भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.7-7

2.7-7.1

अथ धरणीदेव्यै बकुलमालिकानिवेदितश्रीनिवासोदन्तः ॥
॥ धरण्युवाच ॥ ॥
कैषा बत वरा कन्या युष्माभिः संगता कुतः ॥
किमर्थमागता चेह पूज्यैषा प्रतिभाति मे

2.7-7.2

॥ कन्यका ऊचुः ॥ ॥
एषा दिव्याङ्गना देवी त्वयि कार्यार्थमागता ॥
देवालये सङ्गतेयमस्माभिः शिवसन्निधौ

2.7-7.3

पृष्टावदच्च भवतीं द्रष्टुमेवागतेति वै ॥
शक्या द्रष्टुं राजगृहे मया राज्ञी सुखेन वा

2.7-7.4

एवं पृष्टास्ततो ब्रूमः सहास्माभिश्च गम्यताम्॥
वयं तु धरणीदास्यो गमिष्यामो नृपालयम्

2.7-7.5

इत्युक्तास्माभिरायाता त्वत्समीपं वसुन्धरे॥
भवत्या पृच्छयतामेषा किमित्यागमनं तव

2.7-7.6

श्रीवराह उवाच ॥ ॥
इति तासां वचः श्रुत्वा तामपृच्छद्वसुन्धरा

2.7-7.7

॥ धरण्युवाच ॥ ॥
कुतस्त्वमागता देवि किं वा कार्यं मया तव ॥
ब्रूहि सत्यं करिष्यामि त्वदागमनकारणम्

2.7-7.8

॥
बकुलमालिकोवाच ॥ ॥
वेङ्कटाद्रेः समायाता नाम्ना बकुलमालिका

2.7-7.9

स्वामी नारायणोऽस्माकमास्ते श्रीवेंकटाचले ॥
कदाचिद्धयमारुह्य हंसशुक्लं मनोजवम्

2.7-7.2.1.7.10

मृगयार्थं गतो राज्ञो वेंकटाद्रेः समीपतः ॥
वनानि विचरन्काले शोभने कुसुमाकरे

2.7-7.11

पश्यन्मृगान्गजान्सिंहान्गवयाञ्छरभान्रुरून् ॥
शुकान्पारावतान्हंसान्पत्रिणोऽन्यान्वनान्तरे

2.7-7.12

गजराजं तत्र कञ्चिद्यूथपं मदवर्षिणम् ॥
करेणुसहितं तुंगमन्वगच्छत्सुरोत्तमः

2.7-7.13

॥
अथ श्रीनिवासोक्त्या शंखनृपस्य स्वामितीर्थे तपःकरणम् ॥ ॥
वनाद्वनान्तरं गत्वा नृपं शंखमुपागमत् ॥
तपस्यन्तं बृहच्छैले प्रतिष्ठाप्य जनार्दनम्

2.7-7.14

श्रीभूमिसहितं नित्यमर्चयन्तं च भक्तितः ॥
शंखनागबिलंनाम सरः पावनमुत्तमम्

2.7-7.15

तत्सरस्तीरमासाद्य तुरंगादवरुह्य च ॥
राजवेषं समासाद्य तमपृच्छन्नृपोत्तमम्

2.7-7.16

क्रियते किं नृपश्रेष्ठ पादेऽस्मिच्छेषभूभृतः

2.7-7.17

॥ शंख उवाच ॥ ॥
अहं हैहयदेशीयः पुत्रः श्वेतस्य भूभृतः ॥
महाविष्णोः प्रीतयेऽत्र कृतवानखिलान्क्रतून्

2.7-7.18

अदर्शनान्महाविष्णोर्निर्विण्णोहं नृपात्मज ॥
तदानीमवदद्दिव्या वाणी सर्वार्त्तिनाशिनी

2.7-7.19

राजन्नात्र भविष्यामि प्रत्यक्षस्ते वचः शृणु ॥
गच्छ नारायणाद्रिं त्वं तपः कुर्विति मां स्फुटम्

2.7-7.2.1.7.20

ततो देशमहं त्यक्त्वा तपसाऽऽराधयाम्यहम्॥
अत्र देवं नृपाचिंत्यं प्रतिष्ठाप्य श्रियः पतिम्

2.7-7.21

अगस्त्यानुग्रहान्नित्यमर्चयामि विधानतः ॥
इति तस्य वचः श्रुत्वा सोत्प्रासं प्राह तं विभुः॥

2.7-7.22

गच्छ नारायणाद्रिं त्वमस्य पादे किमास्यते ॥
आरुह्यानेन मार्गेण पश्चिमे शिखरे स्थितम्

2.7-7.23

प्रणम्य विष्वक्सेनं त्वं बालं न्यग्रोधमूलतः ॥
स्वामिपुष्करिणीं गत्वा स्नात्वा तीरेऽथ पश्चिमे

2.7-7.24

अश्वत्थं तत्र वल्मीकं द्रक्ष्यसे नृपनन्दन ॥
तयोर्मध्यं समासाद्य तपः कुर्वित्यचोदयत्

2.7-7.25

कश्चिच्छ्वेतो वराहोऽस्मिन्वल्मीके चरति धुवम् ॥
स तु पुण्यवतामेव दर्शनं याति भूपते

2.7-7.26

॥ ॥ श्रीवराह उवाच ॥ ॥
इत्यादिश्य हयारूढो जगाम मृगयां विभुः ॥
चरन्वनाद्वनं सुभ्रूः समासाद्यारणीं नदीम्

2.7-7.27

अवरुह्य हयात्तत्र विचचार तटे शुभे ॥
वनान्तादागतो वायुः पद्मकह्लारशीतलः ॥
श्रमापनयनो मन्दं सिषेवे पुरुषोत्तमम्

2.7-7.28

तरवः पुष्पवर्षाणि विकिरन्तः सिषेविरे ॥
एवं स विचरन्देवः पुष्पभारानतांस्तरून्

2.7-7.29

विचिन्वन्गजराजं तं पुष्पलावीर्ददर्श ह ॥
कन्याः सुवेषा रुचिरा मेघेष्विव शतह्रदाः

2.7-7.2.1.7.30

।
तासां मध्यगतां तन्वीं ददर्शातिमनोहराम् ॥
लक्ष्मीसमां हेमवर्णां तस्यां सक्तमना अभूत्

2.7-7.31

तां गृध्नुराह ताः कन्याः केयमित्येव पूरुषः ॥
उक्तस्ताभिरियं कन्या वियद्राज्ञो महाबल

2.7-7.32

इदं श्रुत्वा वचस्तासां हयमारुह्य वेगवान् ॥
आजगामाशु भगवान्स्वालयं रुचिरं गिरिम्

2.7-7.33

तत्र स्वालयमासाद्य स्वामिपुष्करिणीतटे ॥
मामाहूयावदद्देवो हला बकुलमालिके

2.7-7.34

वियद्राजपुरं गत्वा प्रविश्यान्तःपुरं सखि ॥
तत्पत्नीं धरणीं प्राप्य पृष्ट्वा कुशलमेव च

2.7-7.35

याचस्व तनयां तस्या रुचिरां कमलालयाम् ॥
राज्ञोभिमतमाज्ञाय शीघ्रमागच्छ भामिनि

2.7-7.36

इत्थं दैवेन चाज्ञप्ता देवि त्वद्गृहमागता ॥
यथोचितं कुरुष्वेह राज्ञा मंत्रियुतेन च

2.7-7.37

॥
अथ बकुलमालिकोक्त्या धरण्यादिकृतविवाहनिश्चयः ॥ ॥
कन्यया च विचार्यैव प्रोच्यतामुत्तरं वचः

2.7-7.38

॥ श्रीवराह उवाच ॥ ॥
अथ तस्या वचः श्रुत्वा प्रीता राज्ञी बभूव ह ॥
आहूयाकाशराजं तमुपेत्य कमलालयाम्

2.7-7.39

मंत्रिमध्येऽवदद्देवी वचनं बकुलस्रजः ॥ श्रु
त्वा प्रीतोऽवदद्राजा मंत्रिणः सपुरोहितान्

2.7-7.2.1.7.40

॥ आकाशराज उवाच ॥ ॥
कन्या त्वयोनिजा दिव्या सुभगा कमलालया ॥
अर्थिता देवदेवेन वेंकटाद्रिनिवासिना

2.7-7.41

पूर्णो मनोरथो मेऽद्य ब्रूत किं संमतं तु वः ॥
श्रुत्वा मंत्रिगणाः सर्वे राज्ञो वचनमुत्तमम्

2.7-7.42

प्रोचुः सुप्रीतमनसो वियद्राजं महीपतिम् ॥
वयं कृतार्था राजेन्द्र कुलं सर्वोन्नतं भवेत्

2.7-7.43

भवत्कन्येयमतुला श्रिया सह रमिष्यति ॥
दीयतां देवदेवाय शार्ङ्गिणे परमात्मने

2.7-7.44

अयं वसन्तः श्रीमांश्च शुभं शीघ्रं विधीयताम्

2.7-7.45

॥
अथ बृहस्पत्युक्त्या विवाहलग्नस्थिरीकरणम् ॥ ॥
आहूय धिषणं लग्नं विवाहार्थं विधीयताम्

2.7-7.46

तथास्त्वित्याह्वयामास सुरलोकाद्बृहस्पतिम् ॥
पप्रच्छ कन्यावरयोर्विवाहार्थं नरेश्वरः

2.7-7.47

॥ राजोवाच ॥ ॥
कन्याया जन्मनक्षत्रं मृगशीर्षमिति स्मृतम् ॥
देवस्य श्रवणर्क्षन्तु तयोर्योगो विचार्यताम्

2.7-7.48

श्रुत्वाऽब्रवीत्स धिषणस्तयोरुत्तरफल्गुनी ॥
संमता सुखवृद्ध्यर्थं प्रोच्यते दैवचिंतकैः

2.7-7.49

तयोरुत्तरफल्गुन्यां विवाहः क्रियतामिति ॥
वैशाखमासे विधिवत्क्रियतामिति सोऽब्रवीत्

2.7-7.2.1.7.50

॥ श्रीवराह उवाच ॥ ॥
राजा तु धिषणं तत्र संपूज्याथ विसृज्य च ॥
देवस्य दूतिकामाह गच्छ देवालयं शुभे ॥

2.7-7.51

वैशाखे देवदेवाय कल्याणं वद सुव्रते ॥
वैवाहिकविधानं तु कृत्वा चागम्यतामिति

2.7-7.52

ततो देव्याः प्रियकरं शुकं दूतं तया सह ॥
विसृज्य वायुं स्वसुतमिन्द्राद्यानयनेऽसृजत्

2.7-7.53

॥ अथ विश्वकर्मादिकृतपुरालंकारादिक्रमः ॥ ॥
आहूय विश्वकर्माणं पुरालंकारकर्मणि ॥
नियोजयामास सोऽपि निर्ममे निमिषांतरात्

2.7-7.54

इन्द्रोऽसृजत्पुष्पवृष्टिं ननृतुश्चाप्सरोगणाः ॥
धनदो धनधान्याद्यैः पूरयामास वेश्म तत् ॥

2.7-7.55

यमस्तु रोगरहितांश्चकार मनुजान्भुवि ॥
वरुणो रत्नजालानि मौक्तिकादीन्यपूरयत्

2.7-7.56

एवं संपाद्य सर्वाणि ययुर्देवा वृषाचलम् ॥

2.7-7.57

॥ अथ शुकेन सह बकुलायाः श्रीनिवाससमीपे गमनम् ॥
॥ श्रीवराह उवाच ॥ ॥
ततः सा हयमारुह्य शुकेन सहिता ययौ ॥
श्रीवेंकटाद्रिमासाद्य देवालयसमीपतः

2.7-7.58

अवरुह्य तुरंगात्सा सशुकाऽभ्यन्तरं ययौ ॥
दृष्ट्वा देवं रत्नपीठे श्रिया सह सुलोचनम् ॥

2.7-7.59

प्रणम्य ह्यवदत्प्रीता कृत्यं तत्र कृतं विभो ॥
मांगल्यवार्तां वक्तुं वै शुक एष समागतः

2.7-7.2.1.7.60

॥ अथ श्रीनिवासाय शुकावेदित पद्मावतीपरिणयवृत्तान्तः ॥ ॥
वदेति देवेनाज्ञप्तः शुको नत्वा तमब्रवीत् ॥
॥ शुक उवाच ॥ ॥
त्वां प्रत्याह सुता भूमेर्मामंगीकुरु माधव

2.7-7.61

वदामि तव नामानि स्मरामि त्वद्वपुस्सदा ॥
ध्रियन्ते तव चिह्नानि भुजाद्यंगै रमापते

2.7-7.62

त्वद्भक्तानर्चयामीह पंचसंस्कारसंयुतान् ॥
त्वत्प्रीतये हि कर्माणि करोमि मधुसूदन

2.7-7.63

एवं सदैवाचरंत्याः पित्रोरनुमते मम ॥
कुरु प्रसादं देवेश मामंगीकुरु माधव

2.7-7.64

इति विज्ञापयामास कमलस्था धरासुता ॥
शुकस्य वचनं श्रुत्वा सुप्रियं त्वात्मनो हरिः

2.7-7.65

॥ अथ पद्मावत्याः शुकदत्तश्रीनिवासमालाधारणम्॥
॥ श्रीभगवानुवाच ॥ ॥
कर्तुं कल्याणमुद्वाहमागमिष्यामि चाऽमरैः ॥
शुक गच्छ वदैवं तामित्थं देवोऽब्रवीदिति

2.7-7.66

शुकः श्रुत्वा देववाक्यमादाय वनमालिकाम्॥
देवदत्तां ययौ शीघ्रं वियद्राजसुतां प्रति

2.7-7.67

तुलसीमालिकां दत्त्वा मृगनाभिसुगंधिनीम् ॥
प्रणम्य देवीमवदच्छुको देववचः शुभम्

2.7-7.68

श्रुत्वा तन्मालिकां गृह्य भूमिजा शिरसा दधौ ॥
चक्रेऽलंकारमुचितं देवागमनकांक्षिणी ॥

2.7-7.69

वियद्राजोऽपि सानन्दमिन्दुमाहूय सादरम्॥
अन्नं विधीयतां राजन्विविधं रससंयुतम्

2.7-7.2.1.7.70

विष्णोर्नैवेद्ययोग्यं यत्परमान्नं विधीयताम् ॥
देवानां च ऋषीणां च नराणामपि संमतम्

2.7-7.71

चतुर्विधं सुगन्धाढ्यममृतांशैः सुधाकर ॥
एवं कृत्वा संविधानं प्रतीक्ष्यागमनं विभोः

2.7-7.72

सभायां मंत्रिसहितः समास्त प्रीतमानसः ॥
पुत्रीमलंकृतां कृत्वा धरणीसहितो नृपः

2.7-7.7

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे धरणीदेव्यै बकुलमालिकानिवेदित श्रीनिवासोदन्तकमलालयाकल्याणविध्यादिवृत्तांतवर्णनंनाम सप्तमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc