भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 3.5-3

3.5-3.1

॥ श्रीसूत उवाच ॥ ॥
प्रस्तुत्य चक्रतीर्थं तु पुण्यं पापविनाशनम् ॥
पुनरप्यद्भुतं किञ्चित्प्रब्रवीमि मुनीश्वराः

3.5-3.2

विधूमनामा हि वसुर्देवस्त्री चाप्यलंबुषा ॥
ब्रह्मशापान्महाघोरात्पुरा प्राप्तौ मनुष्यताम्॥

3.5-3.3

चक्रतीर्थे महापुण्ये स्नात्वा शापाद्विमोचितौ ॥
॥ ऋषय ऊचुः ॥ ॥
सूतसूत महाप्राज्ञ पुराणार्थविशारद

3.5-3.4

प्राज्ञत्वाद्व्यासशिष्य त्वादज्ञातं ते न किंचन ॥
ब्रह्मा केनापराधेन सहालंबुसया वसुम्

3.5-3.5

पुरा विधूमनामानं शप्तवांश्चतुराननः ॥
ब्रह्मशापेन घोरेण कयोस्तौ पुत्रतां गतौ

3.5-3.6

शापस्यान्तः कथमभूद्ब्रह्मणा शप्तयोस्तयोः ॥
एतन्नः श्रद्दधानानां विस्तराद्वक्तुमर्हसि

3.5-3.7

॥ श्रीसूत उवाच ॥ ॥
पुरा हि भगवान्ब्रह्मा स्वयम्भूश्चतुराननः ॥
सावित्र्या च सरस्वत्या पार्श्वयोः प्रविराजितः

3.5-3.8

सनातनेन मुनिना सनकेन च धीमता ॥
सनत्कुमारनाम्ना च नारदेन महात्मना

3.5-3.9

सनन्दनादिभिश्चान्यैः सेव्यमानो मुनीश्वरैः ॥
सुपर्ववृन्दजुष्टेन स्तूयमानो बिडौजसा

3.5-3.3.1.5.10

आदित्यादि ग्रहैश्चैव स्तूयमानपदांबुजः ॥
सिद्धैः साध्यैर्मरुद्भिश्च किंनरैश्च समावृतः

3.5-3.11

गणैः किंपुरुषाणां च वसुभिश्चाष्टभिर्वृतः ॥
उर्वशीप्रमुखानां च स्वर्वेश्यानां मनोरमम्

3.5-3.12

नृत्यं वादित्रसहितं वीक्ष्यमाणो मुहुर्मुहुः ॥
गोष्ठीं चक्रे सभामध्ये सत्यलोके कदाचन

3.5-3.13

मेघगर्जितगम्भीरो जनानां नंदयन्मुहुः ॥
वीणावेणुमृदंगानां ध्वनिस्तत्र व्यसर्पत

3.5-3.14

गंगातरंगमालानां शीकरस्पर्शशीतलः ॥
पवमानः सुखस्पर्शो मन्दं मन्दं ववौ तदा

3.5-3.15

पर्यायेण तदा सर्वा ननृतुर्देवयोषितः ॥
नृत्यश्रमेण खिन्नासु वेश्यास्वन्यासु सादरम्

3.5-3.16

अलंबुसा देवनारी रूपयौ वनशालिनी ॥
मदयन्ती जनान्सर्वान्सभामध्ये ननर्त वै

3.5-3.17

तस्मिन्नवसरे तस्या नृत्यंत्याः संसदि द्विजाः ॥
वस्त्रमाभ्यंतरं वायुर्लीलया समुदक्षिपत्

3.5-3.19

तत्क्षिप्ते वसने स्पष्टमूरुमूलमदृश्यत ॥
तथाभूतां तु तां दृष्ट्वा सर्वे ब्रह्मादयो ह्रिया

3.5-3.19

सभामध्ये समासीना निमीलित दृशोऽभवन् ॥
विधूमनामा तु वसुः कामबाणप्रपीडितः

3.5-3.3.1.5.20

तामेव ब्रह्मभवने दृष्ट्वानिलहृतांशुकाम् ॥
हर्षसंफुल्लनयनो हृष्टरोमा ततोऽभवत्

3.5-3.21

अलंबुसायां तस्यां तु जातकामं विलोक्य तम् ॥
वसुं विधूमनामानं शशाप चतुराननः

3.5-3.22

यस्मात्त्वमीदृशं कार्यं विधूम कृतवानसि ॥
तस्माद्धि मर्त्यलोके त्वं मानुषत्वमवाप्स्यसि

3.5-3.23

इयं च देवयोषित्ते तत्र भार्या भविष्यति ॥
एवं स ब्रह्मणा शप्तो विधूमः खिन्नमानसः

3.5-3.24

प्रसादयामास वसुर्ब्रह्माणं प्रणिपत्य तु ॥
॥ विधूम उवाच ॥ ॥
अस्य शापस्य घोरस्य भगवन्भक्तवत्सल

3.5-3.25

नाहमर्होऽस्मि देवेश रक्ष मां करुणानिधे ॥
एवं प्रसादितस्तेन भारतीपतिरव्ययः

3.5-3.26

कृपया परया युक्तो विधूमं प्राह सांत्वयन् ॥
॥ ब्रह्मोवाच ॥ ॥
त्वयि शापोऽप्ययं दत्तो न चासत्यं ब्रवीम्यहम्

3.5-3.27

ततोऽवधिं कल्पयामि शापस्यास्य तवाधुना ॥
मर्त्यभावं समापन्नः सहालंबुसयाऽनया

3.5-3.28

तत्र भूत्वा महाराजः शासयित्वा चिरं महीम् ॥
पुत्रमप्रतिमं त्वस्यां जनयित्वा महीपतिम्

3.5-3.29

अभिषिच्य च राज्ये तं राज्यरक्षाविचक्षणम् ॥
एतच्छापस्य शांत्यर्थं दक्षिणस्योदधेस्तटे ॥
फुल्लग्रामसमीपस्थे चक्रतीर्थे महत्तरे

3.5-3.3.1.5.30

अनया भार्यया सार्द्धं यदा स्नानं करिष्यसि ॥
तदा त्वं मानुषं भावं जीर्णत्वचमिवोरगः

3.5-3.31

विसृज्य भार्यया सार्द्धं स्वं लोकं प्रतिपत्स्यसे ॥
चक्रतीर्थे विना स्नानं न नश्येच्छाप ईदृशः

3.5-3.32

इति ब्रह्मवचः श्रुत्वा विधूमो नातिहृष्टवान् ॥
स्ववेश्म प्राविशत्तूर्णमामंत्र्य चतुराननम्

3.5-3.33

चिंतयामास तत्रासौ मर्त्यतां यास्यतो मम॥
को वा पिता भवेद्भूमौ का वा माता भविष्यति

3.5-3.34

बहुधेत्थं समालोच्य विधूमो निश्चिकाय सः॥
कौशांबीनगरे राजा शतानीक इति श्रुतः

3.5-3.35

अस्ति वीरो महाभागो भार्या चापि पतिव्रता ॥
तस्य विष्णुमतीनाम विष्णोः श्रीरिव वल्लभा

3.5-3.36

तमेव पितरं कृत्वा मातरं च विधाय ताम् ॥
संभविष्यामि भूलोके स्वकर्मपरिपाकतः

3.5-3.37

ततः स माल्यवन्तं च पुष्पदंतं बलोत्कटम्॥
त्रीनाहूयात्मनो भृत्यान्वृत्तमेतन्न्यवे दयत्

3.5-3.38

भृत्याः शृणुत भद्रं वो ब्रह्मशापान्महाभयात् ॥
जनिष्यामि शतानीकाद्विष्णुमत्यामहं सुतः

3.5-3.39

इति श्रुत्वा वचो भृत्यास्तस्या प्राणा बहिश्चराः ॥
वाष्पपूर्णमुखाः सर्वे विधूमं वाक्यमब्रुवन्

3.5-3.3.1.5.40

॥ भृत्या ऊचुः ॥ ॥
त्वद्वियोगं वयं सर्वे त्रयोऽपि न सहामहे ॥
तस्मान्मानुष भावत्वमस्माभिः सह यास्यसि

3.5-3.41

शतानीकस्य राजर्षेर्मंत्री योऽयं युगन्धरः ॥
सेनानीर्विप्रतीकश्च योऽयं प्राग्रसरो रणे

3.5-3.42

नर्मकर्मसु हृद्विप्रो वल्लभाख्यो महांश्च यः ॥
तेषां पुत्रास्त्रयोऽप्येते भविष्यामो न संशयः

3.5-3.43

शतानीकस्य राजर्षेः पुत्रभावं गतस्य ते ॥
शुश्रूषां संविधास्यामस्तेषु तेषु च कर्मसु ॥
तानेवंवादिनः सोऽयं विधूमो वाक्यमब्रवीत्

3.5-3.44

॥ विधूम उवाच ॥ ॥
जानेऽहं भवतां स्नेहं तादृशं मय्य नुत्तमम्

3.5-3.45

तथापि कथयाम्यद्य तच्छृणुध्वं हितं वचः ॥
ब्रह्मशापेन घोरेण स्वेन दुष्कर्मणा कृतम्

3.5-3.46

कुत्सितं मानुषं भावमहमेकोऽनुवर्तये ॥
विहितं न हि युष्माकमेतच्छापानुवर्तनम्

3.5-3.47

जुगुप्सितेऽतो मानुष्ये मा कुरुध्वं मनोऽधुना ॥
अतः शापावधिर्यावन्मद्वियोगो विषह्यताम्

3.5-3.48

इत्युक्तवन्तं ते सर्वे माल्यवत्प्रमुखास्तदा ॥
ऊचुः प्रणम्य शिरसा प्रार्थयंतः पुनःपुनः

3.5-3.49

रक्षित्वा कृपया ह्यस्मान्मा कुरुष्व च साहसम् ॥
परित्यजसि नः सर्वान्भक्तानद्य निरागसः

3.5-3.3.1.5.50

त्वद्वियोगान्महाघोरान्मानुष्यमपि कुत्सितम् ॥
बहु मन्यामहे देव तस्मान्नस्त्राहि सांप्रतम्

3.5-3.51

एवं स याचमानांस्त्रीनन्वमन्यत भृत्यकान् ॥
तैस्त्रिभिः सहितः सोऽयं कौशांबीं गन्तुमैच्छत

3.5-3.52

एतस्मिन्नेव काले तु सोमवंशविवर्द्धनः ॥
अर्जुनाभिजने जातो जनमेजयसंभवः

3.5-3.53

शतानीको महीपालः पृथिवीमन्वपालयत् ॥
बुद्धिमान्नीतिमान्वाग्मी प्रजापालनतत्परः

3.5-3.54

चतुरंगबलोपेतो विक्रमैकधनो युवा ॥
स कौशांबीं महाराजो नगरीमध्युवास वै

3.5-3.55

तस्य मन्त्ररहस्यज्ञो मन्त्री जातो युगंधरः ॥
सेनानीर्विप्रतीकश्च तस्य प्राग्रसरो रणे

3.5-3.56

नर्मकर्मसु तस्यासीद्वल्लभाख्यः सखा द्विजः ॥
तस्य विष्णुमती नाम विष्णोः श्रीरिव वल्लभा

3.5-3.57

स सर्वगुणसंपन्नः शतानीको महामतिः ॥
पुत्रमात्मसमं तस्यां भार्यायां नान्वविंदत

3.5-3.58

आत्मानमसुतं ज्ञात्वा स भृशं पर्यतप्यत ॥
स युगंधरमाहूय मंत्रिणं मन्त्रवित्तमम्

3.5-3.59

पुत्रलाभः कथं मे स्यादिति कार्यममन्त्रयत् ॥
युगन्धरो मही पालं पुत्रालाभेन पीडितम् ॥
हर्षयन्वचसा स्वेन वाक्यमेतदभाषत

3.5-3.3.1.5.60

॥ युगन्धर उवाच ॥ ॥
अस्ति शांडिल्यनामा तु महर्षिः सत्यवाक्छुचिः

3.5-3.61

शत्रुमित्रसमो दांतस्तपःस्वाध्यायतत्परः ॥
तमेव मुनिमासाद्य ज्वलंतमिव पावकम्

3.5-3.62

पुत्रमात्मसमं राजन्प्रार्थयेथा विनीतवत् ॥
कृपावान्स महर्षिस्तु पुत्रं ते दास्यति ध्रुवम्

3.5-3.63

इति तद्वचनं श्रुत्वा हर्षसंफुल्ललोचनः ॥
मंत्रिणा तेन संयुक्तस्तस्यागादाश्रमं मुनेः

3.5-3.64

तमाश्रमे समासीनं प्रणनाम महीपतिः ॥
शांडिल्यस्तु महातेजा राजानं प्राप्तमाश्रमम्

3.5-3.65

दृष्ट्वा पाद्यादिभिः पूज्य स्वागतं व्याजहार सः ॥
॥ शांडिल्य उवाच ॥ ॥
शतानीक किमर्थं त्वमाश्रमं प्राप्तवान्मम

3.5-3.66

यत्कर्तव्यमिदानीं ते तद्वदस्व करोम्यहम् ॥
मुनिमेवं वदंतं तं प्रत्यवादीद्युगंधरः

3.5-3.67

भगवन्नेष वै राजा पुत्रालाभेन कर्षितः ॥
भवंतं शरणं प्राप्तः सांप्रतं पुत्रकारणात्

3.5-3.68

अस्यापुत्रत्वजं दुःखं त्वमपाकर्तुमर्हसि ॥
इति तस्य वचः श्रुत्वा शांडिल्यो मुनिसत्तमः

3.5-3.69

पुत्रलाभवरं तस्मै प्रतिजज्ञे नृपाय वै ॥
स राज्ञो वरदः श्रीमान्कौशांबीमेत्य सादरम्

3.5-3.3.1.5.70

पुत्रेष्ट्या पुत्रकामस्य याजकोऽभून्महामुनिः ॥
ततो मुनिप्रसादेन राजा दशरथोपमः

3.5-3.71

यज्वा राममिव प्राप सहस्रानीकमात्मजम् ॥
एवं विधूमः संजज्ञे शतानीकान्नृपोत्तमात्

3.5-3.72

अत्रांतरे मंत्रिवरस्सेनानीस्तु महीपतेः ॥
द्विजो नर्मवयस्यश्च पुत्रान्प्रापुः कुलोचितान्

3.5-3.73

पुत्रो युगंधरस्यासीन्माल्यवान्नाम भृत्यकः ॥
यौगंधरायणो नाम्ना मन्त्रशास्त्रेषु कोविदः ॥

3.5-3.74

विप्रतीकस्य तनयः पुष्पदन्तो बभूव ह ॥
रुमण्वानिति विख्यातः परसैन्यविमर्दनः

3.5-3.75

वल्लभस्य तदा जज्ञे तनयो वै बलोत्कटः ॥
वसंतक इति ख्यातो नर्मकर्मसु कोविदः

3.5-3.76

अथ ते ववृधुः सर्वे राजपुत्रपुरोगमाः ॥
पञ्चहायनतां तेषु यातेषु तदनंतरम्

3.5-3.77

अलंबुसापि स्वर्वेश्या भूपतेः कृतवर्मणः ॥
अयोध्यायां महापुर्यां कन्या जाता मृगावती

3.5-3.78

एवं विधूममुख्यास्ते जज्ञिरे क्षितिमण्डले ॥
अत्रांतरे महासत्त्वो दुष्टसानुचरो बली

3.5-3.79

अहिदंष्ट्र इति ख्यातो महादैत्यो बलोत्कटः ॥
युक्तः स्थूलशिरोनामा सहायेन दुरात्मना

3.5-3.3.1.5.80

रुरोध देवनगरं बबाध विबुधानपि ॥
वर्तमाने दिवि महासमरे सुररक्षसाम्

3.5-3.81

आनिनाय शतानीकं सहायार्थं पुरंदरः ॥
स यौवराज्ये तनयं विधाय विधिना नृपः

3.5-3.82

प्रतस्थे रथमास्थाय युद्धाय दितिजैः सह ॥
नीतो मातलिनाभ्येत्य सादरं स धनुर्धरः

3.5-3.83

विधाय प्रेक्षकान्देवाञ्जघान दितिजान्रणे ॥
अथ दैत्याधिपः सोऽपि निहतः समरे दिवि

3.5-3.84

ततः शक्रस्य वचसा परेतं नृपपुंगवम् ॥
रथमारोप्य सहसा कौशांबीं मातलिर्ययौ

3.5-3.85

नीत्वा महीतलमसौ तत्सुताय न्यवेदयत् ॥
ततः सहस्रानीकोपि विलप्य वहुदुखितः

3.5-3.86

मंत्रिभिः सह संभूय प्रेतकार्यं न्यवर्तयत् ॥
मृतं ज्ञात्वा पतिं राज्ञी सहैवानुममार च

3.5-3.87

महिष्या सह संप्राप्ते भूपाले कीर्तिशेषताम् ॥
भेजे राज्यं शतानीकतनयो मंत्रिणां गिरा

3.5-3.88

युगन्धरे विप्रतीके वल्लभे च मृते सति ॥
यौगन्धरायणमुखास्तत्पुत्राः सर्व एव हि

3.5-3.89

शतानीक सुतस्यास्य तत्तत्कार्यमकुर्वत ॥
एवं स पालयामास महीं राजसुतो बली

3.5-3.3.1.5.90

याते काले महेन्द्रेण सनन्दनमहोत्सवे ॥
निमंत्रितस्तत्कथितां भाविनीमशृणोत्कथाम्

3.5-3.91

स्वर्योषिद्ब्रह्मणः शापादयोध्यायायामलंबुसा ॥
जाता मृगावती कन्या भूपतेः कृतवर्मणः

3.5-3.92

विधूम नामा च वसुस्त्वं नाकललनां पुरा ॥
तामेव ब्रह्मसदने दृष्ट्वानिलहृतांशुकाम्

3.5-3.93

तदैव मादनाक्रांतः शापान्मर्त्यत्वमागतः ॥
सैव ते दयिता राजन्भाविनी न चिरात्सखे

3.5-3.94

यदा त्वमात्मनः पुत्रं राज्ये संस्थाप्य भूपते ॥
मृगावत्या स्त्रिया सार्द्धं दक्षिणस्योदधेस्तटे

3.5-3.95

चक्रतीर्थे महापुण्ये फुल्लग्रामसमीपतः ॥
स्नानं करिष्यसि तदा शापान्मुक्तो भविष्यसि

3.5-3.96

इति प्रोवाच भगवन्सत्यलोके पितामहः ॥
इतींद्रवचनं श्रुत्वा सहस्रानीकभूपतिः

3.5-3.97

तथोद्वाहकृतोत्साहः समामंत्र्य शचीपतिम् ॥
कौशांबीं प्रस्थितो हृष्टः स तिलोत्तमया पथि ॥

3.5-3.98

स्मरन्किमपि तां कांतां भाषमाणामनन्यधीः ॥
ध्यायञ्छतक्रतुवचो नालुलोके महीपतिः

3.5-3.99

सा शशाप नृपं सुभ्रूरनादरतिर स्कृता ॥
आहूयमानोपि मया सहस्रानीक भूपते

3.5-3.3.1.5.100

मृगावतीं हृदा ध्यायन्किमर्थं मामुपेक्षसे ॥
सौभाग्यमत्ता मानिन्यो न सहंतेऽवधीर णाम्

3.5-3.101

मामवज्ञाय यां राजन्हृदा ध्यायसि सांप्रतम् ॥
तया चतुर्दशसमा वियुक्तस्त्वं भविष्यसि

3.5-3.102

इति शप्तवतीं राजा तामु वाच तिलोत्तमाम्॥
तामेव यदि लभ्येयं तनुजां कृतवर्मणः

3.5-3.103

चतुर्दशसमा दुःखं सहिष्ये तद्वियोगजम्॥
इत्युक्त्वा तद्गतमना नृपः प्राया न्निजां पुरीम्

3.5-3.104

ततः कालेन तनया भूपतेः कृतवर्मणः ॥
तमाससाद दयिता सर्वस्वं पुष्पधन्वनः

3.5-3.105

मृगावती समासाद्य विला सतरुवल्लरीम्॥
विभ्रमांभोधिलहरीं ननंद मदनद्युतिः

3.5-3.106

सा तस्माद्गर्भमाधत्त भवानीवेंदुशेखरात् ॥
पांडिम्ना शशिलेखेव पीपूषक्षालिता बभौ

3.5-3.107

सुन्दरी दौर्हृदव्यक्तेरथ पौरंदरीव दिक् ॥
रराज राजमहिषी रजनीकरगर्भिणी

3.5-3.108

सा दौर्हृदवशाद्राज्ञी यंयं काममकाम यत् ॥
सुदुर्लभमपिप्रेम्णा तत्तत्सर्वं समाहरत्

3.5-3.109

पत्यौ समीहितकरे सा कदाचिन्मृगावती ॥
स्वेच्छया वै मतिं चक्रे रक्तवापीनिमज्जने

3.5-3.3.1.5.110

अभिलाषं सविज्ञाय मृगावत्या महीपतिः ॥
कौसुम्भसलिलैः पूर्णां क्षणाद्वापीमकारयत्

3.5-3.111

तस्मिन्रक्तजले राज्ञी स्नानं सादरमातनोत्॥
ततस्तां रक्ततोयार्द्रां फुल्लकिंशुकसन्निभाम्

3.5-3.112

राजस्त्रीमामिषधिया सुपर्णकुलसंभवः॥
जहार विकटः पक्षी मुग्धां दग्धविधेर्वशात्॥

3.5-3.113

नीत्वा विहायसा दूरं स तामचलसन्निभः॥
तत्याजमोहविवशामुदयाचलकंदरे

3.5-3.114

लब्धसंज्ञा शनैः कंपविलोलतनुवल्लरी॥
दृग्भ्यामुत्पलतुल्याभ्यां मुहुरश्रूण्यवर्तयत्

3.5-3.115

हा नाथ मंदभाग्याहं त्वद्वियोगेनपीडिता॥
का गतिः क्व नु गच्छामि द्रक्ष्यामि त्वन्मुखं कदा

3.5-3.116

इत्युक्त्वा गजसिंहानां पुरोभूद्वधकांक्षिणी ॥
सा सर्वकेसरिगजैस्त्यक्ता न निधनं गता

3.5-3.117

आपत्काले नृणां नूनं मरणं नैव लभ्यते॥
अतिदीनं समाकर्ण्य तस्याः क्रंदितमुन्मुखाः

3.5-3.118

मृगा निष्पंदगतयो न तृणान्यप्यभक्षयन्॥
ततस्तां करुणासिंधुर्मुनिपुत्रस्तथास्थिताम्

3.5-3.119

रुदतीं कृपया राज्ञीं समानीय स्वमाश्रमम् ॥
न्यवेदयच्च तां राज्ञीं गुरवे जमदग्नये ॥
जमदग्निस्तु धर्मात्मा तामाश्वासयदंतिके

3.5-3.3.1.5.120

॥ जमदग्निरुवाच ॥ ॥
तथा जानीहि मां भद्रे कृतवर्मा यथा तव

3.5-3.121

एवमाश्वासिता तत्र कृपया जमदग्निना ॥
चक्रे तत्रैव सा वासमाश्रमे मुनिसंकुले

3.5-3.122

।
ततस्स्वल्पेन कालेन विशाखमिव पार्वती ॥
असूत तनयं बाला शौर्यधैर्यगुणान्वितम्

3.5-3.123

सूतिकागृहकृत्यानि यानि कार्याणि बंधुभिः ॥
चक्रिरे मातृवत्तानि मृगावत्या मुनिस्त्रियः

3.5-3.124

तं सुजातं नृपसुतं कापि वागशरीरिणी ॥
उदयाचलजातत्वाच्चकारोदयनाभिधम्॥

3.5-3.125

आश्रमे स मुनीन्द्रेण कृतचूडादिकव्रतः ॥
जग्राह सकला विद्या जमदग्नेर्महामुनेः

3.5-3.126

युवा नृपसुतः सोऽयं कदाचिन्मृगयापरः ॥
अपश्यदेकं भुजगं व्याधेन दृढसंयतम्

3.5-3.127

उवाच स कृपायुक्तो व्याध मुंच भुजंगमम् ॥
किं करिष्यस्यनेन त्वं नैनं हिंसितुर्महसि

3.5-3.128

तमुवाच ततो व्याधः सर्पेणानेन पूरुष ॥
धनधान्यादिकं लप्स्ये ग्रामेषु नगरेषु च

3.5-3.129

अतोहं जीविकामेनं नैव मोक्ष्ये कथंचन ॥
इत्युक्त्वा पेटिकायां तं वबंध शबराधमः

3.5-3.3.1.5.130

बद्धमालोक्य भुजगं शबराय धनार्थिने ॥
अमोचयत्स्वजननीदत्तं दत्त्वा स कंकणम्

3.5-3.131

मोचितस्तेन सर्पोऽसौ नरो भूत्वा कृतांजलिः ॥
सख्यं कृत्वा च सहसा तं पातालं निनाय वै

3.5-3.132

किन्नराख्येन नागेन धृतराष्ट्रसुतेन सः॥
पातालं प्राविशत्तत्र न्यवसत्पूजितस्सुखम्

3.5-3.133

धृतराष्ट्रस्य तनयां भगिनीं किन्नरस्य च ॥
ललिताख्यां गुणोपेतां प्रियां भेजे नृपात्मजः ॥

3.5-3.134

सा तस्माज्जनयामास पुत्रमप्रतिमौजसम् ॥
ततः सा ललिता प्राह त्वरितोदयनं प्रति

3.5-3.135

॥ ललितोवाच ॥ ॥
अहं विद्या धरी पूर्वं सुकर्णी नाम नामतः ॥
शापात्सर्पत्वमाप्तास्मि शापांतो गर्भ एष मे

3.5-3.136

ततोऽमुं प्रतिगृह्णीष्व पुत्रमप्रतिमौजसम् ॥
तांबूलीं स्रजमम्लानां वीणां घोषवतीमपि

3.5-3.137

तथेति प्रतिजग्राह तत्सर्वं नृपनंदनः.॥
पश्यतां सर्वसर्पाणां साप्यगच्छद्विहायसम्

3.5-3.138

ततः सोऽपि गृहीत्वा तु वीणां मालां च पुत्रकम् ॥
दुःखितामात्मजननीं द्रष्टुकामस्त्वरान्वितः

3.5-3.139

श्वशुरादीननुज्ञाप्य सहसा स्वाश्रमं ययौ ॥
जननीं शोकसंतप्तामाश्वस्तां जमदग्निना

3.5-3.3.1.5.140

समेत्य तोषयामास वृत्तं चास्यै न्यवेदयत् ॥
तदा प्रहृष्टहृदया सा बभूव मृगावती

3.5-3.141

अत्रांतरे स शबरः कौशांब्यां वणिजं ययौ ॥
सहस्रानीकनामांकं विक्रेतुं मणिकंकणम्

3.5-3.142

राजमुद्रां समालोक्य कंकणे स वणिग्वरः ॥
शबरेण समं गत्वा सर्वं राज्ञे न्यवेदयत्

3.5-3.143

ततः सहस्रानीकोऽयं तत्प्राप्य मणिकंकणम् ॥
मृगावतीविप्रयोगविषाग्निपरिपीडितः

3.5-3.144

तद्बाहुसंगपीयूष शीकरासारशीतलम्॥
कंकणं हृदये न्यस्य विललाप सुदुःखितः

3.5-3.145

उवाच च कथं लब्धं कंकणं शबर त्वया ॥
स चैवमुक्तस्तत्प्राप्ति क्रमं तस्मै न्यवेदयत्

3.5-3.146

शबरस्य वचः श्रुत्वा सहस्रानीकभूपतिः ॥
प्रतस्थे मंत्रिभिः सार्द्धं प्रियालोकनकौतुकी

3.5-3.147

यत्रेंदुभास्क रमुखा लभंते सहसोदयम् ॥
तमेव गिरिमुद्दिश्य सहसा सोऽभ्यगच्छत

3.5-3.148

किंचिन्मार्गं समुल्लंघ्य तस्थौ विश्रांतसैनिकः ॥
तस्मिन्विनिद्रे दयितासंगमध्यानतत्परे

3.5-3.149

वसंतको विचित्रास्तु कथयामास वै कथाः ॥
तत्कथाश्रवणेनैव तां रात्रिं स निनाय वै

3.5-3.3.1.5.150

ततः कालेन ककुभं प्राप्य जंभारिपालिताम् ॥
जमदग्न्याश्रमं गत्वा निर्वैरहरिकुंजरम्

3.5-3.151

तपस्यंतं मुनिं दृष्ट्वा शिरसा प्रणनाम सः ॥
आशीर्वादेन स मुनिः प्रतिजग्राह तं नृपम्

3.5-3.152

विधिवत्पूजयामास पाद्यार्घ्याचमनीयकैः ॥
उवाच च महीपालं धर्मार्थसहितं वचः

3.5-3.193

नरनाथ मृगावत्यां जातोऽयं तनयस्तव ॥
यशोनिधिर्महातेजा रामचंद्र इवापरः

3.5-3.154

भविष्यति दिशां जेता सिंहसंहननो युवा ॥
पौत्र एष महाभाग तथा द्युदयनात्मजः

3.5-3.155

इयं मृगावती भार्या पाति व्रत्यपरायणा ॥
तदेतांस्त्रीन्महाराज प्रतिगृह्णीष्व मा चिरम्

3.5-3.156

उक्त्वैवं मुनिना दत्तांस्तान्गृहीत्वा महीपतिः ॥
प्रियासहायः स्वपुरीं प्रतस्थे मंत्रिभिर्वृतः

3.5-3.157

ततः प्रविश्य कौशांबीं नगरीं स नृपोत्तमः ॥
स्मरञ्छक्रस्य वचनं मानुषं जन्म कुत्सयन्

3.5-3.158

महीमुदयनायैव ददौ पुत्राय धीमते ॥
तस्मिन्नुदयने पुत्र राज्यपालनदक्षिणे

3.5-3.159

राज्यभारं विनिक्षिप्य स शापविनिवृत्तये॥
वसंतकरुमण्वद्भ्यां मृगावत्या च भार्यया

3.5-3.3.1.5.160

यौगन्धरायणेनापि मंत्रिपुत्रेण संयुतः ॥
चक्रतीर्थे महापुण्ये दक्षिणस्योदधेस्तटे

3.5-3.161

स्नानं कर्तुं ययौ तूर्णं सर्वतीर्थोत्त मोत्तमे ॥
वाहनैर्वातरंहोभिरचिराल्लवणोदधिम्

3.5-3.162

संप्राप्य चक्रतीर्थं च स्नानं चक्रुर्यथाविधि ॥
तेषु च स्नातमात्रेषु चक्रतीर्थे नृपादिषु ॥

3.5-3.163

विनष्टं तत्क्षणादेव मानुष्यमतिकुत्सितम् ॥
ततो विधूतपापास्ते स्वं रूपं प्रतिपेदिरे

3.5-3.164

दिव्यांबरधराः सर्वे दिव्यमाल्यानुलेपनाः ॥
विमानानि महार्हाणि समारुह्य विभूषिताः

3.5-3.165

तत्तीर्थं बहु मन्वानाः स्वशापच्छेदकारणम् ॥
पश्यतां सर्वलोकानां स्वर्गलोकं ययुस्तदा ॥

3.5-3.166

तदाप्रभृति ते सर्वे ज्ञात्वा तत्तीर्थवैभवम् ॥
पावने चक्रतीर्थेऽस्मिन्स्नानं कुर्वंति सर्वदा

3.5-3.167

एवं प्रभावं तत्तीर्थं ये समागत्य मानवाः ॥
स्नानं सकृच्च कुर्वंति ते सर्वे स्वर्गवासिनः

3.5-3.168

एवं वः कथितं विप्रा विधूमचरितं महत् ॥
यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥
यं यं कामयते कामं तं सर्वं शीघ्रमाप्नुयात्

3.5-3.5

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्ये चक्रतीर्थप्रशंसायामलंबुसाविधूमशापविमोचनंनाम पञ्चमोऽध्यायः

॥ छ ॥
तुलनीय - कथासरित्सागरे उदयनस्य जन्मकथा

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc