भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.6-7

2.6-7.1

॥ अथ बकुलमालिकां प्रति सखीविनिवेदितपद्मावत्युदन्तः ॥
॥ योषित ऊचुः ॥ ॥
वयमाकाशराजस्य शुद्धान्तनिलयाः स्त्रियः ॥
सख्यः पद्मालयाया वै दुहितुर्वसुधापतेः

2.6-7.2

राजपुत्रीं पुरस्कृत्य गताः पूर्वं वनांतरम् ॥
कुर्वंत्यः पुष्पावचयं राजपुत्र्यर्थमाकुलाः

2.6-7.3

वृक्षमूले समासीनास्तत्र पश्याम पूरुषम् ॥
इन्द्रनीलमणिश्याममिन्दिरामन्दिरोरसम्

2.6-7.4

ईषत्स्मितमुखं चारुपीनदीर्घभुजद्वयम् ॥
मृष्टपीतांबरं हेमबाणबाणासनोज्ज्वलम्

2.6-7.5

सुवर्णमुकुटं हारकेयूरादिविभूषितम् ॥
तं तु पद्मालया दृष्ट्वा सखी कमललोचना

2.6-7.6

द्रुतहेमनिभाकारा पश्य पश्येति साब्रवीत् ॥
पश्यन्तीनां तदास्माकं गतोऽन्तर्धानमाशु सः

2.6-7.7

सा सखी मूर्च्छितास्माभिनीता राजगृहं ततः

2.6-7.8

॥
अथ पद्मावतीमुद्दिश्य दैवज्ञं प्रति वियद्राजकृतप्रश्नादिः ॥ ॥
दृष्ट्वाऽस्वस्थां नृपः पुत्रीमपृच्छद्दैवचिन्तकम् ॥
वद विप्रेन्द्र पुत्र्या मे ग्रहचारफलं मुने

2.6-7.9

बृहस्पतिसमो विप्रो विचार्यात्मनि खेचरान् ॥
अनुकूला ग्रहाः सर्वे तव पुत्र्या नृपोत्तम

2.6-7.2.1.6.10

किन्तु नित्यं ग्रहफलं किंचिद्भ्रांतिकरं नृप ॥
तमुवाच पुनर्धीमान्प्रश्नकालं विचार्य च

2.6-7.11

छायां गुणित्वा लग्नं च तत्फलानि विचार्य च ॥
लग्ने लग्नाधिपश्चन्द्रः केंद्रे चैव बृहस्पतिः

2.6-7.12

निद्राति दिनपक्षी तु प्रश्नपक्षी तु राज्यगः ॥
शृणु राजन्फलं तस्य स्वास्थ्यमेव भविष्यति

2.6-7.13

उत्तमः पुरुषः कश्चिदागतः कन्यकां प्रति ॥
तं दृष्ट्वा मूर्च्छिता पुत्री तेन योगं समेष्यति

2.6-7.14

तेनैव प्रेषिता काचिदागमिष्यति कन्यका ॥
सा तु वक्ष्यति यद्वाक्यं तद्धितं ते भविष्यति

2.6-7.15

तत्कुरुष्व महाराज सत्यंसत्यं वदाम्यहम् ॥
किं च सर्वार्थदं यत्तु सर्वव्याधिविनाशनम्

2.6-7.16

वक्ष्यामि तत्कुरुष्वाद्य पुत्र्यास्तव सुखावहम् ॥
कारयागस्त्यलिंगस्य ब्राह्मणैरभिषेचनम्

2.6-7.17

इत्युक्ताथ गृहं यातो राजानं दैवचितकः ॥

2.6-7.18

॥ अथ दैवज्ञोक्त्यागस्त्यलिंगार्चनाय विप्रादिप्रेषणम् ॥ ॥
आकाशराजोऽपि तदा विप्रानाहूय वैदिकान् ॥
अभ्यर्च्याज्ञापयामास गत्वा देवालयं द्विजाः

2.6-7.19

महाभिषेकं शम्भोश्च कुरुध्वं मंत्रपूर्वकम् ॥
इत्यनुज्ञाप्य तानस्मानाहूयाभ्यवदच्छुभे

2.6-7.2.1.6.20

महाभिषेकसम्भारान्सम्पादयत कन्यकाः ॥
इत्याज्ञप्ता नृपेणैव वयं देवालयं गताः

2.6-7.21

ब्रूहि त्वं सुभगेऽस्माकं त्वदागमनमंजसा ॥
कुतोसि कस्य वार्थेन क्व वा जिगमिषा हि ते

2.6-7.22

दिव्याश्वमधिरुह्येमं देवलोकादिवागता

2.6-7.23

॥ श्रीवराह उवाच ॥ ॥
इति ताभिस्तदा पृष्टा हृष्टा बकुलमालिका ॥
प्रोवाच वाचं मधुरां हर्षयन्तीव बालिकाः

2.6-7.24

॥ बकुलमालिकोवाच ॥ ॥
श्रीवेंकटाद्रेः प्राप्ताहं नाम्ना बकुलमालिका ॥
धरणीं द्रष्टुकामाहमारुह्येमं तुरंगमम्

2.6-7.25

द्रष्टुं शक्या भवेद्देवी किमु तत्र नृपालये ॥
इति तस्या वचः श्रुत्वा ताः प्रोचुर्नृपकन्यकाः

2.6-7.26

अस्माभिः सहिता त्वं वै द्रक्ष्यसे धरणीं शुभे ॥
इत्युक्ता सा ततस्ताभिरागता नृपमंदिरम्

2.6-7.27

आगच्छन्तीषु तास्वेवं धरणी तु पुलिन्दिनीम्

2.6-7.28

॥ अथ धरणीकृत प्रश्नस्य पुलिन्दिनीप्रतिवचनम् ॥ ॥
आयान्तीं वीथिकायां सा सगुंजाशंखभूषिताम् ॥
शिशुं स्तनं धयं पृष्ठे बद्ध्वा वस्त्रांचलेन वै

2.6-7.29

वदामि सत्यं शृणुत भूतं भव्यं भविष्यकम् ॥
वदन्ती वीथिवीथीषु तामाहूय शुचिस्मिता

2.6-7.2.1.6.30

स्वर्णशूर्पं समादाय तस्मिन्मुक्ता निधाय च ॥
त्रिप्रस्थमात्रांस्त्रीन्राशीन्कृत्वा तस्यै निधाय च

2.6-7.31

वद सत्यं त्वमेष्यद्वा भूतमेव वा ॥
इत्येवं धरणी देवी पृच्छंती तां स्थिताऽभवत्

2.6-7.32

पृष्टा सावददस्यास्तु मनसा यद्विचिन्तितम्॥
मध्यराशौ चिन्तितं ते वद कल्याणि मे ऋजु

2.6-7.33

ओमित्याहाथ धरणी पुलिंदां राजवल्लभा ॥
॥ धरण्युवाच ॥ ॥
राशिरुक्तः फलं ब्रूहि धनराशिं ददामि ते

2.6-7.34

॥ पुलिन्दोवाच ॥ ॥
सत्यं वदामि ते सुभ्रु शिशोरन्नं प्रयच्छ मे ॥
इत्युक्ता सा तु धरणी स्वर्णपात्रेऽन्नमाददे

2.6-7.35

दत्त्वा तस्यै पुलिंदिन्यै सत्यं ब्रूहीति सावदत्॥
सक्षीरमन्नमादाय दत्त्वा पुत्राय भामिनी

2.6-7.36

सा सत्यमवदत्सुभ्रूर्दुहितुर्देहशोषणम्॥
पुरुषादागतं भीरु तद्रूपाऽदर्शनादियम्

2.6-7.37

अंगतापं समापन्ना ह्यनंगशरपीडिता ॥
स तु देवादिदेवो वै वैकुण्ठादागतः स्वयम्

2.6-7.38

श्रीवेंकटाद्रिशिखरे स्वामिपुष्करिणीतटे ॥
मायावी परमानंदः श्रिया सह रमापतिः

2.6-7.39

कामरूपी विहरते भक्ताभीष्टप्रदो हरिः ॥
स तुरंगं समारुह्य विहरन्काननान्तरे

2.6-7.2.1.6.40

आगत्योपवनं राज्ञि तव कन्यां स दृष्टवान् ॥
रमासमामिमां दृष्ट्वा स्वयं कामवशं गतः

2.6-7.41

स्वसखीं ललितां देवः प्रेषयिष्यति तेंतिकम् ॥
रमेव तं समेत्यैषा रमिष्यति सुखं चिरम्

2.6-7.42

एतत्सत्यं मम वचः पश्याद्यैव नृपात्मजे ॥
पुत्रस्यान्नं प्रयच्छेति तूष्णीमास पुलिन्दिनी

2.6-7.43

अन्नं दत्त्वा पुनर्भूरि तस्यै तां विससर्ज ह ॥
तस्यां विनिर्गतायां तु पुलिंदिन्यामनिन्दिता

2.6-7.44

उत्थाय चांगणात्तस्माद्विवेशांतःपुरं शुभम् ॥
यत्र पद्मालया कन्या समास्ते स्वसखीवृता

2.6-7.45

गत्वा पुत्रीसमीपस्था कन्यां कामातुरां सुताम्॥
पुत्रि किं ते करिष्यामि वस्तु किं वा प्रियं शुभे

2.6-7.46

इति मात्राभिपृष्टा सा मन्दमाह मनस्विनी

2.6-7.47

॥ अथ पद्मावती निवेदित भगवद्भागवतयोर्लक्षणानि ॥ ॥
नेत्राभिरामं यल्लोके सतामपि मनःप्रियम् ॥
यद्द्रष्टुकामा ब्रह्माद्या यत्तु सर्वगतं महत्

2.6-7.48

तेजसामपि तेजस्वि देवानामपि दैवतम् ॥
भक्तैस्सद्भिरिह प्राप्यमभक्तैर्न कदाचन

2.6-7.49

तस्मिन्नेव मनो मेऽम्ब वस्तुनीह प्रवर्तते॥
तदेवान्विष्यतां मातर्भक्तानां सर्वकामदम्

2.6-7.2.1.6.50

॥ श्रीवराह उवाच ॥ ॥
एतच्छ्रुत्वाथ धरणी तामपृच्छत्पुनः सुताम् ॥
तद्भक्तलक्षणं ब्रूहि यैः प्राप्यं तत्सुलोचने

2.6-7.51

॥ पद्मालयोवाच ॥ ॥
भक्तानां लक्षणं मातः शृणु गुह्यं समाहिता ॥
शंखचक्रांकिता नित्यं भुजयुग्मे वसुन्धरे॥

2.6-7.52

ऊर्ध्वपुंड्रं सान्तरालं तेषामेव विशेषतः ॥
पुण्ड्रानि द्वादश पुनर्धारयंति तथापरे

2.6-7.53

ललाटोदरहृत्कण्ठे जठरे पार्श्वयोरपि ॥
कूर्परयोर्भुजद्वन्द्वे पृष्ठे च गलपृष्ठके

2.6-7.54

केशवादीनि नामानि द्वादशांगेषु द्वादश ॥
वासुदेवेति तन्मूर्ध्नि धारयंति नमोऽस्त्विति

2.6-7.55

तेषां तु नियमान्वक्ष्ये मातः शृणु मनोरमान् ॥
वेदपारायणरताः कर्म कुर्वंति वैदिकम्

2.6-7.56

सत्यं वदन्ति ये देवि नासूयंति परान्क्वचित् ॥
परनिंदां न कुर्वंति परस्वं न हरंति च

2.6-7.57

न स्मरंति न पश्यन्ति न स्पृशंति कदाचन ॥
परदारान्सुरूपांश्च ये च तान्विद्धि वैष्णवान्

2.6-7.58

सर्वभूतदयावंतः सर्वभूतहिते रताः ॥
सदा गायंति देवेशमेतान्भक्तानवेहि वै

2.6-7.59

येन केन च सन्तुष्टाः स्वदारनिरताश्च ये ॥
वीतरागभयक्रोधास्तान्भक्तान्विद्धि वैष्णवान्

2.6-7.2.1.6.60

एवंविधैर्गुणैर्युक्ताः पंचायुधधरा अपि ॥
पित्रा चाचार्यरूपेण शिष्टेनान्येन वा पुनः

2.6-7.61

स्वगृह्योक्तविधानेन वह्निमादाय वै बुधः ॥
चक्राद्यायुधमंत्रेण जुहुयात्षोडशाहुतीः

2.6-7.62

मूलमंत्रेण सूक्तेन पौरुषेण ततः परम् ॥
जातवेदः सुमंत्रेण पश्चादष्टोत्तरं शतम्

2.6-7.63

हुत्वा महाव्याहृतिभिश्चक्रादींस्तत्र तापयेत् ॥
सह्यान्सुतप्तान्गुरुणा मंत्रवद्धारयेद्बुधः

2.6-7.64

भुजद्वये शंखचक्रे मूर्ध्नि शार्ङ्गशरौ तथा ॥
ललाटे तु गदा धार्या हृदये खड्गमेव च

2.6-7.65

एवं धार्याणि पञ्चैव विष्णुभक्तैर्मुमुक्षुभिः ॥
अथवा भुजयोश्चक्र शंखौ चैव सुलक्षणौ

2.6-7.66

एवं लाञ्छनयुक्ता ये भक्तास्ते वैष्णवाः स्मृताः ॥
तैरेव लभ्यं तद्ब्रह्म सदाचारसमन्वितैः

2.6-7.67

तस्मिन्नेव मम प्रीतिस्तत्प्राप्तिं कांक्षते मनः ॥
मातर्विष्णुविनान्येषु वाञ्छा काचिन्न जायते

2.6-7.68

स्मरामि श्यामलं विष्णुं वदामि हरिमच्युतम् ॥
तेनैव मातर्जीवामि तद्योगे चिन्त्यतां विधिः

2.6-7.69

॥ श्रीवराह उवाच ॥ ॥
इत्युक्त्वा मातरं दीना विररामाम्बुजानना ॥
तच्छ्रुत्वा चिन्तयामास विष्णुः प्रीतः कथं भवेत्

2.6-7.2.1.6.70

अथ बकुलमालिकया सार्द्धं सखीनां धरणीसमीप आगमनम्॥
एतस्मिन्नंतरे कन्या अगस्त्येशं समर्च्य च ॥
आगता धरणीं द्रष्टुं सहैव बकुलस्रजा

2.6-7.71

आगतान्ब्राह्मणान्साथ पूजयित्वा सुभोजनैः ॥
दत्त्वाथ दक्षिणाः पूर्णा वस्त्रालंकारसंयुताः

2.6-7.72

आशिषौ वाचयित्वाथ वांछितार्थस्य सिद्धये ॥
विसृज्य व्राह्मणान्सर्वानथापृच्छत्स्वयोषितः

2.6-7.73

पूजयित्वा ह्यगस्त्येशमागतास्ता मनस्विनीः

2.6-7.6

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे बकुलमालिकां प्रति सखीविनिवेदितपद्मावत्युदन्तविष्णुभक्तलक्षणादिवर्णनंनाम षष्ठोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc