भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 3.26-2

3.26-2.1

॥ श्रीसूत उवाच ॥ ॥
विधायाभिषवं मर्त्याः शंखतीर्थे द्विजोत्तमाः ॥
यमुनां चैव गंगां च गयां चापि क्रमाद्व्रजेत्

3.26-2.2

यमुनाख्यं महातीर्थं गंगातीर्थमनुत्तमम् ॥
गयातीर्थं च मर्त्यानां महापातकनाशनम्

3.26-2.3

एतत्तीर्थत्रयं पुण्यं सर्वलोकेषु विश्रुतम् ॥
सर्वविघ्नप्रशमनं सर्वरोगनिबर्हणम्

3.26-2.4

एतद्धि तीर्थत्रितयं सकलाज्ञाननाशनम् ॥
अविद्यायां विनष्टायां तथा ज्ञानप्रदं नृणाम्

3.26-2.5

जानश्रुतिर्महाराज एषु तीर्थेषु वै पुरा ॥
स्नात्वा रैक्वाद्द्विजश्रेष्ठात्प्राप्तवाञ्ज्ञानमुत्तमम्

3.26-2.6

॥ ऋषय ऊचुः ॥ ॥
सूत सर्वार्थतत्त्वज्ञ व्यासशिष्य महामते ॥
यमुना चैव गंगा च गया चैवेति विश्रुतम्

3.26-2.7

एतत्तीर्थत्रयं कस्मादागतं गंधमादने ॥
जानश्रुतेश्च राजर्षेः स्नानात्तीर्थत्रयेऽपि च ॥
ज्ञानावाप्तिः कथं रैक्वादस्माकं सूत तद्वद

3.26-2.8

॥ श्रीसूत उवाच ॥ ॥
रैक्वनामा महर्षिस्तु पुरा वै गन्धमादने

3.26-2.9

तपस्सुदुश्चरं कुर्वन्न्यवसत्तपसां निधिः ॥
दीर्घकालं तपः कुर्वन्स वै रैक्वो महामुनिः

3.26-2.3.1.26.10

तपोबलेन महता दीर्घमायुरवाप्तवान् ॥
जन्मना पंगुरेवासीद्रैक्वनामा महामुनिः

3.26-2.11

पंगुत्वादसमर्थोऽभूद्गंतुं तीर्थान्यसौ मुनिः ॥
संति यानि तु तीर्थानि गन्धमादनपर्वते

3.26-2.12

तानि गच्छति सामीप्याच्छकटेनैव संचरन् ॥
स यद्रैक्वो मुनिवरो युग्वेन सह वर्तते

3.26-2.13

तपस्वी वैदिकैर्लोके सयुग्वैत्यभिधीयते ॥
युग्वेति शकटं प्रोक्तं स तेन सह वर्तते

3.26-2.14

स खल्वेवं मुनिश्रेष्ठः सयुग्वानाम वै मुनिः ॥
पूर्णज्ञानस्तपस्तेपे गन्धमादनपर्वते

3.26-2.15

ग्रीष्मे पञ्चाग्निमध्यस्थः सोऽतप्यत महत्तपः ॥
वर्षायां कण्ठदघ्नेषु जलेषु समवर्तत

3.26-2.16

तपसा शोषिते गात्रे पामा तस्य व्यजायत ॥
कण्डूयत स पामानं दिवारात्रं मुनीश्वरः

3.26-2.17

कण्डूयमान एवायं पामानं न तपोऽत्यजत् ॥
अजायत मनस्त्वेवं तस्य सयुग्वनो मुनेः

3.26-2.18

यमुनायां च गंगायां गयायां चाधुनैव हि ॥
अस्मिंस्तीर्थे त्रये पुण्ये स्नातव्यं हि मया त्विति

3.26-2.19

एवं विचिंत्य स मुनिरन्यां चिंतामथाकरोत् ॥
अहं हि जन्मना पंगुरतः स्नानं हि दुर्लभम्

3.26-2.3.1.26.20

अतिदूरं मया गन्तुं शकटेन न शक्यते ॥
किं करोम्यधुनेत्येवं स वितर्क्य महामतिः

3.26-2.21

तीर्थत्रयेषु स्नानार्थं कर्तव्यं निश्चिकाय वै ॥
अप्रसह्यमनाधृष्यं विद्यते मे तपोबलम्

3.26-2.22

तेनैवावाहयिष्यामि तद्धि तीर्थत्रयं त्विह ॥
इति निश्चित्य मनसा प्राङ्मुखो नियतेंद्रियः

3.26-2.23

त्रिराचम्य च सयुग्वान्दध्यौ क्षणमतंद्रितः ॥
तस्य मंत्रप्रभावेन यमुना सा महानदी

3.26-2.24

गंगा च जह्नुतनया गया सा पापनाशिनी ॥
भूमिं निर्भिद्य तिस्रोपि पातालात्सहसोत्थिताः

3.26-2.25

मानुषं रूपमास्थाय सयुग्वानमुपेत्य च ॥
ऊचुः परमसंहृष्टा हर्षयंत्यश्च तं मुनिम्

3.26-2.26

सयुग्वन्रैक्व भद्रं ते ध्यानादस्मादुपारम ॥
त्वन्मंत्रेण समाकृष्टा वयमत्र समागताः

3.26-2.27

कि कर्तव्यं तवास्माभिस्तद्वदस्व मुनीश्वर ॥
इति तासां वचः श्रुत्वा सयुग्वान्हि महामुनिः

3.26-2.28

ध्यानादुपारमत्तूर्णं ताश्चापश्यत्पुरः स्थिताः ॥
स ताः संपूज्य विधिवद्रैक्वो वाचमभाषत

3.26-2.29

यमुने देवि हे गंगे हे गये पापनाशिनि ॥
सन्निधानं कुरुध्वं मे गन्धमादनपर्वते

3.26-2.3.1.26.30

यत्र भूमिं विनिर्भिद्य भवत्य इह निर्गताः ॥
तानि पुण्यानि तीर्थानि भवेयुर्वोऽभिधानतः

3.26-2.31

सहसांतरधीयंत तथास्त्वित्येव तत्र ताः ॥
तदाप्रभृति तीर्थानि तानि त्रीण्यपि भूतले

3.26-2.32

तेनतेनाभिधानेन गीयन्ते सर्वदा जनैः ॥
यत्र भूमिं विनिर्भिद्य यमुना निर्गता तदा

3.26-2.33

यमुनातीर्थमिति वै तज्जनैरभिधीयते ॥
यतो वै पृथिवीरंध्राज्जाह्नवी सहसोत्थिता

3.26-2.34

गंगातीर्थमिति ख्यातं तल्लोके पापनाशनम् ॥
गया हि मानुषं रूपं यत आस्थाय निर्ययौ

3.26-2.35

तदेव भूमिविवरं गयातीर्थं प्रचक्षते ॥
एवमेतन्महापुण्यं तीर्थत्रयमनुत्तमम्

3.26-2.36

रैक्वमंत्रप्रभावेण पृथिव्याः सहसोत्थितम् ॥
अत्र तीर्थत्रये स्नानं ये कुर्वंति नरोत्तमाः

3.26-2.37

तेषामज्ञाननाशः स्याज्ज्ञानमप्युदयं लभेत् ॥
स्वमंत्रेण समाकृष्टे तत्र तीर्थत्रये मुनिः

3.26-2.38

स्नानं समाचरन्नित्यं स कालानत्यवाहयत् ॥
एतस्मिन्नेव काले तु राजा जानश्रुतिर्महान्

3.26-2.39

पुत्रसंज्ञस्य राजर्षेः पौत्रो धर्मैकतत्परः ॥
देयमन्नादि स तदा ह्यर्थिभ्यः श्रद्धयैव यत्

3.26-2.3.1.26.40

तस्मादेनं नजालोके श्रद्धादेयं प्रचक्षते ॥
यतो बहुतरं वाक्यमन्नाद्यस्य महीपतेः

3.26-2.41

अर्थिनां क्षुधितानां तु तृप्त्यर्थं वर्तते गृहे ॥
अतोयमर्थिभिः सर्वैर्बहुवाक्य इतीर्यते

3.26-2.42

स वै पौत्रायणो राजा जानश्रुतसुतो बली ॥
प्रियातिथिर्बभूवासौ बहुदायी तथाऽभवत्

3.26-2.43

नगरेषु च राष्ट्रेषु ग्रामेषु च वनेषु च ॥
चतुष्पथेषु सर्वेषु महामार्गेषु सर्वशः

3.26-2.44

बह्वन्नपान संयुक्तं सूपशाकादिसंयुतम् ॥
आतिथ्यं कल्पयामास तृप्तयेऽर्थिजनस्य वै

3.26-2.45

अन्नपानादिकं सर्वमुपयुड्ध्वमिहार्थिनः ॥
इत्यसौ घोषयामास तत्र तत्र जनास्पदे

3.26-2.46

तस्य प्रियातिथेरेव नृपस्य बहुदायिनः ॥
अर्थिभ्यो दानशौंडस्य गुणाः सर्वत्र विश्रुताः

3.26-2.47

अथ पौत्रायणस्यास्य गुण ग्रामेण वर्ततः ॥
देवर्षयो महाभागास्तस्यानुग्रहकांक्षिणः

3.26-2.49

हंसरूपं समास्थाय निदाघसमये निशि ॥
रमणीयां विधायाशु श्रेणीमाकाशमागतः

3.26-2.49

सौधवातायनस्थस्य तस्योपरि महीपतेः ॥
उड्डीयोड्डीय वेगेन तरसा जग्मुरुच्चकैः

3.26-2.3.1.26.50

तरसा पततां तेषां हंसानां पृष्ठतो व्रजन् ॥
एको हंसस्तु संबोध्य हंसमग्रेसरं तदा

3.26-2.51

सोपहासमिदं वाक्यं प्राह शृण्वति राजनि ॥
भोभो भल्लाक्ष भल्लाक्ष पुरो गच्छन्मरालक

3.26-2.52

सौधमध्ये पुरस्ताद्वै जानश्रुतसुतो नृपः ॥
वर्तते पूजनीयोऽयं न पश्यसि किमंधवत्

3.26-2.53

यस्य तेजो दुराधर्षमाब्रह्म भवनादिदम् ॥
अनंतादित्यसंकाशं ज्वलते पुरतो भृशम्

3.26-2.54

तमतिक्रम्य राजर्षिं मा गास्त्वमुपरि द्रुतम् ॥
यदि गच्छसि तत्तेजस्सांप्रतं त्वां प्रधक्ष्यति

3.26-2.55

इत्युक्तवंतं तं हंसमग्रतः प्रत्यभाषत ॥
अहो भवानभिज्ञोऽसि श्लाघनीयोऽसि सूरिभिः

3.26-2.56

अश्लाघनीयं कितवं यत्त्वमेनं प्रशंससे ॥
प्रशंससे किमर्थं त्वमल्पं संतमिमं जनम्

3.26-2.57

भस्रावत्पशुवच्चैव केवलं श्वासधारिणम् ॥
न ह्ययं वेत्ति धर्माणां रहस्यं पृथिवी पतिः

3.26-2.58

तत्त्वज्ञानी यथा रैक्वः सयुग्वान्ब्राह्मणोत्तमः ॥
रैक्वस्य हि महज्ज्योतीरहस्यं दैवतैरपि

3.26-2.59

न ह्यस्य प्राणमात्रस्य तेजस्तादृशमस्ति वै ॥
रैक्वस्य पुण्यराशीनामियत्ता नैव विद्यते

3.26-2.3.1.26.60

गण्यते पांसवो भूमेर्गण्यंते दिवि तारकाः ॥
रैक्वपुण्यमहामेरुसमूहो नैव गण्यते ॥

3.26-2.61

किं च तिष्ठंत्विमे धर्मा नश्वरास्तस्य वै मुनेः ॥
ब्रह्मज्ञानमबाध्यं यत्तेन स श्लाघ्यते मुनिः

3.26-2.062

जानश्रुतेस्तु तादृक्षो धर्म एव न विद्यते ॥
दुर्लभं यत्तु योगीन्द्रैः कुतस्तज्ज्ञानवैभवम्

3.26-2.63

परित्यज्य दुरात्मानं तद्वराकमिमं जनम् ॥
स एव रैक्वः सयुग्वाञ्छ्लाघ्यतां भवता मुनिः

3.26-2.64

जन्मना पंगुरपि यः स्वस्य स्नानचिकीर्षया ॥
गंगां च यमुनां चापि गयामपि मुनीश्वरः

3.26-2.65

आह्वयामास मन्त्रेण निजाश्रमसमीपतः ॥
तस्य ब्रह्मविदो रैक्वमहर्षेर्धर्मसंचये

3.26-2.66

अंतर्भवंति धर्मौघास्त्रैलोक्योदरवर्तिनाम् ॥
रैक्वस्य धर्मकक्षा तु न हि त्रैलोक्यवर्तिनाम्

3.26-2.67

प्राणिनां धर्मकक्षायामन्तर्भवति कर्हिचित ॥
एवमग्रेसरे हंसे कथित्वोपरते सति

3.26-2.68

हंसरूपा मुनींद्रास्ते ब्रह्मलोकं ययुः पुनः ॥
अथ पौत्रायणो राजा जानश्रुतिररिंदमः

3.26-2.69

रैक्वं चोत्कर्षकाष्ठायां निशम्य परमावधिम् ॥
विषण्णोऽभवदत्यर्थं वराकोऽक्षजितो यथा

3.26-2.3.1.26.70

चिंतयामास स नृपः पौनःपुन्येन निःश्वसन् ॥
हंस उत्कर्षयन्रैक्वं निकृष्टं मामिहाब्रवीत्

3.26-2.71

अहो रैक्वस्य माहात्म्यं यं प्रशंसंति पक्षिणः ॥
तत्परित्यज्य संसारं सर्वं राज्यमिहाधुना

3.26-2.72

सयुग्वानं महात्मानं तमेव शरणं व्रजे ॥
कृपानिधिः स वै रैक्वः शरणं मामुपागतम्

3.26-2.73

प्रतिगृह्यात्मविज्ञानं मह्यं समुपदेक्ष्यति ॥
इत्यसौ चिंतयन्नेव कथंकथमपि द्विजाः

3.26-2.74

जाग्रन्नेवायमुद्वेलां रात्रिं तामत्यवाहयत् ॥
निशावसाने संप्राप्ते बंदिवृन्दप्रवर्तितम्

3.26-2.75

अशृणोन्मंगलरवं तूर्यघोषसमन्वितम् ॥
तदाकर्ण्य महाराजस्तदा तल्पस्थ एव सन्

3.26-2.76

सारथिं शीघ्रमाहूय बभाषे सादरं वचः ॥
सारथे सत्वरं गत्वा रथमारुह्य वेगवत्

3.26-2.77

आश्रमेषु महर्षीणां पुण्येषु विपिनेषु च ॥
विविक्तेषु प्रदेशेषु सतामावासभूमिषु

3.26-2.78

तीर्थानां च नदीनां च कूलेषु पुलिनेषु च ॥
अन्येषु च प्रदेशेषु यत्र संति मुनीश्वराः ॥

3.26-2.79

तेषु सर्वेषु योगींद्रं पंगुं शकटसंस्थितम् ॥
रैक्वाभिधानं सर्वेषां धर्माणामेकसंश्रयम्

3.26-2.3.1.26.80

ब्रह्मज्ञानैकनिलयं सयुग्वानं गवेषय ॥
अन्विष्य तूर्णं मत्प्रीत्यै पुनरागच्छ सारथे

3.26-2.81

स तथेति विनिर्गत्य वेगवद्रथसंस्थितः ॥
सर्वत्रान्वेषयामास रैक्वं ब्रह्मविदं मुनिम्

3.26-2.82

गुहासु पर्वतानां च मुनीनामाश्रमेषु च ॥
संचचार महीं कृत्स्नां तत्र तत्र गवेषयन्

3.26-2.83

अन्विष्य विविधान्देशान्सारथिस्त्वरया सह ॥
क्रमान्महर्षिसंबाधं गंधमादनमन्वगात्

3.26-2.84

मार्गमाणः स तत्रापि तं ददर्श मुनीश्वरम् ॥
कंडूयमानं पामानं शकटीयस्थलस्थितम्

3.26-2.85

अद्वैतनिष्कलं ब्रह्म चिंतयंतं निरन्तरम् ॥
तं दृष्ट्वा सारथिस्तत्र सयुग्वानं महामुनिम्

3.26-2.86

रैक्वोऽयमिति संचिंत्य तमासाद्य प्रणम्य च ॥
विनयान्मुनिमप्राक्षीदुपविश्य तदन्तिके

3.26-2.87

सयुग्वान्रैक्वनामा च ब्रह्मन्किं वै भवानिति ॥
तस्य वाक्यं समाकर्ण्य स मुनिः प्रत्यभाषत

3.26-2.88

अहमेव सयुग्वान्वै रैक्वनामेति वै तदा ॥
इत्याकर्ण्य मुने र्वाक्यमिंगितैर्बहुभिस्तथा

3.26-2.89

कुटुम्बभरणार्थाय धनेच्छामवगम्य च ॥
सर्वं न्यवेदयद्राज्ञे निवृत्तो गंधमादनात्

3.26-2.3.1.26.90

जानश्रुतिर्निशम्याथ सारथेर्वाक्यमादरात् ॥
षट्शतानि गवां चापि निष्कभारं धनस्य च

3.26-2.91

रथं चाश्वतरीयुक्तं समादाय त्वरान्वितः ॥
पौत्रायणः स राजर्षिस्तं रैक्वं प्रतिचक्रमे

3.26-2.92

गत्वा च वचनं प्राह तं रैक्वं स महीपतिः ॥
भगवन्रैक्व सयुग्वन्मद्दत्तं प्रतिगृह्यताम्

3.26-2.93

षट्शतानि गवां चापि निष्कभारं धनस्य च ॥
रथं चाश्वतरीयुक्तं प्रतिगृह्णीष्व मामकम्

3.26-2.94

गृहीत्वा सवमेतत्तु भो ब्रह्मन्ननुशाधि माम् ॥
अद्वैतब्रह्मविज्ञानं मह्यं समुपदिश्यताम्

3.26-2.95

इति तस्य वचः श्रुत्वा सस्पृहं च ससंभ्रम् ॥
रैक्वः प्रत्याह सयुग्वाञ्जानश्रुतिमरिंदमम् ॥

3.26-2.96

॥ रैक्व उवाच ॥ ॥
एता गावस्तवैवास्तु निष्कभारस्तथा रथः ॥
किमल्पेन ममानेन बहुकल्पेषु जीवतः

3.26-2.97

न मे कुटुंब निर्वाहे पर्याप्तमिदमंजसा ॥
एवं शतगुणं चापि यदि दत्तं त्वया मम

3.26-2.98

नालं तदपि राजेंद्र कुटुंबभरणाय वै ॥
इति रैक्ववचः श्रुत्वा जानश्रुतिरभाषत

3.26-2.99

॥ जानश्रुतिरुवाच ॥ ॥
त्वयोपदिश्यमानस्य ब्रह्मज्ञानस्य वै मुने ॥
न हि मूल्यमिदं ब्रह्मन्गोधनं रथ एव च ॥

3.26-2.3.1.26.100

प्रतिगृह्णीष्व वा मा वा ममैतत्तु गवादिकम् ॥
निष्कलाद्वैतविज्ञानं ब्रह्मन्नुपदिशस्व मे ॥
तदाकर्ण्य वचस्तस्य सयुग्वान्वाक्यमब्रवीत्

3.26-2.101

॥ रैक्व उवाच ॥ ॥
निर्वेदो यस्य संसारे तथा वै पुण्यपापयोः

3.26-2.2

प्रारब्धयोर्विनाशश्च स वै ज्ञानोपदेशभाक् ॥
तव यद्यपि संसारे निर्वेदः समजायत

3.26-2.3

तथापि पुण्यपापानां न हि नाशो व्याजयत ॥
पुण्यपापौघसंघाश्च पुनर्जन्मनि हेतवः

3.26-2.4

न हि भोगं विना तेषां नाशो भवति भूपते ॥
तन्नाशोपायमद्याहं तथापि प्रब्रवीमि ते

3.26-2.5

यतो मां शरणं प्राप्तस्तच्छृणुष्व समाहितः ॥
अत्र तीर्थत्रयं पुण्यं वर्ततेऽभीष्टदायकम्

3.26-2.6

मुमुक्षूणां हि सर्वेषां सर्वप्रारब्धनाशनम् ॥
एतद्धि यमुनातीर्थं गंगातीर्थं तथैव च

3.26-2.7

गयातीर्थमिदं चापि तदेषु स्नाहि मा चिरम् ॥
सर्वप्रारब्धनाशः स्यात्तदा नैवात्र संशयः

3.26-2.8

ततस्ते शुद्धचित्तस्य ज्ञानं चैव दिशाम्यहम् ॥
इत्युक्ते रैक्वमुनिना हर्षसंफुल्ललोचनः

3.26-2.9

ससंभ्रममुपागम्य सस्नौ तीर्थत्रयेऽपि सः ॥
तत्तीर्थस्नानमात्रेण शुद्धचित्तोऽभवन्नृपः

3.26-2.3.1.26.110

उपातिष्ठत राजासौ सयुग्वानं गुरुं पुनः ॥
सयुग्वा स च रैक्वोऽपि मुनींद्रैरपि दुर्लभम्

3.26-2.11

तज्जानश्रुतये ज्ञानं कृपया समुपादिशत् ॥
तेनोपदिष्टमात्रे तु विज्ञाने ब्रह्मरूपिणि

3.26-2.12

अबाधितानुभववानभवद्राजसत्तमः ॥
ब्रह्मरूपं गतस्यास्य प्रसादाद्रैक्वयोगिनः

3.26-2.13

घटकुड्यकुसूलात्मा न प्रपंचस्समस्फुरत् ॥
निर्भिद्य सहसा मायामभूद्ब्रह्मैव केवलम्

3.26-2.14

इत्थं तीर्थत्रये स्नानाज्जानश्रुतिरहो नृपः ॥
दुर्लभं योगिवृंदैश्च ब्रह्मभूयत्वमाप्तवान्

3.26-2.15

एवं वः कथितं विप्रास्तत्तीर्थत्रयवैभवम् ॥
यस्त्विमं पठतेऽध्यायं तीर्थत्रितयवैभवम्

3.26-2.116

निर्भिद्याज्ञानतिमिरं ब्रह्मभूयाय कल्पते

3.26-2.26

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये यमुनागंगागयातीर्थप्रशंसायां जानश्रुति ज्ञानावाप्तिवर्णनंनाम षड्विंशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc