भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 2.5

2.5.1

॥ व्यास उवाच ॥ ॥
भगवन्ब्रूहि तत्त्वेन कथं निर्बंधतो मुनिः ॥
विश्वामित्रो निजं शिष्यं कौत्सं क्रोधेन तादृशम्

2.5.2

दुष्प्राप्यमर्थं यत्नेन बहु प्रार्थितवांस्तदा ॥
एतत्सर्वं च कथय मयि यद्यस्ति ते कृपा

2.5.3

॥ अगस्त्य उवाच ॥ ॥
शृणु द्विज कथामेतां सावधानेंद्रियः स्वयम् ॥
विश्वामित्रो मुनिश्रेष्ठः स दिव्यज्ञानलोचनः

2.5.4

निजाश्रमे तपो दुर्गं चकार प्रयतो व्रती ॥
एकदा तमथो द्रष्टुं दुर्वासा मुनिरागतः

2.5.5

आगत्य च क्षुधाक्रांत उच्चैः प्रोवाच स द्विजः ॥
भोजनं दीयतां मह्यं क्षुधापीडितचेतसे ॥
पायसं शुचि चोष्णं च शीघ्रं क्षुधार्त्तिने द्विज

2.5.6

इति श्रुत्वा वचः क्षिप्रं विश्वामित्रः प्रयत्नतः ॥
स्थाल्यां पायसमादाय तं समर्प्य ततः स्वयम्

2.5.7

तदादायोत्थितं दृष्ट्वा दुर्वासास्तं विलोकयन् ॥
उवाच मधुरं वाक्यं मुनिं लक्षणतत्परः

2.5.8

क्षणं सहस्व विप्रेन्द्र यावत्स्नात्वा व्रजाम्यहम् ॥
तिष्ठतिष्ठ क्षणं तिष्ठ आगच्छाम्येष साप्रतम्

2.5.9

इत्युक्त्वा स जगामैव दुर्वासाः स्वाश्रमं तदा

2.5.2.8.5.10

विश्वामित्रस्तपोनिष्ठस्तदा सानुरिवाऽचलः ॥
दिव्यं वर्षसहस्रं स तस्थौ स्थिरमतिस्तदा

2.5.11

तस्य शुश्रूषणपरो मुनिः कौत्सो यतव्रतः ॥
बभूव परमोदारमतिर्विगतमत्सरः

2.5.12

पुनरागत्य स मुनिर्दुर्वासा गतकल्मषः ॥
भुक्त्वा च पायसं सद्यः स जगाम निजाश्रमम्

2.5.13

तस्मिन्गते मुनिवरे विश्वामित्रस्तपोनिधिः ॥
कौत्सं विद्यावतां श्रेष्ठं विससर्ज गृहान्प्रति

2.5.14

स विसृष्टो गुरुं प्राह दक्षिणा प्रार्थ्यतामिति ॥
विश्वामित्रस्तु तं प्राह किं दास्यसि दक्षिणाम् ॥
दक्षिणा तव शुश्रूषा गृहं व्रज यतव्रत

2.5.15

पुनःपुनर्गुरुं प्राह शिष्यो निर्बन्धवान्यदा ॥
तदा गुरुर्गुरुक्रुद्धः शिष्यं प्राह च निष्ठुरम्

2.5.16

सुवर्णस्य सुवर्णस्य चतुर्दश समाहर ॥
कोटीर्मे दक्षिणा विप्र पश्चाद्गच्छ गृहं प्रति

2.5.17

इत्युक्तो गुरुणा कौत्सो विचार्य समुपागमत् ॥
काकुत्स्थं दिग्विजेतारं ययाचे गुरुदक्षिणाम्

2.5.18

इत्युक्तं ते मुनिवर त्वया पृष्टं हि यत्पुनः ॥
अतोऽन्यच्छृणु ते वच्मि तीर्थकारणमुत्तमम्

2.5.19

तस्माद्दक्षिणदिग्भागे संभेदः सिद्धसेवितः ॥
तिलोदकीसरय्वोश्च संगत्या भुवि संश्रुतः

2.5.2.8.5.20

तत्र स्नात्वा महाभाग भवन्ति विरजा नराः ॥
दशानामश्वमेधानां कृतानां यत्फलं भवेत् ॥
तदाप्नोति स धर्मात्मा तत्र स्नात्वा यतव्रतः

2.5.21

स्वर्णादिकं च यो दद्याद्ब्राह्मणे वेदपारगे ॥
शुभां गतिमवाप्नोति अग्निवच्चैव दीप्यते

2.5.22

तिलोदकीसरय्वोश्च संगमे लोकविश्रुते ॥
दत्त्वान्नं च विधानेन न स भूयोऽभिजायते

2.5.23

उपवासं च यः कृत्वा विप्रान्संतर्पयेन्नरः ॥
सौत्रामणेश्च यज्ञस्य फलमाप्नोति मानवः

2.5.24

एकाहारस्तु यस्तिष्ठेन्मासं तत्र यतव्रतः ॥
यावज्जीवकृतं पापं सहसा तस्य नश्यति

2.5.25

नभस्य कृष्णामावस्यां यात्रा सांवत्सरी भवेत् ॥
रामेण निर्मिता पूर्वं नदी सिंधुरिवापरा

2.5.26

सिंधुजानां तुरंगाणां जलपानाय सुव्रत ॥
तिलवच्छ्याममुदकं यतस्तस्यां सदा बभौ

2.5.27

तिलोदकीति विख्याता पुण्यतोया सदा नदी ॥
संगमादन्यतो यस्यां तिलोदक्यां शुचिव्रतः ॥
स्नातो विमुच्यते पापैः सप्तजन्मार्जितैरपि

2.5.28

तस्मात्तिलोदकीस्नानं सर्वपापहरं मुने ॥
कर्त्तव्यं सुप्रयत्नेन प्राणिभिर्धर्मकांक्षिभिः ॥
स्नानं दानं व्रतं होमं सर्वमक्षयतां व्रजेत्

2.5.29

इति विविधविधानैस्तीर्थयात्रांक्रमेण प्रथितगुणविकासः प्राप्तपुण्योविधाय ॥
हरिमुपहृतभावः पूजयन्सर्वतीर्थं व्रजति परमधाम न्यस्तपापः कथञ्चित्

2.5.5

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोयामाहात्म्ये तिलोदर्काप्रभाववर्णनंनाम पञ्चमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc