स्कन्द पुराण · श्लोक 2.35-2
॥ जैमिनिरुवाच ॥ ॥
अतः परं प्रवक्ष्यामि रथरक्षाकरं विधिम्॥
भूतप्रेतादयो घोरा दारुणान्यद्भुतानि च
न बाधंते रथान्येन मुनयो वश्च यन्मतम् ॥
प्रत्यहं पूजयेद्देवान्कृष्णादीन्ध्वजसंस्थितान्
गंधपुष्पाक्षतैर्माल्यैरुपहारैरनुत्तमैः ॥
गीतनृत्तादिकैश्चैव धूपदीपनिवेदनैः ॥
दिक्पालेभ्यो बलिं दद्यात्पायसान्नेन चान्वहम् ॥
भूतप्रेतपिशाचेभ्यो दद्याच्च बलिमुत्तमम्
रक्षेच्च यत्नतस्तान्वै रथानारोहणोचितान् ॥
यथा न कश्चिदारोहेन्नरो ग्राम्यपशुस्तथा ॥
पक्षिणश्च विशेषेण येषां वासो न शोभनः
अष्टमेऽह्नि पुनः कृत्वा दक्षिणाभिमुखान्रथान्॥
विभूषयेद्वस्त्रमाल्यपताकैश्चामरादिभिः
नवम्यां वासयेद्देवांस्तेषु प्रातः समृद्धिमत्
दक्षिणाभिमुखा यात्रा विष्णोरेषा सुदुर्लभा ॥
यात्रा प्रयत्नतः सा हि भक्तिश्रद्धासमन्वितैः
यथा पूर्वा तथा चेयं द्वे च मुक्तिप्रदायिके ॥
यात्राप्रवेशौ देवस्य एक एवोत्सवो मतः
पुराविदो वदंत्येतां यात्रां नवदिनात्मिकाम् ॥
एषा त्र्यवयवा यात्रा संपूर्णा यैरुपासिता
सुसंपूर्णफलस्तेषां महावेदीमहोत्सवः
गुंडिचामंडपात्कृष्णमायांतं दक्षिणामुखम् ॥
रथस्थं बलिनं भद्रां पश्यंतो मुक्तिभागिनः । १२ ॥
उत्तराभिमुखान्दृदृष्ट्वा लभंते यादृश फलम् ॥
रामादीन्स्यंदनस्थान्ये पश्यंत्येवं महोदयान् ॥
यादृशं फलमाप्नुयुस्तादृशं दक्षिणामुखान् ॥
पदा यांतं रथे यांतं यः पश्येद्दक्षिणामुखम् ॥
तस्य जन्म कृतार्थं स्याद्वाजिमेधः पदे पदे
स्तुतिभिः प्रणिपातैश्च पुष्पवृष्टिभिरेव च ॥
नानानृत्तोपहारैश्च व्यजनच्छत्रचामरैः ॥
उपायनैर्बहुविधैरुपतिष्ठेद्रथाग्रतः
नीलाचलं समायांतं रथस्थं दक्षिणामुखम्।
ये पश्यंति हृषीकेशं सुभद्रां लांगलायुधम्
कामकल्पतरुं पुंसां दर्शनादेव मुक्तिदम् ॥
ते व्रजंति महात्मानो वैकुण्ठ भवनं हरेः
रथेन विचरंतं तं सिन्धुतीरे जनार्दनम् ॥
पश्यन्तं करुणापांगैः प्रणतान्पुरतो नरान्
दक्षिणाभिमुखं यांतं प्रासादं नीलभूधरे ॥
सर्वतीर्थनिधिं सर्वदानकल्पतरुं हरिम्
स्तुवंतः प्रणमंतश्च श्रद्दधानाश्च ये नराः ॥
न ते पुनरिहायांति ब्रह्मलोकस्थिता ध्रुवम्
मुनयः कथितो वोऽयं महावेदीमहोत्सवः ॥
यस्य संकीर्त्तनादेव निर्मलो जायते नरः
यश्चेदं कीर्तयेन्नित्यं प्रातरुत्थाय मानवः ॥
शृणुयादपि बुद्धिस्थः शक्रलोकं व्रजेदसौ
प्रत्यर्चारूपमपि वा रथमास्थाप्य यो हरेः ॥
कुर्याद्यात्रामिमां श्रद्धाभक्तिभावेन मानवः
सोऽपि विष्णोः प्रसादेन गुंडिचोत्सवजं फलम्॥
प्राप्य वैकुण्ठभवनं याति नात्र विचारणा
पश्य श्रीर्यावती विप्रा भक्तिर्वा श्रद्धयान्विता ॥
तावतीयं महायात्रा यो यथा कर्तुमिच्छति
इदं पवित्रं परमं रहस्यं वेधसोदितम् ॥
कारयित्वाथवा दृष्ट्वा यन्नरो नावसीदति
॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये पञ्चत्रिंशोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0