भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 3.4-2

3.4-2.1

॥ सूत उवाच ॥ ॥
भूयोपि शिवमाहात्म्यं वक्ष्यामि परमाद्भुतम् ॥
शृण्वतां सर्वपापघ्नं भवपाशविमोचनम् ॥

3.4-2.2

दुस्तरे दुरितांभोधौ मज्जतां विषयात्मनाम् ॥
शिवपूजां विना कश्चित्प्लवो नास्ति निरूपितः

3.4-2.3

शिवपूजां सदा कुर्याद्बुद्धिमानिह मानवः ॥
अशक्तश्चेत्कृता पूजां पश्येद्भक्तिविनम्रधीः

3.4-2.4

अश्रद्धयापि यः कुर्याच्छिवपूजां विमुक्तिदाम् ॥
पश्येद्वा सोपि कालेन प्रयाति परमं पदम्

3.4-2.5

आसीत्किरातदेशेषु नाम्ना राजा विमर्दनः ॥
शूरः परमदुर्द्धर्षो जितशत्रुः प्रतापवान्

3.4-2.6

सर्वदा मृगयासक्तः कृपणो निर्घृणो बली ॥
सर्वमांसाशनः क्रूरः सर्ववर्णांगनावृतः

3.4-2.7

तथापि कुरुते शंभोः पूजां नित्यमतंद्रितः ॥
चतुर्दश्यां विशेषेण पक्षयोः शुक्लकृष्णयोः ॥

3.4-2.8

महाविभवसंपन्नां पूजां कृत्वा स मोदते ॥
हर्षेण महताविष्टो नृत्यति स्तौति गायति

3.4-2.9

तस्यैवं वर्तमानस्य नृपतेः सर्वभक्षिणः ॥
दुराचारस्य महिषी चेष्टितेनान्वतप्यत

3.4-2.3.3.4.10

सा वै कुमुद्वतीनाम राज्ञी शीलगुणान्विता ॥
एकदा पतिमासाद्य रहस्ये तदपृच्छत

3.4-2.11

एतत्ते चरितं राजन्महदाश्चर्यकारणम् ॥
क्व ते महादुराचारः क्व भक्तिः परमेश्वरे

3.4-2.12

सर्वदा सर्वभक्षस्त्वं सर्वस्त्रीजनलालसः ॥
सर्वहिंसापरः क्रूरः कथं भक्तिस्तवेश्वरे

3.4-2.13

इति पृष्टः स भूपालो विमृश्य सुचिरं ततः ॥
त्रिकालज्ञः प्रहस्यैनां प्रोवाच सुकुतूहलः

3.4-2.14

॥
॥ राजोवाच ॥ ॥
अहं पूर्वभवे कश्चित्सारमेयो वरानने ॥
पंपानगरमाश्रित्य पर्यटामि समंततः

3.4-2.15

एवं कालेषु गच्छत्सु तत्रैव नगरोत्तमे ॥
कदाचिदागतः सोहं मनोज्ञं शिवमंदिरम्

3.4-2.16

पूजायां वर्तमानायां चतुर्दश्यां महातिथौ ॥
अपश्यमुत्सवं दूराद्बहिर्द्वारं समाश्रितः

3.4-2.17

अथाहं परमक्रुद्धैर्दंडहस्तैः प्रधावितः ॥
तस्माद्देशादपक्रांतः प्राणरक्षापरायणः

3.4-2.18

ततः प्रदक्षिणीकृत्य मनोज्ञं शिवमंदिरम् ॥
द्वारदेशं पुनः प्राप्य पुनश्चैव निवारितः

3.4-2.19

पुनः प्रदक्षिणीकृत्य तदेव शिवमन्दिरम् ॥
बलिपिंडादिलोभेन पुनर्द्वारमुपागतः

3.4-2.3.3.4.20

एवं पुनःपुनस्तत्र कृत्वा कृत्वा प्रदक्षिणाम् ॥
द्वारदेशे समासीनं निजघ्नुर्निशितैः शरैः

3.4-2.21

स विद्धगात्रः सहसा शिवद्वारि गतासुकः ॥
जातोऽस्म्यहं कुले राज्ञां प्रभावाच्छिवसन्निधेः

3.4-2.22

दृष्ट्वा चतुर्दशीपूजां दीपमाला विलोकिताः ॥
तेन पुण्येन महता त्रिकालज्ञोऽस्मि भामिनि

3.4-2.23

प्राग्जन्मवासनाभिश्च सर्वभक्षोऽस्मि निर्घृणः ॥
विदुषामपि दुर्लंघ्या प्रकृतिर्वासनामयी

3.4-2.24

अतोऽहमर्चयामीशं चतुर्दश्यां जगद्गुरुम् ॥
त्वमपि श्रद्धया भद्रे भज देवं पिनाकिनम्

3.4-2.25

॥ राज्ञ्युवाच ॥ ॥
त्रिकालज्ञोऽसि राजेन्द्र प्रसादाद्गिरिजापतेः ॥
मत्पूर्वजन्मचरितं वक्तुमर्हसि तत्त्वतः

3.4-2.26

॥ राजोवाच ॥ ॥
त्वं तु पूर्वभवे काचित्कपोती व्योमचारिणी ॥
क्वापि लब्धवती किंचिन्मां सपिंडं यदृच्छया

3.4-2.27

त्वद्गृहीतमथालोक्य गृध्रः कोप्यामिषं बली ।
निरामिषः स्वयं वेगाभिदुद्राव भीषणः

3.4-2.28

ततस्तं वीक्ष्य वित्रस्ता विद्रुतासि वरानने ॥
तेनानुयाता घोरेण मांसपिंडजिघृक्षया

3.4-2.29

दिष्ट्या श्रीगिरिमासाद्य श्रांता तत्र शिवालयम् ॥
प्रदक्षिणं परिक्रम्य ध्वजाग्रे समुपस्थिता

3.4-2.3.3.4.30

अथानुसृत्य सहसा तीक्ष्णतुंडो विहंगमः ॥
त्वां निहत्य निपात्याधो मांसमादाय जग्मिवान्

3.4-2.31

प्रदक्षिणप्रक्रमणाद्देवदेवस्य शूलिनः॥
तस्याग्रे मरणाच्चैव जातासीह नृपांगना

3.4-2.32

॥ राज्ञ्युवाच ॥ ॥
श्रुतं सर्वमशेषेण प्राग्जन्मचरेइतं मया ॥
जातं च महदाश्चर्यं भक्तिश्च मम चेतसि ॥
अथान्यच्छ्रोतुमिच्छामि त्रिकालज्ञ महामते ॥
इदं शरीरमुत्सृज्य यास्यावः कां गतिं पुनः । ।

3.4-2.33

॥ राजोवाच ॥ ॥
अतो भवे जनिष्येऽहं द्वितीये सैंधवो नृपः

3.4-2.34

सृंजयेशसुता त्वं हि मामेव प्रतिपत्स्यसे ॥
तृतीये तु भवे राजा सौराष्ट्रे भविताऽस्म्यहम्

3.4-2.35

कलिंगराजतनया त्वं मे पत्नी भविष्यसि ॥
चतुर्थे तु भविष्यामि भवे गांधारभूमिपः

3.4-2.36

मागधी राजतनया तत्र त्वं मम गेहिनी ॥
पंचमेऽवंतिनाथोऽहं भविष्यामि भवांतरे

3.4-2.37

दाशार्हराजतनया त्वमेव मम वल्लभा॥
अस्माज् जन्मनि षष्ठेऽहमानर्ते भविता नृपः

3.4-2.38

ययातिवंशजा कन्या भूत्वा मामेव यास्यसि ॥
पांड्यराजकुमारोऽहँ सप्तमे भविता भवे

3.4-2.39

तत्र मत्सदृशो नान्यो रूपौदार्यगुणादिभिः ॥
सर्वशास्त्रार्थतत्त्वज्ञो बलवान्दृढविक्रमः

3.4-2.3.3.4.40

सर्वलक्षणसंपन्नः सर्वलोकमनोरमः ॥
पद्मवर्ण इति ख्यातः पद्ममित्रसमद्युतिः

3.4-2.41

भविता त्वं च वैदर्भी रूपेणाप्रतिमा भुवि ॥
नाम्ना वसुमती ख्याता रूपावयवशोभिनी

3.4-2.42

सर्व राजकुमाराणां मनोनयननंदिनी ॥
सा त्वं स्वयंवरे सर्वान्विहाय नृपनंदनान्

3.4-2.43

वरं प्राप्स्यसि मामेव दमयंतीव नैषधम् ॥
सोऽहं जित्वा नृपान्सर्वान्प्राप्य त्वां वरवर्णिनीम्

3.4-2.44

स्वराष्ट्रस्थोऽखिलान्भोगान्भोक्ष्ये वर्षगणान्बहून् ॥
इष्ट्वा च विविधैर्यज्ञैर्वाजिमेधादिभिः शुभैः

3.4-2.45

संतर्प्य पितृदेवर्षीन्दानैश्च द्विजसत्तमान् ॥
संपूज्य देवदेवेशं शंकरं लोकशंकरम्

3.4-2.46

पुत्रे राज्यधुरं न्यस्य गंतास्मि तपसे वनम् ॥
तत्रागस्त्यान्मुनिवराद्ब्रह्मज्ञानमवाप्य च

3.4-2.47

त्वया सह गमिष्यामि शिवस्य परमं पदम् ।
चतुर्दश्यां चतुर्दश्यामेवं संपूज्य शंकरम्

3.4-2.49

सप्तजन्मसु राजस्त्वं भविष्यति वरानने ॥
इत्येतत्सुकृतं लब्धं पूजादर्शनमात्रतः ॥
क्व सारमेयो दुष्टात्मा क्वेदृशी बत सङ्गतिः॥ ४८ ।
॥ सूत उवाच॥
इत्युक्तो निजनाथेन सा राज्ञी शुभलक्षणा

3.4-2.3.3.4.50

परं विस्मयमापन्ना पूजयामास तं मुदा ॥
सोऽपि राजा तया सार्द्धं भुक्त्वा भोगान्यथेप्सितान्

3.4-2.51

जगाम सप्तजन्मांते शंभोस्तत्परमं पदम् ॥
य एतच्छिवपूजाया माहात्म्यं परमाद्भुतम् ॥
शृणुयात्कीर्तयेद्वापि स गच्छेत्परमं पदम्

3.4-2.4

॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे चतुर्दशीमाहात्म्यवर्णनं नाम चतुर्थो ऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc