भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 3.11-2

3.11-2.1

॥ सूत उवाच ॥ ॥
पिंगला नाम या वेश्या मया पूर्वमुदाहृता ॥
शिवभक्तार्चनात्पुण्यात्त्यक्त्वा पूर्वकलेवरम्

3.11-2.2

चन्द्रांगदस्य सा भूयः सीमंतिन्यामजायत ॥
रूपौदार्यगुणोपेता नाम्ना वै कीर्तिमालिनी

3.11-2.3

भद्रायुरपि तत्रैव राजपुत्रो वणिक्पतेः ॥
ववृधे सदने भानुः शुचाविव महातपाः

3.11-2.4

तस्यापि वैश्यनाथस्य कुमारस्त्वेक उत्तमः ॥
स नाम्ना सुनयः प्रोक्तो राजसूनोः सखाऽभवत्

3.11-2.5

तावुभौ परमस्निग्धौ राजवैश्यकुमारकौ॥
चित्रक्रीडावुदारांगौ रत्नाभरणमंडितौ

3.11-2.6

तस्य राजकुमारस्य ब्राह्मणैः स वणिक्पतिः ॥
संस्कारान्कारयामास स्वपुत्रस्यापि विस्तरात्

3.11-2.7

काले कृतोपनयनौ गुरुशुश्रूषणे रतौ ॥
चक्रतुः सर्वविद्यानां संग्रहं विनयान्वितौ

3.11-2.8

अथ राजकुमारस्य प्राप्ते षोडशहायने ॥
स एव ऋषभो योगी तस्य वेश्मन्युपाययौ

3.11-2.9

सा राज्ञी स कुमारश्च शिवयोगिनमागतम् ॥
मुहुर्मुहुः प्रणम्योभौ पूजयामासतुर्मुदा

3.11-2.3.3.11.10

ताभ्यां च पूजितः सोऽथ योगीशो हृष्टमानसः ॥
तं राजपुत्रमुद्दिश्य बभाषे करुणार्द्रधीः

3.11-2.11

॥ शिवयोग्युवाच ॥ ॥
कच्चित्ते कुशलं तात त्वन्मातुश्चाप्यनामयम् ॥
कच्चित्त्वं सर्वविद्यानामकार्षीश्च प्रतिग्रहम्

3.11-2.12

कच्चिद्गुरूणां सततं शुश्रूषातत्परो भवान् ॥
कच्चित्स्मरसि मां तात तव प्राणप्रदं गुरुम्

3.11-2.13

एवं वदति योगीशे राज्ञी सा विनयान्विता ॥
स्वपुत्रं पादयोस्तस्य निपात्यैनमभाषत

3.11-2.14

एष पुत्रस्तव गुरो त्वमस्य प्राणदः पिता ॥
एष शिष्यस्तु संग्राह्यो भवता करुणात्मना

3.11-2.15

अतो बन्धुभिरुत्सृष्टमनाथं परिपालय ॥
अस्मै सम्यक्सतां मार्गमुपदेष्टुं त्वमर्हसि

3.11-2.16

इति प्रसादितो राज्ञ्या शिवयोगी महामतिः ॥
तस्मै राजकुमाराय सन्मार्गमुपदिष्टवान्

3.11-2.17

॥ ऋषभ उवाच ॥ ॥
श्रुतिस्मृतिपुराणेषु प्रोक्तो धर्मः सनातनः ॥
वर्णाश्रमानुरूपेण निषेव्यः सर्वदा जनैः

3.11-2.18

भज वत्स सतां मार्गं सदेव चरितं चर ॥
न देवाज्ञां विलंघेथा मा कार्षीर्देवहेलनम्

3.11-2.19

गोदेवगुरुविप्रेषु भक्तिमान्भव सर्वदा ॥
चांडालमपि संप्राप्तं सदा संभावयातिथिम्

3.11-2.3.3.11.20

सत्यं न त्यज सर्वत्र प्राप्तेऽपि प्राणसंकटे ॥
गोब्राह्मणानां रक्षार्थमसत्यं त्वं वद क्वचित्

3.11-2.21

परस्वेषु परस्त्रीषु देवब्राह्मण वस्तुषु ॥
तृष्णां त्यज महाबाहो दुर्लभेष्वपि वस्तुषु

3.11-2.22

सत्कथायां सदाचारे सद्व्रते च सदागमे ॥
धर्मादिसंग्रहे नित्यं तृष्णां कुरु महामते

3.11-2.23

स्नाने जपे च होमे च स्वाध्याये पितृतर्पणे ॥
गोदेवातिथिपूजासु निरालस्यो भवानघ

3.11-2.24

क्रोधं द्वेषं भयं शाठ्यं पैशुन्य मसदाग्रहम् ॥
कौटिल्यं दंभमुद्वेगं यत्नेन परिवर्जय

3.11-2.25

क्षात्रधर्मरतोऽपि त्वं वृथा हिंसां परित्यज ॥
शुष्कवैरं वृथालापं परनिदां च वर्जय

3.11-2.26

मृगया द्यूतपानेषु स्त्रीषु स्त्रीविजितेषु च ॥
अत्याहारमतिक्रोधमतिनिद्रामतिश्रमम्

3.11-2.27

अत्यालापमतिक्रीडां सर्वदा परिवर्जय ॥

3.11-2.28

अतिविद्यामतिश्रद्धामतिपुण्यमतिस्मृतिम् ॥
अत्युत्साहमतिख्यातिमतिधैर्यं च साधय

3.11-2.29

सकामो निजदारेषु सक्रोधो निज शत्रुषु ॥
सलोभः पुण्यनिचये साभ्यसूयो ह्यधर्मिषु

3.11-2.3.3.11.30

सद्वेषो भव पाखण्डे सरागः सज्जनेषु च ॥
दुर्बोधो भव दुर्मंत्रे बधिरः पिशुनोक्तिषु

3.11-2.31

धूर्त्तं चंडं शठं क्रूरं कितवं चपलं खलम् ॥
पतितं नास्तिकं जिह्मं दूरतः परिवर्जय

3.11-2.32

आत्मप्रशंसा मा कार्षीः परिज्ञातेंगितो भव ॥
धने सर्वकुटुंबे च नात्यासक्तः सदा भव

3.11-2.33

पत्न्याः पतिव्रतायाश्च जनन्याः श्वशुरस्य च ॥
सतां गुरोश्च वचने विश्वासं कुरु सर्वदा

3.11-2.34

आत्मरक्षापरो नित्यमप्रमत्तो दृढव्रतः ॥
विश्वासं नैव कुर्वीथाः स्वभृत्येष्वपि कुत्र चित्

3.11-2.35

विश्वस्तं मा वधीः कंचिदपि चोरं महामते ॥
अपापेषु न शंकेथाः सत्यान्न चलितो भव

3.11-2.36

अनाथं कृपणं वृद्धं स्त्रियं बालं निरागसम् ॥
परिरक्ष धनैः प्राणैर्बुद्ध्या शक्त्या बलेन च

3.11-2.37

अपि शत्रुं वधस्यार्हं मा वधीः शरणागतम् ॥
अप्यपात्रं सुपात्रं वा नीचो वापि महत्तमः

3.11-2.38

यो वा को वापि याचेत तस्मै देहि शिरोपि च ॥
अपि यत्नेन महता कीर्तिमेव सदार्जय

3.11-2.39

राज्ञां च विदुषां चैव कीर्तिरेव हि भूषणम् ॥
सत्कीर्तिप्रभवा लक्ष्मीः पुण्यं सत्कीर्तिसंभवम्

3.11-2.3.3.11.40

सत्कीर्त्या राजते लोकश्चंद्रश्चंद्रिकया न्यथा ॥
गजाश्वहेमनिचयं रत्नराशिं नगोपमम्

3.11-2.41

अकीर्त्योपहतं सर्वं तृणवन्मुंच सत्वरम् ॥
मातुः कोपं पितुः कोपं गुरोः कोपं धनव्य यम्

3.11-2.42

पुत्राणामपराधं च ब्राह्मणानां क्षमस्व भोः ॥
यथा द्विजप्रसादः स्यात्तथा तेषां हितं चर

3.11-2.43

राजानं संकटे मग्नमुद्धरेयुर्द्विजोत्तमा ॥
आयुर्यशो बलं सौख्यं धनं पुण्यं प्रजोन्नतिः

3.11-2.44

कर्मणा येन जायेत तत्सेव्यं भवता सदा ॥
देशं कालं च शक्तिं च कार्यं चा कार्यमेव च

3.11-2.45

सम्यग्विचार्य यत्नेन कुरु कार्यं च सर्वदा ॥
न कुर्याः कस्यचिद्बाधां परबाधां निवारय

3.11-2.46

चोरान्दुष्टांश्च बाधेथाः सुनीत्या शक्तिमत्तया ॥
स्नाने जपे च होमे च दैवे पित्र्ये च कर्मणि

3.11-2.47

अत्वरो भव निद्रायां भोजने भव सत्वरः ॥
दाक्षिण्ययुक्तमशठं सत्यं जनमनोहरम्

3.11-2.48

अल्पाक्षरमनंतार्थं वाक्यं ब्रूहि महामते॥
अभीतो भव सर्वत्र विपक्षेषु विपत्सु च

3.11-2.49

भीतो भव ब्रह्मकुले न पापे गुरुशासने ॥
ज्ञातिबंधुषु विप्रेषु भार्यासु तनयेषु च

3.11-2.3.3.11.50

समभावेन वर्तेथास्तथा भोजनपंक्तिषु ॥
सतां हितोपदेशेषु तथा पुण्य कथासु च

3.11-2.51

विद्यागोष्ठीषु धर्म्यासु क्वचिन्मा भूः पराङ्मुखः ॥
शुचौ पुण्यजलस्यांते प्रख्याते ब्रह्मसंकुले

3.11-2.52

महादेशे शिवमये वस्तव्यं भवता सदा ॥
कुलटा गणिका यत्र यत्र तिष्ठति कामुकः

3.11-2.53

दुर्देशे नीचसंबाधे कदाचिदपि मा वस ॥
एकमेवाश्रितोपि त्वं शिवं त्रिभुवनेश्वरम्

3.11-2.54

सर्वान्देवानुपासीथास्तद्दिनानि च मानयन् ॥
सदा शुचिः सदा दक्षः सदा शांतः सदा स्थिरः

3.11-2.55

सदा विजित षड्वर्गः सदैकांतो भवानघ ॥
विप्रान्वेदविदः शांतान्यतींश्च नियतोज्वलान्

3.11-2.56

युग्मम् ॥
पुण्यवृक्षान्पुण्यनदीः पुण्यतीर्थं महत्सरः ॥
धेनुं च वृषभं रत्नं युवतीं च पतिव्रताम्

3.11-2.57

आत्मनो गृहदेवांश्च सहसैव नमस्कुरु ॥
उत्थाय समये ब्राह्मे स्वाचम्य विमलाशयः

3.11-2.58

नमस्कृत्यात्मगुरुवे ध्यात्वा देवमुमापतिम्॥
नारायणं च लक्ष्मीशं ब्रह्माणं च विनायकम्

3.11-2.59

स्कन्दं कात्यायनीं देवीं महालक्ष्मीं सरस्वतीम् ॥
इन्द्रादीनथ लोकेशान्पुण्यश्लोकानृषीनपि

3.11-2.3.3.11.60

चिंतयित्वाथ मार्त्तंडमुद्यंतं प्रणमेत्सदा ॥
गंधं पुष्पं च तांबूलं शाकं पक्वफलादिकम्

3.11-2.61

शिवाय दत्त्वोपभुंक्ष्व भक्ष्यं भोज्यं प्रियं नवम् ॥
यद्दत्तं यत्कृतं जप्तं यत्स्नातं यद्धुतं स्मृतम्

3.11-2.62

यच्च तप्तं तपः सर्वं तच्छिवाय निवेदय॥
भुंजानश्च पठन्वापि शयानो विहरन्नपि ॥
पश्यञ्छृण्न्ववदन्गृह्णञ्छिवमेवानुचिंतय

3.11-2.63

रुद्राक्षकंकणलसत्करदंडयुग्मो मालांतरालधृतभस्म सितत्रिपुंडूः ॥
पंचाक्षरं परिपठन्परमंत्रराजं ध्यायन्सदा पशुपतेश्चरणं रमेथाः

3.11-2.64

इति संक्षेपतो वत्स कथितो धर्मसंग्रहः ॥
अन्येषु च पुराणेषु विस्तरेण प्रकीर्तितः

3.11-2.65

अथापरं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम्॥
जयप्रदं सर्वविपद्विमोचनं वक्ष्यामि शैवं कवचं हिताय ते

3.11-2.11

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे भद्रायुं प्रति ऋषभोपदेशवर्णनं नामैकादशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc