भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 3.16-2

3.16-2.1

॥ सूत उवाच । ॥
शृणुध्वं मुनयः श्रेष्ठा वामदेवस्य भाषितम्

3.16-2.2

॥ वामदेव उवाच ॥ ॥
पुरा मंदरशैलेंद्रे नानाधातुविचित्रिते ॥
नानासत्वसमाकीर्णे नानाद्रुमलताकुले

3.16-2.3

कालाग्निरुद्रो भगवान्कदाचिद्विश्ववंदितः ॥
समाससाद भूतेशः स्वेच्छया परमेश्वरः

3.16-2.4

समंतात्समुपातिष्ठन्रुद्राणां शतकोटयः ॥
तेषां मध्ये समासीनो देवदेवस्त्रिलोचनः

3.16-2.5

तत्रागच्छत्सुरश्रष्ठो देवैः सह पुरंदरः ॥
तथाग्निर्वरुणो वायुर्यमो वैवस्वतस्तथा

3.16-2.6

गंधर्वाश्चित्रसेनाद्याः खेचराः पन्नगादयः ॥
विद्याधराः किंपुरुषाः सिद्धाः साध्याश्च गुह्यकाः

3.16-2.7

ब्रह्मर्षयो वसिष्ठाद्या नारदाद्याः सुरर्षयः ॥
पितरश्च महात्मानो दक्षाद्याश्च प्रजेश्वराः

3.16-2.8

उर्वश्याद्याश्चाप्सरसश्चंडिकाद्याश्च मातरः ॥
आदित्या वसवो दस्रौ विश्वेदेवा महौजसः

3.16-2.9

अथान्ये भूतपतयो लोकसंहरणे क्षमाः ॥
महाकालश्च नंदी च तथा वै शंखपालकौ

3.16-2.3.3.16.10

वीरभद्रो महातेजाः शंकुकर्णो महाबलः ॥
घंटाकर्णश्च दुर्धर्षो मणिभद्रो वृकोदरः

3.16-2.11

कुंडोदरश्च विकटास्तथा कुभोदरो बली ॥
मंदोदरः कर्णधारः केतुर्भृंगीरिटिस्तथा

3.16-2.12

भूतनाथास्तथान्ये च महाकाया महौजसः ॥
कृष्णवर्णास्तथा श्वेताः केचिन्मंडूकसप्रभाः

3.16-2.13

हरिता धूसरा धूम्राः कर्बुरा पीतलोहिताः॥
चित्रवर्णा विचित्रांगाश्चित्रलीला मदोत्कटाः

3.16-2.14

नानायुधोद्यतकरा नानावाहनभूषणाः ॥
केचिद्व्याघ्रमुखाः केचित्सूकरास्या मृगा ननाः

3.16-2.15

केचिच्च नक्रवदनाः सारमेयमुखाः परे ॥
सृगालवदनाश्चान्य उष्ट्राभवदनाः परे

3.16-2.16

केचिच्छरभभेरुंडसिंहाश्वोष्ट्रबकाननाः ॥
एकवक्त्रा द्विवक्त्राश्च त्रिमुखाश्चैव निर्मुखाः

3.16-2.17

एकहस्तास्त्रिहस्ताश्च पंचहस्तास्त्वहस्तकाः ॥
अपादा बहुपादाश्च बहुकर्णैककर्णकाः

3.16-2.18

एकनेत्राश्चतुर्नेत्रा दीर्घाः केचन वामनाः ॥
समंतात्परिवार्येशं भूतनाथमुपासते

3.16-2.19

अथागच्छन्महातेजा मुनीनां प्रवरः सुधीः ॥
सनत्कुमारो धर्मात्मा तं द्रष्टुं जगदीश्वरम्

3.16-2.3.3.16.20

तं देवदेवं विश्वेशं सूर्यकोटिसमप्रभम् ॥
महाप्रलयसंक्षुब्धसप्तार्णवघनस्वनम्

3.16-2.21

संवर्त्ताग्निसमाटोपं जटामंडलशोभितम् ॥
अक्षीणभालनयनं ज्वालाम्लानमुखत्विषम्

3.16-2.22

प्रदीप्तचूडामणिना शशिखंडेन शोभितम् ॥
तक्षकं वामकर्णेन दक्षिणेन च वासुकिम्

3.16-2.23

बिभ्राणं कुंडलयुगं नीलरत्नमहाहनुम् ॥
नीलग्रीवं महाबाहुं नागहारविराजितम्

3.16-2.24

फणिराजपरिभ्राजत्कंक णांगदमुद्रिकम् ॥
अनंतगुणसाहस्रमणिरंजितमेखलम्

3.16-2.25

व्याघ्रचर्मपरीधानं घंटादर्पणभूषितम् ॥
कर्कोटकमहापद्मधृतराष्ट्रधनंजयैः

3.16-2.26

कूजन्नूपुरसंघुष्टपादपद्मविराजितम् ॥
प्रासतोमरखट्वाङ्गशूलटंकधनुर्धरम्

3.16-2.27

अप्रधृष्यमनिर्देश्यमचिंत्याकारमीश्वरम् ॥
रत्नसिंहासनारूढं प्रण नाम महामुनिः

3.16-2.28

तं भक्तिभारोच्छ्वसितांतरात्मा संस्तूय वाग्भिः श्रुतिसंमिताभिः ॥
कृतांजलिः प्रश्रयनम्रकंधरः पप्रच्छ धर्मानखिलाञ्छु भप्रदान्

3.16-2.29

यान्यानपृच्छत मुनिस्तांस्तान्धर्मानशेषतः ॥
प्रोवाच भगवान्रुद्रो भूयो मुनिरपृच्छत

3.16-2.3.3.16.30

॥ सनत्कुमार उवाच ॥ ॥
श्रुतास्ते भगवन्धर्मास्त्वन्मुखान्मुक्तिहेतवः ॥
यैर्मुक्तपापा मनुजास्तरिष्यंति भवार्णवम्

3.16-2.31

अथापरं विभो धर्ममल्पायासं महाफलम् ॥
ब्रूहि कारुण्यतो मह्यं सद्यो मुक्तिप्रदं नृणाम्

3.16-2.32

अभ्यासबहुला धर्माः शास्त्रदृष्टाः सहस्रशः ॥
सम्यक्संसेविताः कालात्सिद्धिं यच्छंति वा न वा

3.16-2.33

अतो लोकहितं गुह्यं भुक्तिमुक्त्योश्च साधनम् ॥
धर्मं विज्ञातुमिच्छामि त्वत्प्रसादान्महेश्वर

3.16-2.34

॥ श्रीरुद्र उवाच ॥ ॥
सर्वेषामपि धर्माणामुत्तमं श्रुतिचोदितम् ॥
रहस्यं सर्वजंतूनां यत्त्रिपुंड्रस्य धारणम्

3.16-2.35

॥ सनत्कुमार उवाच॥ ॥
त्रिपुंड्रस्य विधिं ब्रूहि भगवञ्जगतां पते ॥
तत्त्वतो ज्ञातुमिच्छामि त्वत्प्रसादान्महेश्वर

3.16-2.36

कति स्थानानि किं द्रव्यं का शक्तिः का च देवता ॥
किं प्रमाणं च कः कर्त्ता के मंत्रास्तस्य किं फलम्

3.16-2.37

एतत्सर्वमशेषेण त्रिपुंड्रस्य च लक्षणम् ॥
ब्रूहि मे जगतां नाथ लोकानुग्रहकाम्यया

3.16-2.38

॥ श्रीरुद्र उवाच ॥ ॥
आग्नेयमुच्यते भस्म दग्धगोमयसंभवम् ॥
तदेव द्रव्यमित्युक्तं त्रिपुंड्रस्य महामुने

3.16-2.39

सद्योजातादिभिर्ब्रह्ममयैर्मंत्रैश्च पंचभिः॥
परिगृह्याग्निरित्यादिमंत्रैर्भस्माभिमंत्रयेत्

3.16-2.3.3.16.40

मानस्तोकेति संमृंज्य शिरो लिंपेच्च त्र्यंबकम् ॥
त्रियायुषादिभिर्मंत्रैर्ललाटे च भुजद्वये ॥
स्कंधे च लेपयेद्भस्म सजलं मंत्रभावितम्

3.16-2.41

तिस्रो रेखा भवंत्येषु स्थानेषु मुनिपुंगव ॥
भ्रुवोर्मध्यं समारभ्य यावदंतो भ्रुवोर्भवेत्

3.16-2.42

मध्यमानामिकांगुल्योर्मध्ये तु प्रतिलोमतः ॥
अंगुष्ठेन कृता रेखा त्रिपुंड्रस्याभिधीयते

3.16-2.43

तिसृणामपि रेखाणां प्रत्येकं नव देवताः ॥
अकारो गार्हपत्यश्च ऋग्भूर्लोको रजस्तथा

3.16-2.44

आत्मा चैव क्रियाशक्तिः प्रातः सवनमेव च ॥
महादेवस्तु रेखायाः प्रथमायास्तु देवता

3.16-2.45

उकारो दक्षिणाग्निश्च नभः सत्त्वं यजुस्तथा ॥
मध्यंदिनं च सवनमिच्छाशक्त्यंतरात्मकौ

3.16-2.46

महेश्वरश्च रेखाया द्वितीयायाश्च देवता ॥
मकाराहवनीयौ च परमात्मा तमो दिवः

3.16-2.47

ज्ञानशक्तिः सामवेदस्तृतीयसवनं तथा ॥
शिवश्चेति तृतीयाया रेखायाश्चाधिदेवता

3.16-2.48

एता नित्यं नमस्कृत्य त्रिपुंड्रं धारयेत्सुधीः ॥
महेश्वरव्रतमिदं सर्ववेदेषु कीर्तितम्

3.16-2.49

मुक्तिकामैर्नरैः सेव्यं पुनस्तेषां न संभवः ॥
त्रिपुंड्रं कुरुते यस्तु भस्मना विधिपूर्वकम्

3.16-2.3.3.16.50

ब्रह्मचारी गृहस्थो वा वनस्थो यतिरेव वा॥
महापातकसंघातैर्मुच्यते चोपपातकैः

3.16-2.51

तथान्यैः क्षत्रविट्शूद्रस्त्रीगोहत्या दिपातकैः॥
वीरहत्याश्वहत्याभ्यां मुच्यते नात्र संशयः

3.16-2.52

अमंत्रेणापि यः कुर्यादज्ञात्वा महिमोन्नतिम्॥
त्रिपुंड्रं भालपटले मुच्यते सर्वपातकैः

3.16-2.53

परद्रव्यापहरणं परदाराभिमर्शनम्॥
परनिंदा परक्षेत्रहरणं परपीडनम्

3.16-2.54

सस्यारामादिहरणं गृहदाहादिकर्म च ॥
असत्यवादं पैशुन्यं पारुष्यं वेदविक्र यः॥
कूटसाक्ष्यं व्रतत्यागः कैतवं नीचसेवनम्

3.16-2.55

गोभूहिरण्यमहिषी तिलकंबलवाससाम्॥
अन्नधान्यजलादीनां नीचेभ्यश्च परिग्रहः

3.16-2.56

दासी वेश्याभुजंगेषु वृषलीषु नटीषु च ॥
रजस्वलासु कन्यासु विधवासु च संगमः

3.16-2.57

मांसचर्मरसादीनां लवणस्य च विक्रयः ॥
एवमादीन्य संख्यानि पापानि विविधानि च

3.16-2.58

सद्य एव विनश्यंति त्रिपुंड्रस्य च धारणात् ॥
शिवद्रव्यापहरणं शिवनिंदा च कुत्रचित्

3.16-2.59

निंदा च शिवभक्तानां प्रायश्चितैर्न शुद्ध्यति ॥
रुद्राक्षा यस्य गात्रेषु ललाटे च त्रिपुंड्रकम्

3.16-2.3.3.16.60

स चांडालोऽपि संपूज्यः सर्ववर्णोत्तमो भवेत् ॥
यानि तीर्थानि लोकेऽस्मिन्गंगायाः सरितश्च याः

3.16-2.61

स्नातो भवति सर्वत्र ललाटे यस्त्रिपुंड्रधृक् ॥
सप्तकोटिमहामंत्राः पंचाक्षरपुरःसराः ॥

3.16-2.62

तथान्ये कोटिशो मंत्राः शैवाः कैवल्यहेतवः ॥
ते सर्वे येन जप्ताः स्युर्यो बिभर्ति त्रिपुंड्रकम्

3.16-2.63

सहस्रं पूर्वजातानां सहस्रं च जनिष्यताम् ॥
स्ववंशजानां मर्त्यानामुद्धरेद्यस्त्रिपुंड्रधृक्

3.16-2.64

इह भुक्त्वाखिलान्भोगान्दीर्घायुर्व्याधिवर्जितः ॥
जीवितांते च मरणं सुखनैवं प्रपद्यते

3.16-2.65

अष्टैश्वर्यगुणोपेतं प्राप्य दिव्यं वपुः शुभम् ॥
दिव्यं विमानमारुह्य दिव्यस्त्रीशतसेवितः

3.16-2.66

विद्याधराणां सिद्धानां गंधर्वाणां महौजसाम् ॥
इंद्रादिलोकपालानां लोकेषु च यथाक्रमम्

3.16-2.67

भुक्त्वा भोगान्सुविपुलान्प्रजेशानां पुरेषु च ॥
ब्रह्मणः पदमासाद्य तत्र कल्पशतं रमेत्

3.16-2.68

विष्णोर्लोके च रमते यावद्ब्रह्मशतत्रयम्

3.16-2.69

शिवलोकं ततः प्राप्य रमते कालमक्षयम् ॥
शिवसायुज्यमाप्नोति न स भूयोऽभिजायते

3.16-2.3.3.16.70

सर्वोपनिषदां सारं समालोच्य मुहुर्मुहुः ॥
इदमेव हि निर्णीतं परं श्रेयस्त्रिपुंड्रकम्

3.16-2.71

एतत्त्रिपुंड्रमाहात्म्यं समासात्कथितं मया ॥
रहस्यं सर्वभूतानां गोपनीयमिदं त्वया

3.16-2.72

इत्युक्त्वा भगवान्रुद्रस्तत्रैवांतरधीयत ॥
सनत्कुमारोऽपि मुनिर्जगाम ब्रह्मणः पदम्

3.16-2.73

तवापि भस्मसंपर्कात्संजाता विमला मतिः ॥
त्वमपि श्रद्धया पुण्यं धारयस्व त्रिपुंड्रकम्

3.16-2.74

॥ सूत उवाच ॥ ॥
इत्युक्त्वा वामदेवस्तु शिवयोगी महातपाः ॥
अभिमंत्र्य ददौ भस्म घोराय ब्रह्मरक्षसे

3.16-2.75

तेनासौ भालपटले चक्रे तिर्य क्त्रिपुंड्रकम् ॥
ब्रह्मराक्षसतां सद्यो जहौ तस्यानुभावतः

3.16-2.76

स बभौ सूर्यसंकाशस्तेजोमण्डलमंडितः ॥
दिव्यावयरूपैश्च दिव्यमाल्यांबरो ज्ज्वलः

3.16-2.77

भक्त्या प्रदक्षिणीकृत्य तं गुरुं शिवयोगिनम् ॥
दिव्यं विमानमारुह्य पुण्यलोकाञ्जगाम सः

3.16-2.78

वामदेवो महायोगी दत्त्वा तस्मै परां गतिम् ॥
चचार लोके मूढात्मा साक्षादिव शिवः स्वयम्

3.16-2.79

य एतद्भस्ममाहात्म्यं त्रिपुंड्रं शृणुयान्नरः ॥
श्रावयेद्वा पठेद्वापि स हि याति परां गतिम्

3.16-2.3.3.16.80

कथयति शिवकीर्तिं संसृतेर्मुक्तिहेतुं प्रणमति शिवयोगिध्येयमीशांघ्रिपद्मम् ॥
रचयति शिवभक्तोद्भासि भाले त्रिपुंड्रं न पुनरिह जनन्या गर्भवासं भजेत्सः

3.16-2.16

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तर खण्डे भस्ममाहात्म्यकथनं नाम षोडशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc