भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 3.24-2

3.24-2.1

॥ श्रीसूत उवाच ॥ ॥
चक्रतीर्थे नरः स्नात्वा शिवतीर्थं ततो व्रजेत् ॥
यत्र हि स्नानमात्रेण महापातककोटयः

3.24-2.2

तत्संसर्गाश्च नश्यंति तत्क्षणादेव तापसाः ॥
अत्र स्नात्वा ब्रह्महत्यां मुमुचे कालभैरवः

3.24-2.3

॥ ऋषय ऊचुः ॥ ॥
कालभैरवरुद्रस्य ब्रह्महत्या महामुने ॥
किमर्थमभवत्सूत तन्नो वक्तुमिहार्हसि

3.24-2.4

॥ श्रीसूत उवाच ॥ ॥
वक्ष्यामि मुनयः सर्वे पुरावृत्तं विमुक्तिदम् ॥
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते

3.24-2.5

प्रजापतेश्च विष्णोश्च बभूव कलहः पुरा ॥
किंचित्कारणमुद्दिश्य समस्तजनसन्निधौ

3.24-2.6

अहमेव जगत्कर्ता नान्यः कर्तास्ति कश्चन ॥
अहं सर्वप्रपंचानां निग्रहानुग्रहप्रदः

3.24-2.7

मत्तो नास्त्यधिकः कश्चिन्मत्समो वा सुरेष्वपि ॥
एवं स मनुते ब्रह्मा देवानां सन्निधौ पुरा

3.24-2.8

तदा नारायणः प्राह प्रहसन्द्विजपुंगवाः ॥
किमर्थमेवं ब्रूषे त्वमहंकारेण सांप्रतम्

3.24-2.9

वाक्यमेवंविधं भूयो वक्तुं नार्हसि वै विधे ॥
अहमेव जगत्कर्ता यज्ञो नारायणो विभुः

3.24-2.3.1.24.10

मां विनास्य प्रपञ्चस्य जीवनं दुर्लभं भवेत् ॥
मत्प्रसादाज्जगत्सृष्टं त्वया स्थावरजंगमम्

3.24-2.12

विवादं कुर्वतोरेवं ब्रह्मविष्ण्वोर्जयैषिणोः ॥
देवानां पुरतस्तत्र वेदाश्चत्वार आगताः ॥
प्रोचुर्वाक्यमिदं तथ्यं परमार्थप्रकाशकम् ॥१ १॥
॥ वेदा ऊचुः ॥ ॥
त्वं विष्णो न जगत्कर्ता न त्वं ब्रह्मन्प्रजापते

3.24-2.13

किं त्वीश्वरो जगत्कर्ता परात्परतरो विभुः ॥
तन्मायाशक्तिसंक्लृप्तमिदं स्थावरजंगमम्

3.24-2.14

सर्वदेवाभिवंद्यो हि सांबः सत्यादिलक्षणः ॥
स्रष्टा च पालको हर्ता स एव जगतां प्रभुः

3.24-2.15

एवं समीरितं वेदैः श्रुत्वा वाक्यं शुभाक्षरम्॥
ब्रह्मा विष्णुस्तदा तत्र प्रोचतुर्द्विजपुंगवाः

3.24-2.16

॥ब्रह्मविष्णू ऊचतुः॥ ॥
पार्वत्यालिंगितः शंभुर्मूर्तिमान्प्रमथाधिपः॥
कथं भवेत्परं ब्रह्म सर्वसंगविवर्जितम्

3.24-2.17

ताभ्यामितीरिते तत्र प्रणवः प्राह तौ तदा ॥
अरूपो रूपमादाय महता ध्वनिना द्विजाः

3.24-2.18

॥
॥ प्रणव उवाच ॥ ॥
असौ शंभुर्महादेवः पार्वत्या स्वातिरिक्तया ॥
संक्रीडते कदाचिन्नो किं तु स्वात्मस्वरूपया

3.24-2.19

असौ शंभुरनीशानः स्वप्रकाशो निरंजनः ॥
विश्वाधिको महादेवो विश्वाधिक इति श्रुतः

3.24-2.3.1.24.20

सर्वात्मा सर्वकर्तासौ स्वतन्त्रः सर्वभावनः ॥
ब्रह्मन्नयं सृष्टिकाले त्वां नियुंक्ते रजोगुणैः

3.24-2.21

सत्त्वेन रक्षणे शंभुस्त्वां प्रेषयति केशव ॥
तमसा कालरुद्राख्यं संप्रेरयति संहृतौ

3.24-2.22

अतः स्वतन्त्रता विष्णो युवयोर्न कदाचन ॥
नापि प्रजापतेरस्ति किं तु शंभोः स्वतन्त्रता

3.24-2.23

ब्रह्मन्विष्णो युवाभ्यां तु किमर्थं न महेश्वरः ॥
ज्ञायते सर्वलोकानां कर्ता विश्वाधिकस्तथा

3.24-2.24

सापि शक्तिरुमा देवी न पृथक्छंकरात्सदा ॥
शंभोरानंदभूता सा देवी नागंतुकी स्मृता ॥

3.24-2.25

अतो विश्वाधिको रुद्रः स्वतंत्रो निर्विकल्पकः ॥
सर्वदेवैरयं वन्द्यो युवाभ्यामपि शंकरः

3.24-2.26

कर्ता नास्यास्ति रुद्रस्य नाधिकोऽस्माच्च विद्यते ॥
न तत्समोऽपि लोकेषु विद्यते शतशस्तथा

3.24-2.27

अतो मोहं न कुरुतं ब्रह्मविष्णो युवां वृथा ॥
इत्युक्तं प्रणवेनाथ श्रुत्वा ब्रह्मा च केशवः

3.24-2.28

मायया मोहितौ शंभोर्नैवाज्ञानममुंचताम् ॥
एतस्मिन्नंतरे ब्रह्मा प्रददर्श महाद्भुतम्

3.24-2.29

व्याप्नुवद्गगनं सर्वमनंतादित्य सन्निभम् ॥
तेजोमण्डलमाकाशमध्यगं विश्वतोमुखम्

3.24-2.3.1.24.30

तन्निरूपयितुं ब्रह्मा ससर्जोर्ध्वगतं मुखम् ॥
तपोबलविसृष्टेन पंचमेन मुखेन सः ॥

3.24-2.31

निरूपयामास विभुस्तत्तेजोमण्डलं मुहुः ॥
तत्प्रजज्वाल कोपेन मुखं तेजोविलोकनात्

3.24-2.32

अनंतादित्यसंकाशं ज्वलत्तत्पंचमं शिरः ॥
दिधक्षुः प्रलये लोकान्वडवाग्निरिवाबभौ

3.24-2.33

व्यदृश्यत च तत्तेजः पुरुषो नीललोहितः ॥
दृष्ट्वा स्रष्टा तदा ब्रह्मा बभाषे परमेश्वरम्

3.24-2.34

वेदाहं त्वां महादेव ललाटान्मे पुरा भवान् ॥
विनिर्गतोऽसि शंभो त्वं रुद्रनामा ममात्मजः

3.24-2.35

इति गर्वेण संयुक्तं वचः श्रुत्वा महेश्वरः ॥
कालभैरवनामानं पुरुषं प्राहिणोत्तदा

3.24-2.36

अयुद्ध्यत चिरं कालं ब्रह्मणा कालभैरवः ॥
महादेवांशसंभूतः शूलटंकगदाधरः ॥

3.24-2.37

युद्ध्वा तु सुचिरं कालं ब्रह्मणा कालभैरवः ॥
वदनं ब्रह्मणः शुभ्रं व्यलोकयत पंचमम्

3.24-2.38

विलोक्योर्ध्वगतं वक्त्रं पञ्चमं भारतीपतेः ॥
गर्वेण महता युक्तं प्रजज्वालातिकोपितः

3.24-2.39

ततस्तत्पंचमं वक्त्रं भैरवः प्राच्छिनद्रुषा ॥
ततो ममार ब्रह्माऽसौ कालभैरवहिंसितः ॥

3.24-2.3.1.24.40

ईश्वरस्य प्रसादेन प्रपेदे जीवितं पुनः ॥
ततो विलोकयामास शंकरं शशिभूषणम्

3.24-2.41

वासुक्याद्यष्टभोगींद्रविभूषणविभूषितम् ॥
दृष्ट्वा वेधा महादेवं पार्वत्या सह शंकरम्

3.24-2.42

लेभे माहेश्वरं ज्ञानं महादेवप्रसादतः ॥
ततस्तुष्टाव गिरिशं वरेण्यं वरदं शिवम्

3.24-2.43

॥
॥ ब्रह्मोवाच ॥ ॥
मह्यं प्रसीद गिरिश शशांककृतशेखर ॥
यन्मयापकृतं शंभो तत्क्षमस्व दयानिधे

3.24-2.44

क्षमस्व मम गर्वं त्वं शंकरेति पुनःपुनः ॥
नमश्चकार सोमं तं सोमार्धकृतशेखरम्

3.24-2.45

अथ देवः प्रसन्नोऽस्मै ब्रह्मणे स्वांशजाय तु ॥
मा भैरित्यब्रवीच्छंभुर्भैरवं चाभ्यभाषत

3.24-2.46

॥ ईश्वर उवाच ॥ ॥
एष सर्वस्य जगतः पूज्यो ब्रह्मा सनातनः ॥
हतस्यास्य विरिंचस्य धारय त्वं शिरोऽधुना

3.24-2.47

ब्रह्महत्याविशुद्ध्यर्थं लोकसंग्रहकाम्यया ॥
भिक्षामट कपालेन भैरव त्वं ममाज्ञया

3.24-2.48

उक्त्वैवं शंकरो विप्रास्तत्रैवांतरधीयत ॥
नीलकण्ठो महादेवो गिरिजार्द्धतनुस्ततः

3.24-2.49

भैरवं ग्राहयामास वदनं वेधसो द्विजाः ॥
चरस्व पापशुद्ध्यर्थं लोकसंग्रहणाय वै

3.24-2.3.1.24.50

कपालधारी हस्तेन भिक्षां गृह्णातु भैरवः ॥
इतीरयित्वा गिरिशः कन्यां कांचिद्भयंकरीम्

3.24-2.51

ब्रह्महत्याभिधां क्रूरां वडवानलसन्निभाम् ॥
तां प्रेरयित्वा गिरिशो भैरवं पुनरब्रवीत्

3.24-2.52

॥ ईश्वर उवाच ॥ ॥
भैरवैतद्व्रतं त्वब्दं ब्रह्महत्याविशुद्धये ॥
चर त्वं सर्वतीर्थेषु स्नाहि शुद्ध्यर्थमात्मनः

3.24-2.53

ततो वाराणसीं गच्छ ब्रह्महत्याप्रशांतये ॥
वाराणसीप्रवेशेन ब्रह्महत्या तवाधमा

3.24-2.54

पादशेषा विनष्टा स्याच्चतुर्थांशो न नश्यति ॥
तस्य नाशं प्रवक्ष्यामि तव भैरव तच्छुणु

3.24-2.55

दक्षिणांभोनिधेस्तीरे गन्धमादनपर्वते ॥
सर्वप्राण्युपकाराय कृतं तीर्थं मया शुभम्

3.24-2.56

शिवसंज्ञं महापुण्यं तत्र याहि त्वमादरात्॥
तत्प्रवेशनमात्रेण ब्रह्महत्या तवाशुभा

3.24-2.57

शिवतीर्थस्य माहात्म्यान्निःशेषं नश्यति ध्रुवम् ॥
उक्त्वैवं भैरवं रुद्रः कैलासं प्रययौ क्षणात्

3.24-2.58

ततः कपालपाणिस्तु भैरवः शिवचोदितः ॥
देवदानवयक्षादिलोकेषु विचचार सः

3.24-2.59

तं यांतमनुयाति स्म ब्रह्महत्यातिभीषणा ॥
भैरवः सर्वतीर्थानि पुण्यान्यायतनानि च

3.24-2.3.1.24.60

चरित्वा लीलया देवस्ततो वाराणसीं ययौ ॥
वाराणसीं प्रविष्टे तु भैरवे शंकरांशजे

3.24-2.61

चतुर्थांशं विना नष्टा ब्रह्महत्यातिकुत्सिता ॥
चतुर्थांशेन दुद्राव भैरवं शंकरांशजम्

3.24-2.62

ततः स भैरवो देवः शूलपाणिः कपालधृक् ॥
शिवाज्ञया ययौ पश्चाद्गंधमादनपर्वतम्

3.24-2.63

शिवतीर्थं ततो गत्वा भैरवः स्नातवान्द्विजाः ॥
स्नानमात्रेण तत्रास्य शिवतीर्थे महत्तरे

3.24-2.64

निःशेषं विलयं याता ब्रह्महत्यातिभीषणा ॥
अस्मिन्नवसरे शंभुः प्रादुरासीत्तदग्रतः ॥
प्रादुर्भूतो महादेवो भैरवं वाक्यमब्रवीत्

3.24-2.65

॥ ॥ ईश्वर उवाच ॥ ॥
निःशेषं ब्रह्महत्या ते शिवतीर्थे निमज्जनात्

3.24-2.66

नष्टा भैरव नास्त्यत्र संदेहस्तव सुव्रत ॥
इदं कपालं काश्यां त्वं स्थापयस्व क्वचित्स्थले

3.24-2.67

इत्युक्त्वा भगवाञ्छंभुस्तत्रैवांतरधीयत ॥
भैरवोऽपि तदा विप्रा ब्रह्महत्याविमोचितः

3.24-2.68

शिवतीर्थस्य माहात्म्याद्ययौ वाराणसीं पुरीम् ॥
कपालं स्थापयामास प्रदेशे कुत्रचिद्द्विजाः ॥
कपालतीर्थमित्याख्यामलभत्तत्स्थलं तदा

3.24-2.69

॥ श्रीसूत उवाच ॥ ॥
एवं प्रभावं तत्पुण्यं शिवतीर्थं विमुक्तिदम्

3.24-2.3.1.24.70

महादुःखप्रशमनं महापातकनाशनम् ॥
नरकक्लेशशमनं स्वर्गदं मोक्षदं तथा ॥

3.24-2.71

शिवतीर्थस्य माहात्म्यं मया प्रोक्तं विमुक्तिदम् ॥
इदं पठन्सदा मर्त्यो दुःखग्रामाद्विमुच्यते

3.24-2.24

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये शिवतीर्थप्रशंसायां भैरवब्रह्महत्याविमोक्षणवर्णनंनाम चतुर्विंशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc