गेण गच्छन्ती शनकैः सती ॥
अतीत्य दूरमध्वानं ददर्श विमलं सरः

3.6-2.28

तत्रागत्य वरारोहा तप्ता तापेन भूयसा ॥
विलसंतं सरस्तीरे छायावृक्षं समाश्रयत्

3.6-2.29

तत्र दैववशाद्राज्ञी विजने तरुकुट्टिमे ॥
असूत तनयं साध्वी मूहूर्ते सद्गुणान्विते

3.6-2.3.3.6.30

अथ सा राजमहिषी पिपासाभिहता भृशम् ॥
सरोऽवतीर्णा चार्वंगी ग्रस्ता ग्राहेण भूयसा

3.6-2.31

जातमात्रः कुमारोऽपि विनष्टपितृमातृकः ॥
रुरोदोच्चैः सरस्तीरे क्षुत्पिपासार्दितोऽबलः

3.6-2.32

तस्मिन्नेवं क्रन्दमाने जातमात्रे कुमारके ॥
काचिदभ्याययौ शीघ्रं दिष्ट्या विप्रवरांगना

3.6-2.33

साप्येकहायनं बालमुद्वहन्ती निजात्मजम् ॥
अधना भर्तृरहिता याचमाना गृहेगृहे

3.6-2.34

एकात्मजा बंधुहीना याञ्चामार्गवशंगता॥
उमानाम द्विजसतीददर्श नृपनंदनम्

3.6-2.35

सा दृष्ट्वा राजतनयं सूर्यबिंवमिव च्युतम्॥
अनाथमेनं क्रंदंतं चिंतयामास भूरिशः

3.6-2.36

अहो सुमहदाश्चर्यमिदं दृष्टं मयाधुना ॥
अच्छिन्ननाभिसूत्रोऽयं शिशुर्माता क्व वा गता

3.6-2.37

पिता नास्ति न चान्योस्ति नास्ति बंधुजनोऽपि वा ॥
अनाथः कृपणो बालः शेते केवल भूतले

3.6-2.38

एष चांडालजो वापि शूद्रजो वैश्यजोपि वा ॥
विप्रात्मजो वा नृपजो ज्ञायते कथमर्भकः

3.6-2.39

शिशुमेनं समुद्धृत्य पुष्णाम्यौरसवद्ध्रुवम् ॥
किं त्वविज्ञातकुलजं नोत्सहे स्प्रष्टुमुत्तमम्

3.6-2.3.3.6.40

इति मीमांसमानायां तस्यां विप्रवरस्त्रियाम्

3.6-2.11

कश्चित्समाययौ भिक्षुः साक्षाद्देवः शिवः स्वयम् ॥
तामाह भिक्षुवर्योथ विप्रभामिनि मा खिदः

3.6-2.42

रक्षैनं बालकं सुभ्रुर्विसृज्य हृदि संशयम्॥
अनेन परमं श्रेयः प्राप्स्यसे ह्यचिरादेइह

3.6-2.43

एतावदुक्त्वा त्वरितो भिक्षुः कारुणिको ययौ ॥
अथ तस्मिन्गते भिक्षौ विश्रब्धा विप्रभामिनी

3.6-2.44

तमर्भकं समादाय निजमेव गृहं ययौ ॥
भिक्षुवाक्येन विश्रब्धा सा राज तनयं सती

3.6-2.49

आत्मपुत्रेण सदृशं कृपया पर्यपोषयत्॥
एकचक्राह्वये रम्ये ग्रामे कृतनिकेतना

3.6-2.16

स्वपुत्रं राजपुत्रं च भिक्षान्नेन व्यवर्धयत् ॥
ब्राह्मणीतनयश्चैव स राजतनयस्तथा

3.6-2.47

ब्राह्मणैः कृतसंस्कारौ ववृधाते सुपूजितौ॥।
कृतोपनयनौ काले बालकौ नियमे स्थितौ ॥

3.6-2.48

भिक्षार्थं चेरतुस्तत्र मात्रा सह दिनेदिने ॥
ताभ्यां कदाचिद्बालाभ्यां सा विप्रवनिता सह

3.6-2.19

भैक्ष्यं चरंती दैवेन प्रविष्टा देवतालयम्॥
तत्र वृद्धैः समाकीर्णे मुनिभिर्देवतालये

3.6-2.3.3.6.50

तौ दृष्ट्वा बालकौ धीमाञ्छांडिल्यो मुनिरब्रवीत् ॥
अहो दैवबलं चित्रमहो कर्म दुरत्ययम्

3.6-2.51

एष बालोऽन्यजननीं श्रितो भैक्ष्येण जीवति ॥
इमामेव द्विजवधूं प्राप्य मातरमुत्तमाम्

3.6-2.52

सहैव द्विजपुत्रेण द्विजभावं समाश्रितः ॥
इति श्रुत्वा मुनेर्वाक्यं शांडिल्यस्य द्विजांगना

3.6-2.53

सा प्रणम्य सभामध्ये पर्यपृच्छत्सविस्मया ॥
ब्रह्मन्नेषोर्भको नीतो मया भिक्षोर्गिरा गृहम्

3.6-2.54

अविज्ञातकुलोद्यापि सुतवत्परिपोष्यते ॥
कस्मिन्कुले प्रसूतोऽयं का माता जनकोस्य कः

3.6-2.56

सर्वं विज्ञातुमिच्छामि भवतो ज्ञानचक्षुषः ॥.५५ ॥।
इति पृष्टो मुनिः सोथ ज्ञानदृष्टिर्द्विजस्त्रियां ॥
आचख्यौ तस्य बालस्य जन्म कर्म च पौर्विकम्

3.6-2.57

विदर्भराजपुत्रस्तु तत्पितुः समरे मृतिम्॥
तन्मातुर्नक्रहरणं साकल्येन न्यवेदयत्

3.6-2.58

अथ सा विस्मिता नारी पुनः प्रपच्छ तं मुनिम् ॥
स राजा सकलान्भोगान्हित्वा युद्धे कथं मृतः

3.6-2.59

दारिद्र्यमस्य बालस्य कथं प्राप्तं महामुने ॥
दारिद्र्यं पुनरुद्धूय कथं राज्यमवाप्स्यति ॥

3.6-2.3.3.6.60

अस्यापि मम पुत्रस्य भिक्षान्नेनैव जीवतः ।
दारिद्र्यशमनोपायमुपदेष्टुं त्वमर्हसि

3.6-2.61

॥ शांडिल्य उवाच ॥॥
अमुष्य बालस्य पिता स विदर्भमहीपतिः ॥
पूर्वजन्मनि पांड्येशो बभूव नृपसत्तमः

3.6-2.62

स राजा सर्वधर्मज्ञः पालयन्सकलां महीम् ॥
प्रदोषसमये शंभुं कदा चित्प्रत्यपूजयत्

3.6-2.63

तस्य पूजयतो भक्त्या देवं त्रिभुवनेश्वरम् ॥
आसीत्कलकलारावः सर्वत्र नगरे महान्

3.6-2.64

श्रुत्वा तमुत्कटं शब्दं राजा त्यक्तशिवार्चनः ॥
निर्ययौ राजभवनान्नगरक्षोभशंकया

3.6-2.65

एतस्मिन्नेव समये तस्यामात्यो महाबलः ॥
शत्रुं गृहीत्वा सामंतं राजांतिकमुपागमत्

3.6-2.66

अमात्येन समानीतं शत्रुं सामंतमुद्धतम् ॥
दृष्ट्वा क्रोधेन नृपतिः शिरच्छेदमकारयत्

3.6-2.67

स तथैव महीपालो विसृज्य शिवपूजनम् ॥
असमाप्तात्मनियमश्चकार निशि भोजनम्

3.6-2.68

तत्पुत्रोपि तथा चक्रे प्रदोषसमये शिवम् ॥
अनर्चयित्वा मूढात्मा भुक्त्वा सुष्वाप दुर्मदः

3.6-2.69

जन्मांतरे स नृपतिर्विदर्भक्षितिपोऽभवत् ॥
शिवार्चनांतरायेण परैर्भोगांतरे हतः

3.6-2.3.3.6.70

तत्पुत्रो यः पूर्वभवे सोस्मिञ्जन्मनि तत्सुतः ॥
भूत्वा दारिद्र्यमापन्नः शिवपूजाव्यतिक्रमात्

3.6-2.71

अस्य माता पूर्वभवे सपत्नीं छद्मनाहनत् ॥
तेन पापेन महता ग्राहेणास्मिन्भवे हता

3.6-2.72

एषा प्रवृत्तिरेतेषां भवत्यै समुदाहृता ॥
अनर्चितशिवा मर्त्याः प्राप्नुवंति दरिद्रताम् ॥

3.6-2.73

सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि ॥
संसारमुल्बणमसारमवाप्य जंतोः सारो यमीश्वरपदांबुरुहस्य सेवा

3.6-2.74

ये नार्चयंति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमंति चान्ये ॥
एतत्कथां श्रुतिपुटैर्न पिबंति मूढास्ते जन्मजन्मसु भवंति नरा दरिद्राः

3.6-2.75

ये वै प्रदोषसमये परमेश्वरस्य कुर्वंत्यनन्यमनसोंऽघ्रिसरोजपूजाम् ॥
नित्यं प्रवृद्धधन धान्यकलत्रपुत्रसौभाग्यसंपदधिकास्त इहैव लोके

3.6-2.76

कैलासशैलभवने त्रिजगजनित्रीं गौरीं निवेश्य कनकांचितरत्नपीठे ॥
नृत्यं विधातु मभिवाञ्छति शूलपाणौ देवाः प्रदोषसमयेऽनुभजंति सर्वे

3.6-2.77

वाग्देवी धृतवल्लकी शतमखो वेणुं दधत्पद्मजस्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता ॥
विष्णुः सांद्रमृदंगवादनपटुर्देवाः समंतात्स्थिताः सेवंते तमनु प्रदोषसमये देवं मृडानीपतिम्

3.6-2.78

गंधर्वयक्षपतगोरगसिद्ध साध्या विद्याधरामरवराप्सरसां गणाश्च ॥
येऽन्ये त्रिलोकनिलयाः सह भूतवर्गाः प्राप्ते प्रदोषसमये हरपार्थसंस्थाः

3.6-2.79

अतः प्रदोषे शिव एक एव पूज्योऽथ नान्ये हरिपद्मजाद्याः ॥
तस्मिन्महेशे विधिनेज्यमाने सर्वे प्रसीदंति सुराधिनाथाः

3.6-2.3.3.6.80

एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः ॥
प्रतिग्रहैर्वयो निन्ये न यज्ञाद्यैः सुकर्मभिः

3.6-2.81

अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि॥
तद्दोष परिहारार्थं शरणं यातु शंकरम्

3.6-2.6

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे प्रदोषमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc