भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 3.30

3.30.1

॥ व्यास उवाच ॥ ॥
पुरा त्रेतायुगे प्राप्ते वैष्णवांशो रघूद्वहः ॥
सूर्यवंशे समुत्पन्नो रामो राजीवलोचनः

3.30.2

स रामो लक्ष्मणश्चैव काकपक्षधरावुभौ ॥
तातस्य वचनात्तौ तु विश्वामित्रमनुव्रतौ

3.30.3

यज्ञसंरक्षणार्थाय राज्ञा दत्तौ कुमारकौ ॥
धनुःशरधरौ वीरौ पितुर्वचनपालकौ

3.30.4

पथि प्रव्रजतो यावत्ताडकानाम राक्षसी ॥
तावदागम्य पुरतस्तस्थौ वै विघ्नकारणात् ॥

3.30.5

ऋषेरनुज्ञया रामस्ताडकां समघातयत्॥
प्रादिशच्च धनुर्वेदविद्यां रामाय गाधिजः

3.30.6

तस्य पादतलस्पर्शाच्छिला वासवयोगतः ॥
अहल्या गौतमवधूः पुनर्जाता स्वरूपिणी

3.30.7

विश्वामित्रस्य यज्ञे तु संप्रवृत्ते रघूत्तमः ॥
मारीचं च सुबाहुं च जघान परमेषुभिः

3.30.8

ईश्वरस्य धनुर्भग्नं जनकस्य गृहे स्थितम् ॥
रामः पंचदशे वर्षे षड्वर्षां चैव मैथिलीम्

3.30.9

उपयेमे तदा राजन्रम्यां सीतामयोनिजाम् ॥
कृतकृत्यस्तदा जातः सीतां संप्राप्य राघवः

3.30.3.2.30.10

अयोध्यामगमन्मार्गे जामदग्न्यमवेक्ष्य च ॥
संग्रामोऽभूत्तदा राजन्देवानामपि दुःसहः

3.30.11

ततो रामं पराजित्य सीतया गृहमागतः ॥
ततो द्वादशवर्षाणि रेमे रामस्तया सह

3.30.12

एकविंशतिमे वर्षे यौवराज्यप्रदायकम् ॥
राजानमथ कैकेयी वरद्वयमयाच त

3.30.13

तयोरेकेन रामस्तु ससीतः सहलक्ष्मणः ॥
जटाधरः प्रव्रजतां वर्षाणीह चतुर्दश

3.30.14

भरतस्तु द्वितीयेन यौवराज्याधिपोस्तु मे ॥
मंथरावचनान्मूढा वरमेतमयाचत

3.30.15

जानकीलक्ष्मणसखं रामं प्राव्राजयन्नृपः ॥
त्रिरात्रमुदकाहारश्चतुर्थेह्नि फलाशनः

3.30.16

पञ्चमे चित्रकूटे तु रामो वासमकल्पयत् ॥
तदा दशरथः स्वर्गं गतो राम इति ब्रुवन्

3.30.17

ब्रह्मशापं तु सफलं कृत्वा स्वर्गं जगाम किम् ॥
ततो भरत शत्रुघ्नौ चित्रकूटे समागतौ

3.30.18

स्वर्गतं पितरं राजन्रामाय विनिवेद्य च ॥
सांत्वनं भरतस्यास्य कृत्वा निवर्तनं प्रति

3.30.19

ततो भरत शत्रुघ्नौ नंदिग्रामं समागतौ ॥
पादुकापूजनरतौ तत्र राज्यधरावुभौ

3.30.3.2.30.20

अत्रिं दृष्ट्वा महात्मानं दण्डकारण्यमागमत ॥
रक्षोगणवधारम्भे विराधे विनिपातिते

3.30.21

अर्द्धत्रयोदशे वर्षे पंचवट्यामुवास ह ॥
ततो विरूपयामास शूर्पणखां निशाचरीम् ॥
वने विचरतरतस्य जानकीसहितस्य च

3.30.22

आगतो राक्षसो घोरः सीतापहरणाय सः ॥
ततो माघासिताष्टम्यां मुहूर्ते वृन्दसंज्ञके

3.30.23

राघवाभ्यां विना सीतां जहार दश कन्धरः ॥
मारीचस्याश्रमं गत्वा मृगरूपेण तेन च

3.30.24

नीत्वा दूरं राघवं च लक्ष्मणेन समन्वितम् ॥
ततो रामो जघानाशु मारीचं मृगरू पिणम्

3.30.25

पुनः प्राप्याश्रमं रामो विना सीतां ददर्श ह ॥
तत्रैव ह्रियमाणा सा चक्रंद कुररी यथा

3.30.26

रामरामेति मां रक्ष रक्ष मां रक्षसा हृताम्॥
यथा श्येनः क्षुधायुक्तः क्रन्दंतीं वर्तिकां नयेत्

3.30.27

तथा कामवशं प्राप्तो राक्षसो जनकात्मजाम् ॥
नयत्येष जनकजां तच्छ्रुत्वा पक्षिराट् तदा

3.30.28

युयुधे राक्षसेंद्रेण रावणेन हतोऽपतत् ॥
माघासितनवम्यां तु वसंतीं रावणालये

3.30.29

मार्गमाणौ तदा तौ तु भ्रातरौ रामलक्ष्मणौ

3.30.3.2.30.30

जटायुषं तु दृष्ट्वैव ज्ञात्वा राक्षससंहृताम् ॥
सीतां ज्ञात्वा ततः पक्षी संस्कृतस्तेन भक्तितः

3.30.31

अग्रतः प्रययौ रामो लक्ष्मणस्तत्पदानुगः ॥
पंपाभ्याशमनुप्राप्य शबरीमनुगृह्य च

3.30.32

तज्जलं समुपस्पृश्य हनुमद्दर्शनं कृतम् ॥
ततो रामो हनुमता सह सख्यं चकार ह

3.30.33

ततः सुग्रीवमभ्येत्य अहनद्वालिवानरम् ॥
प्रेषिता रामदेवेन हनुमत्प्रमुखाः प्रियाम्

3.30.34

अंगुलीयकमादाय वायुसूनुस्तदागतः ॥
संपातिर्दशमे मासि आचख्यौ वानराय ताम्

3.30.35

ततस्तद्वचनादब्धिं पुप्लुवे शतयोजनम् ॥
हनुमान्निशि तस्यां तु लंकायां परितोऽचिनोत्

3.30.36

तद्रात्रिशेषे सीताया दर्शनं तु हनूमतः ॥
द्वादश्यां शिंशपावृक्षे हनुमान्पर्यवस्थितः

3.30.37

तस्यां निशायां जानक्या विश्वासायाह संकथाम् ॥
अक्षादिभिस्त्रयोदश्यां ततो युद्धमवर्त्तत

3.30.38

ब्रह्मास्त्रेण त्रयोदश्यां बद्धः शक्रजिता कपिः ॥
दारुणानि च रूक्षाणि वाक्यानि राक्षसाधिपम् ॥

3.30.39

अब्रवीद्वायुसूनुस्तं बद्धो ब्रह्मास्त्रसंयुतः ॥
वह्निना पुच्छयुक्तेन लंकाया दहनं कृतम्

3.30.3.2.30.40

पूर्णिमायां महेंद्राद्रौ पुनरागमनं कपेः ॥
मार्गशीर्षप्रतिपदः पंचभिः पथि वासरैः

3.30.41

पुनरागत्य वर्षेह्नि ध्वस्तं मधुवनं किल ॥
सप्तम्यां प्रत्यभिज्ञानदानं सर्वनिवेदनम्

3.30.42

मणिप्रदानं सीतायाः सर्वं रामाय शंसयत् ॥
अष्टम्युत्तरफाल्गुन्यां मुहूर्ते विजयाभिधे

3.30.43

मध्यं प्राप्ते सहस्रांशौ प्रस्थानं राघवस्य च ॥
रामः कृत्वा प्रतिज्ञां हि प्रयातुं दक्षिणां दिशम्

3.30.44

तीर्त्वाहं सागरमपि हनिष्ये राक्षसेश्वरम् ॥
दक्षिणाशां प्रयातस्य सुग्रीवोऽथाभव त्सखा

3.30.45

वासरैः सप्तभिः सिंधोस्तीरे सैन्यनिवेशनम् ॥
पौषशुक्लप्रतिपदस्तृतीयां यावदंबुधौ ॥
उपस्थानं ससैन्यस्य राघवस्य बभूव ह

3.30.46

विभीषणश्चतुर्थ्यां तु रामेण सह संगतः ॥
समुद्रतरणार्थाय पंचम्यां मंत्र उद्यतेः

3.30.47

प्रायोपवेशनं चक्रे रामो दिनचतुष्टयम् ॥
समुद्राद्वरलाभश्च सहोपायप्रदर्शनः

3.30.48

सेतोर्दशम्यामारंभस्त्रयोदश्यां समापनम् ॥
चतुर्दश्यां सुवेलाद्रौ रामः सेनां न्यवे शयत्

3.30.49

पूर्णिमास्या द्वितीयायां त्रिदिनैः सैन्यतारणम् ॥
तीर्त्वा तोयनिधिं रामः शूरवानरसैन्यवान्

3.30.3.2.30.50

रुरोध च पुरीं लंकां सीतार्थं शुभलक्षणः ॥
तृतीयादिदशम्यंतं निवेशश्च दिनाष्टकः

3.30.51

शुकसारणयोस्तत्र प्राप्तिरेकादशीदिने ॥
पौषासिते च द्वादश्यां सैन्यसंख्यानमेव च

3.30.52

शार्दूलेन कपींद्राणां सारासारोपवर्णनम् ॥
त्रयोदश्याद्यमांते च लंकायां दिवसैस्त्रिभिः

3.30.53

रावणः सैन्यसं ख्यानं रणोत्साहं तदाऽकरोत् ॥
प्रययावंगदो दौत्ये माघशुक्लाद्यवासरे

3.30.54

सीतायाश्च तदा भर्तुर्मायामूर्धादिदर्शनम् ॥
माघशुक्लद्वितीया यां दिनैः सप्तभिरष्टमीम्

3.30.55

रक्षसां वानराणां च युद्धमासीच्च संकुलम् ॥
माघशुक्लनवम्यां तु रात्राविंद्रजिता रणे

3.30.56

रामलक्ष्मणयोर्ना गपाशबंधः कृतः किल ॥
आकुलेषु कपीशेषु हताशेषु च सर्वशः

3.30.57

वायूपदेशाद्गरुडं सस्मार राघवस्तदा ॥
नागपाशविमोक्षार्थं दशम्यां गरु डोऽभ्यगात्

3.30.58

अवहारो माघशुक्लैस्यैकादश्यां दिनद्वयम् ॥
द्वादश्यामांजनेयेन धूम्राक्षस्य वधः कृतः

3.30.59

त्रयोदश्यां तु तेनैव निहतोऽकंपनो रणे ॥
मायासीतां दर्शयित्वा रामाय दशकंधरः

3.30.3.2.30.60

त्रासयामास च तदा सर्वान्सैन्यगतानपि ॥
माघशुक्लचतुर्द्दश्यां यावत्कृष्णादिवासरम्

3.30.61

त्रिदिनेन प्रहस्तस्य नीलेन विहितो वधः ॥
माघकृष्णद्वितीयायाश्चतुर्थ्यंतं त्रिभिर्दिनैः

3.30.62

रामेण तुमुले युद्धे रावणो द्रावितो रणात् ॥
पञ्चम्या अष्टमी यावद्रावणेन प्रबोधितः

3.30.63

कुंभकर्णस्तदा चक्रेऽभ्यवहारं चतुर्दिनम् ॥
कुम्भकर्णोकरोद्युद्धं नवम्यादिचतुर्दिनैः

3.30.64

रामेण निहतो युद्धे बहुवानरभक्षकः ॥
अमावास्यादिने शोकाऽभ्यवहारो बभूव ह

3.30.65

फाल्गुनप्रतिपदादौ चतुर्थ्यंतैश्चतुर्दिनैः ॥
नरांतकप्रभृतयो निहताः पञ्च राक्षसाः

3.30.66

पंचम्याः सप्तमीं यावदतिकायवधस्त्र्यहात् ॥
अष्टम्या द्वादशीं यावन्निहतो दिनपंचकात्

3.30.67

निकुम्भकुम्भौ द्वावेतौ मकराक्षश्चतुर्दिनैः ॥
फाल्गुनासितद्वितीयाया दिने वै शक्रजिज्जितः

3.30.68

तृतीयादौ सप्तम्यंतदिनपञ्चकमेव च ॥
ओषध्यानयवैयग्र्यादवहारो बभूव ह

3.30.69

अष्टम्यां रावणो मायामैथिलीं हतवान्कुधीः॥
शोकावेगात्तदा रामश्चक्रे सैन्यावधारणम्

3.30.3.2.30.70

ततस्त्रयोदशीं यावद्दिनैः पंचभिरिंद्रजित् ॥
लक्ष्मणेन हतो युद्धे विख्यातबलपौरुषः

3.30.71

चतुर्द्दश्यां दशग्रीवो दीक्षामापावहारतः ॥
अमावास्यादिने प्रागाद्युद्धाय दशकंधरः

3.30.72

चैत्रशुक्लप्रतिपदः पंचमीदिनपंचके ॥
रावणो युध्यमानो ऽभूत्प्रचुरो रक्षसां वधः

3.30.73

चैत्रशुक्लाष्टमीं यावत्स्यंदनाश्वादिसूदनम् ॥
चैत्रशुक्लनवम्यां तु सौमित्रेः शक्तिभेदने

3.30.74

कोपाविष्टेन रामेण द्रावितो दशकंधरः ॥
विभीषणोपदेशेन हनुमद्युद्धमेव च

3.30.75

द्रोणाद्रेरोषधीं नेतुं लक्ष्मणार्थमुपागतः ॥
विशल्यां तु समादाय लक्ष्मणं तामपाययत्

3.30.76

दशम्यामवहारोऽभूद्रात्रौ युद्धं तु रक्षसाम् ॥
एकादश्यां तु रामाय रथो मातलिसारथिः

3.30.77

प्राप्तो युद्धाय द्वादश्यां यावत्कृष्णां चतुर्दशीम् ॥
अष्टादशदिने रामो रावणं द्वैरथेऽवधीत्

3.30.78

संस्कारा रावणादीनाममावा स्यादिनेऽभवन् ॥
संग्रामे तुमुले जाते रामो जयमवाप्तवान्

3.30.79

माघशुक्लद्वितीयादिचैत्रकृष्णचतुर्द्दशीम् ॥
सप्ताशीतिदिनान्येवं मध्ये पंवदशा हकम्

3.30.3.2.30.80

युद्धावहारः संग्रामो द्वासप्ततिदिनान्यभूत् ॥
वैशाखादि तिथौ राम उवास रणभूमिषु ॥
अभिषिक्तो द्वितीयायां लंकाराज्ये विभी षणः

3.30.81

सीताशुद्धिस्तृतीयायां देवेभ्यो वरलंभनम् ॥
दशरथस्यागमनं तत्र चैवानुमोदनम्

3.30.82

हत्वा त्वरेण लंकेशं लक्ष्मणस्याग्रजो विभुः॥।
गृहीत्वा जानकीं पुण्यां दुःखितां राक्षसेन तु

3.30.83

आदाय परया प्रीत्या जानकीं स न्यवर्तत ॥
वैशाखस्य चतुर्थ्यां तु रामः पुष्पकमा श्रितः

3.30.84

विहायसा निवृत्तस्तु भूयोऽयोध्यां पुरीं प्रति ॥
पूर्णे चतुर्दशे वर्षे पंचम्यां माधवस्य च

3.30.85

भारद्वाजाश्रमे रामः सगणः समु पाविशत् ॥
नंदिग्रामे तु षष्ठ्यां स पुष्पकेण समागतः

3.30.85

सप्तम्यामभिषिक्तोऽसौ भूयोऽयोध्यायां रघूद्वहः ॥
दशाहाधिकमासांश्च चतुर्दश हि मैथिली

3.30.87

उवास रामरहिता रावणस्य निवेशने ॥
द्वाचत्वारिंशके वर्षे रामो राज्यमकारयत्

3.30.88

सीतायास्तु त्रयस्त्रिंशद्वर्षाणि तु तदा भवन् ॥
स चतुर्दशवर्षांते प्रविष्टः स्वां पुरीं प्रभुः

3.30.89

अयोध्यां नाम मुदितो रामो रावणदर्पहा ॥
भ्रातृभिः सहितस्तत्र रामो राज्यमकार यत्

3.30.3.2.30.90

दशवर्षसहस्राणि दशवर्षशतानि च ॥
रामो राज्यं पालयित्वा जगाम त्रिदिवालयम्

3.30.91

रामराज्ये तदा लोका हर्षनिर्भरमा नसाः ॥
बभूवुर्धनधान्याढ्याः पुत्रपौत्रयुता नराः

3.30.92

कामवर्षी च पर्जन्यः सस्यानि गुणवंति च ॥
गावस्तु घटदोहिन्यः पादपाश्च सदा फलाः

3.30.93

नाधयो व्याधयश्चैव रामराज्ये नराधिप ॥
नार्यः पतिव्रताश्चासन्पितृभक्तिपरा नराः

3.30.94

द्विजा वेदपरा नित्यं क्षत्रिया द्विज सेविनः ॥
कुर्वते वैश्यवर्णाश्च भक्तिं द्विजगवां सदा

3.30.95

न योनिसंकरश्चासीत्तत्र नाचारसंकरः ॥
न वंध्या दुर्भगा नारी काकवंध्या मृत प्रजा

3.30.96

विधवा नैव काप्यासीत्सभर्तृका न लप्यते ॥
नावज्ञां कुर्वते केपि मातापित्रोर्गुरोस्तथा

3.30.97

न च वाक्यं हि वृद्धानामुल्लं घयति पुण्यकृत् ॥
न भूमिहरणं तत्र परनारीपराङ्मुखाः

3.30.98

नापवादपरो लोको न दरिद्रो न रोगभाक् ॥
न स्तेयो द्यूतकारी च मैरेयी पापिनो नहि

3.30.99

न हेमहारी ब्रह्मघ्नो न चैव गुरुतल्पगः ॥
न स्त्रीघ्नो न च बालघ्नो न चैवानृतभाषणः

3.30.3.2.30.100

न वृत्तिलोपकश्चासीत्कूट साक्षी न चैव हि ॥
न शठो न कृतघ्नश्च मलिनो नैव दृश्यते

3.30.101

सदा सर्वत्र पूज्यंते ब्राह्मणा वेदपारगाः ॥
नावैष्णवोऽव्रती राजन्राम राज्येऽतिविश्रुते

3.30.2

राज्यं प्रकुर्वतस्तस्य पुरोधा वदतां वरः ॥
वसिष्ठो मुनिभिः सार्द्धं कृत्वा तीर्थान्यनेकशः

3.30.3

आजगाम ब्रह्मपुत्रो महाभागस्तपोनिधिः ॥
रामस्तं पूजयामास मुनिभिः सहितं गुरुम्

3.30.4

अभ्युत्थानार्घपाद्यैश्च मधुपर्कादिपूजया ॥
प्रपच्छ कुशलं रामं वसिष्ठो मुनिपुंगवः

3.30.5

राज्ये चाश्वे गजे कोशे देशे सद्भ्रातृभृत्ययोः ॥
कुशलं वर्त्तते राम इति पृष्टे मुनेस्तदा

3.30.6

॥ राम उवाच ॥ ॥
सर्वत्र कुशलं मेऽद्य प्रसादाद्भवतः सदा ॥
पप्रच्छ कुशलं रामो वसिष्ठं मुनिपुंगवम्

3.30.7

सर्वतः कुशली त्वं हि भार्यापुत्रसमन्वितः ॥
स सर्वं कथयामास यथा तीर्थान्यशेषतः

3.30.8

सेवितानि धरापृष्ठे क्षेत्राण्यायतनानि च ॥
रामाय कथयामास सर्वत्र कुशलं तदा

3.30.109

ततः स विस्मयाविष्टो रामो राजीवलोचनः ॥
पप्रच्छ तीर्थमाहात्म्यं यत्तीर्थेषूत्तमोत्तमम्

3.30.30

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये रामचरित्रवर्णनंनाम त्रिंशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc