भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 2.8

2.8.1

॥ अगस्त्य उवाच ॥ ॥
घोषार्कतीर्थाद्विप्रर्षे पश्चिमे दिक्तटे स्थितम् ॥
रतिकुण्डमिति ख्यातं सर्वपापहरं सदा

2.8.2

यत्र स्नानेन दानेन परां कांतिमवाप्नुयात् ॥
तत्पश्चिमदिशाभागे कुसुमायुधनामकम्

2.8.3

कुंडं प्रसिद्धमतुलं सर्वकामार्थसिद्धये ॥
यत्र स्नानेन दानेन कन्दर्पसदृशाकृतिम् ॥
लभते ना विधानेन मुने नास्त्यत्र संशयः

2.8.4

रतिकुंडे तथा विप्र कुसुमायुधकुण्डके ॥
श्रद्धया कुरुते स्नानं स सौख्यपरमो भवेत्

2.8.5

कुण्डद्वयेऽत्र मिथुनं यत्स्नानं कुरुते किल ॥
रतिकामाविव ख्यातौ सदा तौ सुंदरौ तदा

2.8.6

तस्मादत्र विधानेन स्नातव्यं धर्मकांक्षिभिः ॥
दानं देयं यथाशक्त्या रतिकंदर्पतुष्टये

2.8.7

भवेतां नियतं तस्य संतुष्टौ रतिमन्मथौ ॥
माघे विशदपंचम्यां यत्र स्नानं शुभप्रदम्

2.8.8

रतिकुंडे पुरः स्नात्वा पश्चात्कंदर्प्पकुंडके ॥
स्नातव्यं तद्दिने विप्र मिथुनेन प्रयत्नतः

2.8.9

रतिकंदर्प्पयोः पूजा विधातव्या विशेषतः ॥
वस्त्रादिभिरलंकारैः संपूज्यौ द्विजदंपती

2.8.2.8.8.10

सर्वान्कामानवाप्नोति नात्र कार्या विचारणा

2.8.11

चंदनागुरुकर्पूरकस्तूरीकुंकुमादिभिः ॥
वासोभिर्विविधैः पुष्पैः पूजयेद्द्विजदम्पती

2.8.12

एवं कृते न संदेहो रतिकंदर्पतुष्टये ॥
तद्व्रजेन्मिश्रुनं विप्र रतिकंदर्प्पतुल्यताम्

2.8.13

कुसुमायुधकुंडात्तु प्रतीच्यां दिशि संस्थितम् ॥
मन्त्रेश्वर इति ख्यातं तत्स्थानं भुवि दुर्लभम्

2.8.14

तत्र तीर्थे नरः स्नात्वा दृष्ट्वा मन्त्रेश्वरं विभुम् ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि

2.8.15

पुरा रामो देवकार्यं विधायामलकर्मकृत् ॥
कालेन सह संगम्य मन्त्रं चक्रे नरेश्वरः

2.8.16

स्वर्गं प्रति प्रयाणाय यत्र स्नातौ जितेंद्रियः ॥
तत्रैव स्थापितं लिंगं मन्त्रेश्वर इति श्रुतम्

2.8.17

तदुत्तरे सरो रम्यं कुमुदोत्पलमंडितम् ॥
तत्र स्नानं तथा दानं नानाफलदमुत्तमम्

2.8.16

चैत्रशुक्लचतुर्दश्यां यात्रा सांवत्सरी स्मृता ॥
तत्र स्नानेन दानेन ब्राह्मणानां च पूजनात् ॥
अक्षयं स्वर्गमाप्नोति तत्र कार्या विचारणा

2.8.19

मंत्रेश्वरस्य महिमा नहि केनापि शक्यते ॥
सम्यग्वर्णयितुं विप्र य उत्तमफलप्रदः ॥
मंत्रेश्वरसमं लिंगं न भूतं न भविष्यति

2.8.2.8.8.20

सुगंधिपुष्पधूपादिकुसुमाद्यनुलेपनैः ॥
पूजनीयः प्रयत्नेन सर्वकामार्थसिद्धिदः

2.8.21

एवं कृते न संदेहो मुक्तिस्तस्य करे स्थिता ॥
तत्रैवोत्तरभागे तु शीतला वर्ततेऽनघ

2.8.22

तां संपूज्य नरो विद्वान्सर्वपापैः प्रमुच्यते ॥
सर्वदा पूजनं तस्याः सोमवारे विशेषतः ॥
कर्त्तव्यं सुप्रयत्नेन नृभिः सर्वार्थसिद्धये

2.8.23

विस्फोटकादिकभये नरैश्च समुपस्थिते ॥
कर्तव्यं पूजनं सम्यग्रोगादिभयनाशनम्

2.8.24

तदुत्तरे तु तत्रैव देवी वन्दीति विश्रुता ॥
यस्याः स्मरणमात्रेण निगडादिभयं नहि

2.8.25

राज्ञा क्रुद्धेन ये बद्धाः शृंखलानिगडादिभिः ॥
बन्दी संस्मृत्य देवीं तु मुक्ताः स्युस्तत्क्षणाद्धि ते

2.8.26

यात्रा तस्याः प्रयत्नेन कर्तव्या यत्नतो नरैः ॥
मंगले हि विशेषेण सर्वकामार्थसिद्धिदा

2.8.27

गंधैः पुष्पैस्तथा धूपैर्दीपैरपि च सुव्रत ॥
नैवेद्यैर्विविधैर्वापि पूजनीया प्रयत्नतः

2.8.28

बन्दीप्रीत्यै मुनिश्रेष्ठ देयं ब्राह्मणभोजनम् ॥
एवं कृते न संदेहः सर्वान्कामानवाप्नुयात्

2.8.29

तदुत्तरस्मिंस्तत्रैव चुडकी भुवि कीर्तिता ॥
वर्तते परमा सिद्धिरूपिणी स्मरणान्नृणाम्

2.8.2.8.8.30

सुसंदिग्धेषु कार्येषु भये च समुपस्थिते ॥
यस्याः स्मरणतो नॄणां सर्वसिद्धिः प्रजायते

2.8.31

अग्रे तस्याः सदा कार्या नृभिरंगुष्ठतो ध्वनिः ॥
दीपदानं प्रयत्नेन कर्त्तव्यं नियतात्मभिः

2.8.32

सर्वाभीष्टप्रदं नॄणां दीपदानं प्रशस्यते ॥
चतुर्दश्यां चतुर्दश्यां तस्या यात्रा विनिर्मिता

2.8.33

ततः पूर्वदिशाभागे वर्त्तते तीर्थमुत्तमम् ॥
महारत्न इति ख्यातं सर्वतीर्थोत्तमोत्तमम्

2.8.34

यत्र स्नानेन दानेन पूजया च द्विजन्मनाम् ॥
सर्वकर्मार्थसिद्धिः स्यान्नात्र कार्या विचारणा

2.8.35

भाद्रे कृष्णचतुर्दश्यां यात्रा सांवत्सरी स्मृता ॥
यात्राऽऽस्ते किल मुख्याऽस्य महारत्ना इति श्रुता

2.8.36

महारत्न इति ख्यातं तस्मात्तीर्थमनुत्तमम् ॥
तत्र दानं प्रकर्त्तव्यं द्विजसंतोषकारकम्

2.8.37

नारीभिरपि विप्रर्षे कर्त्तव्यो जागरोत्सवः ॥
वीर्यसौभाग्यसंपन्नसर्वसौख्याय सर्वदा ॥
तत्र स्नानं प्रयत्नेन कर्त्तव्यं श्रद्धया नरैः

2.8.38

ततो नैऋत्यदिग्भागे दुर्भराख्यं सरा शुभम् ॥
वर्तते सुकृतोदारं महाभरसरस्तथा

2.8.39

तत्र स्नानादवाप्नोति सदा स्वर्गपदं नरः ॥
धनं बहुविधं देयं वासांसि विविधानि च ॥

2.8.2.8.8.40

शिवपूजा प्रकर्त्तव्या स्नात्वा कुण्डद्वये नरैः ॥
नानाविधेन भावेन भक्त्या परमया युतैः

2.8.41

गन्धादिभिः शुभैः पुष्पैरर्च्चनीयो महेश्वरः ॥
नीलकंठोंऽधकारातिराराध्यो योगिनामपि

2.8.42

इति ध्यात्वा शिवं सार्द्धं निष्पापं प्रयतो नरः ॥
सर्वकामानवाप्याशु शिवलोके वसेत्सदा

2.8.43

एवं कृत्वा नरो विप्र सर्वपापैः प्रमुच्यते ॥
महाभरे वरे तीर्थे तथा दुर्भरसंज्ञके

2.8.44

भाद्रकृष्णचतुर्दश्यां यः कुर्य्याच्छ्रद्धयाऽन्वितः ॥
शिवपूजां च विधिवद्द्विजपूजां विशेषतः

2.8.45

यः करोति नरो भक्त्या शिवलोके स संवसेत् ॥
एवं कुर्वन्नरो विद्वान्न मुह्यति कदाचन

2.8.46

विष्णुरुद्रौ च तस्यातिसुप्रसन्नौ सनातनौ ॥
तयोः स्मरणमात्रेण सर्वपापैः प्रमुच्यते

2.8.47

अतः किं बहुनोक्तेन विप्रतीर्थमनुत्तमम् ॥
सर्वपापौघशमनं सर्वाभीष्टकरं सदा

2.8.48

अतः परं प्रवक्ष्यामि तीर्थमन्यच्छुभावहम् ॥
यत्र यात्रा तथा दानं विना भाग्यं न संभवेत्

2.8.49

ईशाने दुर्भरस्थानान्महाविद्याभिधं महत् ॥
तस्य दर्शनतो नॄणां सिद्धयः स्युः करे स्थिताः

2.8.2.8.8.50

तदग्रे सरसि स्नात्वा महाविद्यां तु यो नरः ॥
पश्यति श्रद्धया भक्त्या स याति परमां गतिम्

2.8.51

सिद्धपीठं तथा ख्यातं सम्यक्प्रत्ययकारकम् ॥
तत्र पूजा विधातव्या भक्त्या परमया द्विज

2.8.52

मंत्रं यः श्रद्धया विप्र शैवं शाक्तमथापि वा ॥
गाणपत्यं वैष्णवं वा तत्र यः प्रयतो नरः

2.8.53

एकाग्रमानसो विद्वन्नाराध्यावर्तयेत्सदा ॥
तस्य सिद्धिर्भवेन्नित्यं चमत्कारो भवेद्द्विज

2.8.54

तस्मादत्र प्रकर्तव्यं जपादिकमतंद्रितैः ॥
अष्टम्यां च नवम्यां च यात्रा स्यात्प्रतिमासिकी

2.8.55

देयान्यन्नानि बहुशो नानाविधफलानि च ॥
क्षीरेण स्नपनं कार्यं पूजनीया प्रयत्नतः

2.8.56

उच्चाटनादीन्यपि च मोहनादि विशेषतः ॥
अत्र स्थाने विशेषेण दुष्टमन्त्रोऽपि सिध्यति

2.8.57

सिद्धस्थाने परं मोक्षं वशीकरणमुत्तमम् ॥
जपो होमस्तथा दानं सर्वमक्षयतां व्रजेत्

2.8.58

आश्विने शुक्लपक्षस्य नवरात्रिषु सुव्रत ॥
यत्र गत्वा नरो विप्र सर्वपापैः प्रमुच्यते

2.8.59

यदा पूर्वं विनिर्जित्य रावणं लोकरावणम् ॥
समागतो रघुपतिः सीतालक्ष्मणसंयुतः

2.8.2.8.8.60

यत्र गत्वा पदा वीरो भरतो रामकांक्षया ॥
स्थितः सानुचरः श्रीमाञ्छ्रिया परमया युतः

2.8.61

तत्रागमत्सुरगवी प्रादुर्भूता स्रवत्स्तनी ॥
तत्स्तनेभ्यः प्रसुस्राव दुग्धं बहुगुणाधिकम्

2.8.62

तद्भूमिपतितं दुग्धं दृष्ट्वा वानरराक्षसाः ॥
विस्मयं परमं जग्मुः प्रपपुस्ते चराचरम्

2.8.63

किमेतदिति राजेंद्र तानुवाच रघूद्वहः ॥
वसिष्ठो वेत्ति तत्सर्वं पृच्छामस्तं मुनिं वयम्

2.8.64

इत्युक्तास्तु ततः सर्वे वसिष्ठप्रमुखे स्थिताः ॥
ते पप्रच्छुः प्रांजलयः कृत्वा चाग्रेसरं नृपम्

2.8.65

वसिष्ठोऽपि क्षणं ध्यात्वा तमुवाच निराकुलम् ॥
राघवं प्रति संबोध्य सर्वेषामग्रतो मुनिः

2.8.66

॥ ॥ वसिष्ठ उवाच ॥ ॥
शृणु राम महाबाहो कामधेनुरियं शुभा ॥
समागता तव स्नेहात्प्रस्रवंती स्तनात्पयः

2.8.67

दुग्धमध्ये समुद्भूतो रुद्रस्त्वां द्रष्टुमागतः ॥
निष्पन्नकार्य्यं देवानां निर्जितारातिमुत्तमम्

2.8.68

इमं संपूजय क्षिप्रमेतत्कुण्डस्य सन्निधौ ॥
शीघ्रं त्वमपि यत्नेन पूजयेमं शिवं शुभम् ॥
दुग्धेश्वरमिति ख्यातं क्षीरकुण्डे पवित्रकम्

2.8.69

॥ अगस्त्य उवाच ॥ ॥
ततो रघुपतिः श्रीमान्वसिष्ठोक्तविधानतः ॥
पूजयामास तल्लिंगं दुग्धेश्वरमिति स्मृतम्

2.8.2.8.8.70

सीतया सत्कृतं यस्मात्तत्कुण्डं क्षीरसंगमम् ॥
सीताकुंडमिति ख्यातिं जगामानुपमां ततः

2.8.71

सीताकुण्डे नराः स्नात्वा दृष्ट्वा दुग्धेश्वरं प्रभुम् ॥
सर्वपापैः प्रमुच्यंते नात्र कार्या विचारणा

2.8.72

अत्र स्नानं जपो होमो दानं चाक्षयतां व्रजेत् ॥
सीताकुंडे तु संपूज्य सीतारामौ सलक्ष्मणौ

2.8.73

दुग्धेश्वरं च संपूज्य सर्वान्कामानवाप्नुयात् ॥
ज्येष्ठे मासि चतुर्दश्यां यात्रा सांवत्सरी स्मृता

2.8.74

एवं यो विधिवत्कुर्याद्दयाधर्मविशारदः ॥
स याति परमं स्थानं यत्र गत्वा न शोचति

2.8.75

तत्र पूर्वदिशाभागे सुग्रीवरचितं महत् ॥
तीर्थं तपोनिधेस्तत्र वर्तते सन्निधौ शुभम्

2.8.76

यत्र स्नात्वा च दत्त्वा च रामं संपूज्य यत्नतः ॥
तस्मिन्नेव दिने तत्र सर्वान्कामानवाप्नुयात्

2.8.77

तत्प्रत्यग्दिशि वै स्थानं हनुमत्कुण्डमित्यपि ॥
तस्य पश्चिमतो विप्र विभीषणसरः दूरर

2.8.78

तयोः स्नानेन दानेन रामसंपूजनेन च ॥
सर्वान्कामानवाप्नोति तस्मिन्नेव विधानतः ॥
इयं सा परमा मेध्याऽयोध्या धर्मनिधिः स्मृता

2.8.79

इत्युक्तास्तु ततः सर्वे वसिष्ठमुनिमादरात् ॥
पप्रच्छुर्विनयात्क्षिप्रं विभीषणपुरःसराः ॥
कथयस्व तपोराशे कथामेतां सुदुर्लभाम्

2.8.2.8.8.80

अयोध्यायाः परं विप्र माहात्म्यं कथयंति यत् ॥
तत्सर्वं कथय क्षिप्रं श्रुत्वा माहात्म्यमुत्तमम्

2.8.81

यथा यात्रां विधास्यामः क्रमेण च विधानतः ॥
तदस्मासु कृपां कृत्वा कथयस्व तपोनिधे

2.8.82

॥ वसिष्ठ उवाच ॥ ॥
शृण्वन्तु मुनयः सर्वे अयोध्यामहिमाद्भुतम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशय ॥

2.8.83

इदं गुह्यतरं क्षेत्रमयोध्याभिधमुत्तमम् ॥
सर्वेषामेव भूतानां हेतुर्मोक्षस्यः सर्वदा

2.8.84

अस्मिन्सिद्धाः सदा देवा वैष्णवं व्रतमास्थिताः ॥
नानालिंगधरा नित्यं विष्णुलोकाभिकांक्षिणः

2.8.85

अभ्यस्यंति परं योगं युक्तप्राणा जितेन्द्रियाः ॥
नानावृक्षसमाकीर्णे नानाविहगवासिनि

2.8.86

कमलोत्पलशोभाढ्ये सरोभिः समलंकृते ॥
अप्सरोगणसंकीर्णे सर्वदा सेविते शुभे

2.8.87

रोचते हि सदा वासः क्षेत्रे नित्यं हरेरिह ॥
मन्यमाना विष्णुभक्ता विष्णौ सर्वेऽर्पितक्रियाः

2.8.88

यथा मोक्षमिहायांति नान्यत्र हि तथा क्वचित् ॥
अतः श्रेष्ठतमं क्षेत्रं यस्माच्च वसतिर्हरेः ॥
महाक्षेत्रमिदं यस्मादयोध्याभिधमुत्तमम्

2.8.89

नैमिषे च कुरुक्षेत्रे गंगाद्वारे च पुष्करे ॥
स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते तथा

2.8.2.8.8.90

इह संप्राप्यते यद्वत्तत एव विशिष्यते ॥
प्रयागे वा भवेन्मोक्ष इह वा हरिसंश्रयात् ॥
सर्वस्मादपि तीर्थाग्र्यादिदमेव महत्कृतम्

2.8.91

अव्यक्तलिंगैर्मुनिभिः सर्वैः सिद्धैर्महर्षिभिः ॥
इह संप्राप्यते मोक्षो दुर्ल्लभोऽन्यत्र यो मतः ॥

2.8.92

तेभ्यः प्रयच्छति हरिर्योगमैश्वर्य्यमुत्तमम् ॥
आत्मनश्चैव सायुज्यमीप्सितं स्थानमुत्तमम्

2.8.93

ब्रह्मा देवर्षिभिः सार्द्धं श्रीश्च वायुर्दिवाकरः ॥
देवराजस्तथा शक्रो ये चान्येऽपि दिवौकसः

2.8.94

उपासते महात्मानः सर्वत्र हरिमादरात् ॥
अन्येपि योगिनः सिद्धाः क्षेत्ररूपा महाव्रताः ॥
अनन्यमनसो भूत्वा सर्वदोपासते हरिम्

2.8.95

विषयासक्तचित्तोऽपि त्यक्तधर्मरतिर्नरः ॥
इह क्षेत्रे मृतः सोपि संसारी न पुनर्भवेत्

2.8.96

ये पुनर्निगमाधीनाः सत्रस्था विजितेंद्रियाः ॥
व्रतिनश्च निरारंभाः सर्वे ते हरिभाविताः

2.8.97

देहभंगं समापद्य धीमंतः संगवर्जिताः ॥
गतास्ते च परं मोक्षं प्रसादात्सर्वदा हरेः

2.8.98

जन्मान्तरसहस्रेषु युञ्जन्योगी न चाप्नुयात् ॥
तमिहैव परं मोक्षं मरणादपि गच्छति

2.8.99

एतत्संक्षेपतो वच्मि क्षेत्रस्य महिमाद्भुतम् ॥
एतदेव परं स्थानमेतदेव परं पदम् ॥
एतादृङ्नापरं स्थानं पुनरन्यत्र दृश्यते

2.8.2.8.8.100

अत्र गत्वा प्रयत्नेन यात्रा पुण्याभिकांक्षिभिः ॥
कर्तव्या विधिवद्धीराः क्रमेण श्रद्धयान्वितैः ॥

2.8.101

प्रथमेऽहनि कर्त्तव्य उपवासो यतात्मभिः ॥
नियमेन ततः स्नानं दानं चैव स्वशक्तितः

2.8.102

उपावृत्तस्तु पापेभ्यो यस्य वासो गुणैः सह ॥
उपवासः स विज्ञेयः सर्वभोगविवर्जितः

2.8.103

उपवासं विधायासौ चक्रतीर्थे नरः कृती ॥
उपवासदिने स्नायाद्दद्याच्चैव स्वशक्तितः

2.8.104

विप्रं संपूज्य विधिवत्पश्येद्विष्णुहरिं विभुम् ॥
स्वर्गद्वारे नरः स्नात्वा विष्णुं संपूज्य यत्नतः

2.8.105

क्षौरं च कारयेत्तत्र व्रती धर्माभिधे ततः ॥
पापमोचनके स्नानमृणमोचनके ततः

2.8.106

स्नात्वा सहस्रधारायां शेषं संपूज्य यत्नतः ॥
दृष्ट्वा चंद्रहरिं देवं ततो धर्महरिं विभुम्

2.8.107

ततश्चक्रहरिं दृष्ट्वा दद्याच्चैव स्वशक्तितः ॥
ब्रह्मकुण्डे नरः स्नात्वा सर्वकामार्थसिद्धये ॥
महाविद्यासमीपे तु रात्रौ जागरणं चरेत्

2.8.108

ततः प्रभाते विमले पुनरुत्थाय सद्व्रती ॥
स्वर्गद्वारे प्रयत्नेन विधिवत्स्नानमाचरेत्

2.8.109

श्राद्धं च विधिवत्कृत्वा दत्त्वा चैव स्वशक्तितः॥
विष्णुं संपूज्य विधिवद्विप्रानपि पुनःपुनः

2.8.2.8.8.110

दंपती च प्रयत्नेन पूज्यौ वस्त्रादिभिस्तथा ॥
श्रद्धया परया युक्तैर्दातव्या भूरिदक्षिणा

2.8.111

विप्रान्संपूज्य विधिवद्भुंजीत प्रयतो नरः

2.8.112

अन्येद्युरपि चोत्थाय श्रद्धया परया युतः ॥
रुक्मिणीप्रभृतीन्यत्र पश्येत्तीर्थानि च क्रमात्

2.8.113

तत्रतत्र नरः स्नात्वा दत्त्वा चैव स्वशक्तितः ॥
विष्णुं संपूज्य यत्नेन मनोवाक्कायनिर्मलः

2.8.114

यात्रां समापयेत्सम्यङ्नियतात्मा शुचिव्रतः ॥
यत्र क्वापि मृतो धीरः परं मोक्षमवाप्नुयात्

2.8.115

॥ अगस्त्य उवाच ॥ ॥
वसिष्ठोक्तमिति श्रुत्वा कृत्वा चैव यथाविधि ॥
विभीषणपुरोगास्ते बभूवुर्निर्मलास्तदा

2.8.116

इति बहुलविधानैस्तीर्थयात्रां विधाय प्रचुरसुकृतपूर्णास्ते च सुग्रीवमुख्याः ॥
गतमलिनसुदेहाः स्वर्गचर्याप्रयत्नादुपगुणितगुणौघास्ते बभूवुः समस्ताः

2.8.8

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखंडेऽयोध्यामाहात्म्ये महारत्नतीर्थदुर्भरमहाभरतीर्थमहाविद्यातीर्थ सिद्धपीठक्षीरेश्वरसीताकुण्ड सुग्रीवतीर्थहनुमत्कुण्ड विभीषणसरस्तीर्थायोध्यायात्राविधिक्रमवर्णनंनामाष्टमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc