भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 3.22

3.22.1

॥ युधिष्ठिर उवाच ॥ ॥
स्थानवासिन्यो योगिन्यः काजेशेन विनिर्मिताः ॥
कस्मिन्स्थाने हि का देव्यः कीदृश्यस्ता वदस्व मे

3.22.2

॥ व्यास उवाच ॥ ॥
सर्वज्ञोसि कुलीनोसि साधु पृष्टं त्वयानघ ॥
कथयिष्याम्यहं सर्वमखिलेन युधिष्ठिर

3.22.3

नानाभरणभूषाढ्या नानारत्नोपशोभिताः ॥
नानावसनसंवीता नानायुवसमन्विताः

3.22.4

नानावाहनसंयुक्ता नानास्वरनिनादिनीः ॥
भयनाशाय विप्राणां काजेशेन विनिर्मिताः

3.22.5

प्राच्यां याम्यामुदीच्यां च प्रतीच्यां स्थापिता हि ताः ॥
आग्नेया नैरृते देशे वायव्येशानयोस्तथा

3.22.6

आशापुरी च गात्राई छत्राई ज्ञानजा तथा ॥
पिप्पलांबा तथा शांता सिद्धा भट्टारिका तथा

3.22.7

कदंबा विकटा मीठा सुपर्णा वसुजा तथा ॥
मातंगी च महादेवी वाराही मुकुटेश्वरी

3.22.8

भद्रा चैव महाशक्तिः सिंहारा च महाबला ॥
एताश्चान्याश्च बहवः कथितुं नैव शक्यते

3.22.9

नानारूपधरा देव्यो नानावेषसमाश्रिताः ॥
स्थानादुत्तरदिग्भागे आशापूर्णासमीपतः

3.22.10

पूर्वे तु विद्यते देवी आनंदानंददायिनी ॥
वसंती चोत्तरे देव्यो नानारूपधरा मुदा

3.22.11

इष्टान्कामान्ददात्येता जलदानेन तर्पिताः ॥
स्थाने नैरृतिदिग्भागे शांता शांतिप्रदायिनी

3.22.12

सिंहोपरि समासीना चतुर्हस्ता वरप्रदा ॥
भट्टारी च महाशक्तिः पुनस्तत्रैव तिष्ठति

3.22.13

संस्तुता पूजिता भक्त्या भक्तानां भयनाशिनी ॥
स्थानात्तु सप्तमे क्रोशे क्षेमलाभा व्यव स्थिता

3.22.14

सा विलेपमयी पूज्या चिंतिता सिद्धिदायिनी ॥
पूर्वस्यां दिशि लोकैस्तु बलिदानेन तर्पिता ॥
परिवारेण संयुक्ता भुक्तिमुक्ति प्रदायिनी

3.22.15

अचिंत्यरूपचरिता सर्वशत्रुविनाशनी ॥
संध्यायास्त्रिषु कालेषु प्रत्यक्षैव हि दृश्यते

3.22.16

स्थानात्तु सप्तमे क्रोशे दक्षिणा विन्ध्यवासिनी ॥
सायुधा रूपसंपन्ना भक्तानां भयहारिणी

3.22.17

पश्चिमे निंबजा देवी तावद्भूमिसमाश्रिता ॥
महाबला सा दृष्टापि नयनानन्द दायिनी

3.22.18

स्थानादुत्तरदिग्भागे तावद्भूमिसमाश्रिता ॥
शक्तिर्बहुसुवर्णाक्षा पूजिता सासुवर्णदा

3.22.19

स्थानाद्वायव्यकोणे च क्रोशमात्र मिते श्रिता ॥
क्षेत्रधरा महादेवी समये च्छागधारिणी

3.22.20

पुरादुत्तरदिग्भागे क्रोशमात्रे तु कर्णिका ॥
सर्वोपकारनिरता स्थानोपद्रवनाशनी

3.22.21

स्थानान्निरृतिदिग्भागे ब्रह्माणीप्रमुखास्तथा ॥
नानारूपधरा देव्यो विद्यंते जलमातरः

3.22.22

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये देवतास्थापनंनाम द्वाविंशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc