भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.3-4

2.3-4.1

॥ स्कन्द उवाच ॥ ॥
भगवन्सर्वभूतेषु सर्वधर्मविशारद ॥
अग्नितीर्थस्य माहात्म्यं कृपया वद मे पितः

2.3-4.2

॥ शिव उवाच ॥ ॥
अतिगुह्यतमं तीर्थं सर्वतीर्थनिषेवितम् ॥
संक्षेपात्कथयाम्येतत्तवादरवशादहम्

2.3-4.3

महापातकिनो ये च अतिपातकिनस्तथा ॥
स्नानमात्रेण शुद्ध्यंति विनायासेन पुत्रक

2.3-4.4

प्रायश्चित्तेन यत्पापं न गच्छेन्मरणांतिकम्॥
स्नानमात्रेण तीर्थस्य पावकस्य विशुद्ध्यति

2.3-4.5

अत्यंतमलसंबद्धं यथा शुद्ध्यति हाटकम् ॥
तथाग्नितीर्थमासाद्य देही पापैर्विशुद्ध्यति

2.3-4.6

कुशाग्रेणोदबिंदुं च पीत्वा वर्षत्रयं नरः ॥
अन्यक्षेत्रे तपः कृत्वा तदत्र स्नानमात्रतः

2.3-4.7

ब्राह्मणान्भोजयित्वास्मिन्यथाविभवसंभवैः ॥
दरिद्रता कुले तेषां न कदाचित्प्रजायते

2.3-4.8

उपवासेन यः प्राणान्वह्नितीर्थे त्यजेन्नरः ॥
स भित्त्वा सूर्यलोकादीन्विष्णुलोकं प्रपद्यते

2.3-4.9

चांद्रायणसहस्रैस्तु कृच्छ्रैः कोटिभिरेव च ॥
यत्फलं लभते मर्त्यस्तत्स्नानाद्वह्नितीर्थतः

2.3-4.2.3.3.10

पंचधा ये प्रकुर्वंति पापमस्मिन्षडानन ॥
जपेन पवनायामैर्विशुद्धिरिति मे मतिः

2.3-4.11

ज्ञानेन मोहवशतः पापं कुर्वन्ति येऽधमाः ॥
पैशाचीं योनिमायामति यावदिंद्राश्चतुर्दश

2.3-4.12

अनाश्रमी चाश्रमी वा यावद्देहस्यधारणम् ॥
न तीर्थे पावके कुर्यात्पातकं बुद्धिपूर्वकम्

2.3-4.13

स्नानं दानं जपो होमः संध्या देवार्चनं तथा ॥
अत्रानंतगुणं प्रोक्तमन्यतीर्थात्षडानन

2.3-4.14

बहूनि संति तीर्थानि पावनानि महांत्यपि ॥
वह्नितीर्थसमं तीर्थं न भूतं न भविष्यति

2.3-4.15

न ब्रह्मा न शिवः शेषो न देवा न च तापसाः ॥
शक्नुवंति फलं नालं वक्तुं पावकतीर्थजम्

2.3-4.16

किं तेषां बहुभिर्यज्ञैः किं दानैर्नियमैर्यमैः॥
येषां पावकतीर्थेऽस्मिन्स्नानं दशदिनं भवेत्

2.3-4.17

उपवासेन यः प्राणान्वह्नितीर्थे जयेन्नरः ॥
उपवासत्रयं कृत्वा पूजयित्वा जनार्द्दनम्॥
नरः पावकतीर्थेऽस्मिन्स भवेत्पावकोपमः

2.3-4.18

शिलापंचकमध्यस्थं सान्निध्यं नित्यदा हरेः ॥
तत्रैव पावकं तीर्थं सर्वपापप्रणाशनम्

2.3-4.19

॥ स्कंद उवाच ॥ ॥
कथं तत्र शिलाः पंच केन वा तत्र निर्मिताः ॥
किं पुण्यं किं फलं तासां वक्तुमर्हस्यशेषतः

2.3-4.2.3.3.20

॥ शिव उवाच ॥ ॥
नारदी नारसिंही च वाराही गारुडी तथा ॥
मार्कंडेयीति विख्याताः शिलाः सर्वार्थसिद्धिदाः

2.3-4.21

नारदो भगवांस्तेपे तपः परमदारुणम्॥
दर्शनार्थं महाविष्णोः शिलायां वायुभोजनः

2.3-4.22

षष्टिवर्षसहस्राणि शिलायां वृक्षवृत्तिमान्॥
तदासौ भगवान्विष्णुस्तत्र ब्राह्मणरूपधृक्

2.3-4.23

जगाम पुरतस्तस्य कृपया मुनिसत्तमम् ॥
उवाच वचनं चारु किमिति क्लिश्यते ह्यृषे ॥
किं वा तवेप्सितं ब्रूहि तपसा क्षीणकल्मष

2.3-4.24

॥ नारद उवाच ॥ ॥
को भवान्विजनेऽरण्ये ममानुग्रहतत्परः ॥
मनः प्रसन्नतामेति दर्शनात्ते द्विजोत्तम

2.3-4.25

इत्युक्तो नारदेनासौ शंखचक्रगदाधरः ॥
पीतांबरलसत्पद्मवनमालाविभूषणः

2.3-4.26

श्रीवत्सकौस्तुभभ्राजत्कमलाविमलालयः ॥
सुनंदनप्रमुख्यैः स स्तूयमानो जनार्द्दनः

2.3-4.27

दर्शयामास रूपं स्वं नारदाय कृपार्दितः ॥
तं दृष्ट्वा सहसोत्थाय तनुं प्राण इवागतः

2.3-4.28

कृतांजलिपुटो भूत्वा नमस्कृत्य पुनः पुनः ॥
तुष्टाव प्रणतो भूत्वा जगतामीश्वरेश्वरम्

2.3-4.29

॥ नारद उवाच ॥ ॥
यः सर्वसाक्षी जगतामधीश्वरो भक्तेच्छया जातशरीरसंपदः ॥
कृपामहांभोनिधिराश्रितानां प्रसीदतां पावनदिव्यमूर्तिः

2.3-4.2.3.3.30

हिताय लोकस्य सतां पुनर्मनः सुतोषणायाचिरमुत्कलादिभिः ॥
प्रसन्नलीलाहसितावलोकनः प्रसीदतां सत्त्वनिकायमूर्तिमान्

2.3-4.31

कंदर्प्पलावण्यविलाससुंदरः प्रसन्नगंभीरगिरेंदिरोत्सवः ॥
स्वमाश्रितानां वरकल्पपादपः प्रसीदतां दीनदयार्द्रमानसः

2.3-4.32

यदंघ्रिपद्मार्चननिर्मलांतरा ज्ञानासिना शातितबंधहेतवः ॥
विदंति यद्ब्रह्मसुखं गतक्लमाः प्रसीदतां दीनदयार्द्रमानसः

2.3-4.33

संसारवारांनिधिबद्धसेतुर्यः सृष्टिपालांतविधानहेतुः ॥
उपांतनामा गुणलब्धमूर्तिः प्रसीदतां ब्रह्मसुखानुभूतिः

2.3-4.34

य इंद्रियाधिष्ठितभूतसूक्ष्माद्विकासहेतुर्द्युतिमद्वरिष्ठः ॥
जीवात्मतां गच्छति मायया स्वया स एक ईशो भगवान्प्रसीदताम्

2.3-4.35

स्वदृग्गुणैर्येन विलिप्यते महान्गुणाश्रयं येन च पाञ्चभौतिकम्॥
एकोऽपि नानागुणसंप्रयुक्तः प्रसीदतां दीनदयालुवर्यः

2.3-4.36

यस्यानुवर्तिनो देवा विपदां पदमंबुधिम् ॥
कृत्वा वत्सपदं स्वर्गे निरातंका वसंति हि

2.3-4.37

नमस्ते वासुदेवाय नमः संकर्षणाय च ॥
प्रद्युम्नायानिरुद्धाय सर्वभूतात्मने नमः

2.3-4.38

अद्य मे जीवितं धन्यमद्य मे सफलं तपः ॥
अद्य मे सफलं ज्ञानं दर्शनात्ते जनार्दन

2.3-4.39

॥ श्रीभगवानुवाच ॥ ॥
तुष्टोऽहं तपसानेन स्तोत्रेण तव नारद ॥
त्वत्तो भक्तो न मे कश्चित्त्रिषु लोकेषु विद्यते

2.3-4.2.3.3.40

वरं वरय भद्रं ते वरदोऽहं तवाग्रतः ॥
मद्दर्शनात्ते कामः स्यात्संसिद्धो विद्धि नारद

2.3-4.41

॥ नारद उवाच ॥ ॥
वरदो यदि मे देव वरार्हो यदि वाप्यहम् ॥
भक्तिं तव पदांभोजे निश्चलां देहि मे विभो

2.3-4.42

पच्छिलासन्निधानं च न त्याज्यं ते कदाचन ॥
मत्तीर्थदर्शनात्स्पर्शात्स्नानादाचमनात्तथा ॥
देहैर्न युज्यते देयस्ततीयस्तु वरो मम

2.3-4.43

॥ श्रीभगवानुवाच॥ ॥
एवमस्तु तव स्नेहात्तव तीर्थे वसाम्यहम् ॥
चराचराणां जंतूनां विदेहाय न संशयः

2.3-4.44

एवमुक्त्वा हरिः साक्षात्तत्रैवांतरधीयत ॥
नारदोऽपि महातेजा दिनानि कतिचित्सह ॥
बदरीमावसन्हृष्टो ययौ मधुपुरीं ततः

2.3-4.45

॥ स्कंद उवाच ॥ ॥
मार्कंडेयशिलायास्तु महिमानं वदस्व मे ॥
किं पुण्यं किं फलं तस्याः संज्ञा च तादृशी कथम्

2.3-4.46

॥शिव उवाच ॥ ॥
पुरा त्रेतायुगस्यांते मृकंडुतनयो महान् ॥
स्वल्पायुषं निजं ज्ञात्वा जजाप परमं जपम्

2.3-4.47

द्वादशाक्षरमंत्रेण पूजितो हरिरव्ययः ॥
सप्तकल्पायुषं ज्ञात्वा तत्रैवांतरतो ययौ

2.3-4.48

मार्कंडेयस्ततः श्रुत्वा तीर्थाटनपरिश्रमम् ॥
दर्शनं नारदस्यासीन्मथुरायां षडानन

2.3-4.49

पूजितो वंदितस्तेन नारदो मुनिसत्तमः ॥
कथयामास माहात्म्यं बदर्या यत्र केशवः

2.3-4.2.3.3.50

॥ नारद उवाच ॥ ॥
किमिति क्लिश्यते साधो तीर्थाटनपरिश्रमैः ॥
बदर्याख्यं महाक्षेत्रं सान्निध्यं नित्यदा हरेः

2.3-4.51

तत्र याहि यत्र साक्षाद्धरिं पश्यसि चक्षुषा ॥
तच्छ्रुत्वा विस्मयोपेतो विशालामाययावृषिः

2.3-4.52

स्नात्वा शिलामुपविशञ्जजापाष्टाक्षरं परम् ॥
ततःप्रसन्नो भगवाँस्त्रिरात्र्यंते जनार्दनः

2.3-4.53

शंखचक्रगदापद्मवनमालाविभूषणम् ॥
तं दृष्ट्वा सहसोत्थाय प्रेमगद्गदया गिरा ॥
तुष्टाव प्रणतो भूत्वा मार्कंडेयो जनार्दनम्

2.3-4.54

॥ मार्कंडेय उवाच ॥ ॥
अशाश्वते च संसारे सारे ते चरणांबुजे ॥
समुद्धारः कथं नृणां त्राहि मां परमेश्वर

2.3-4.55

तापत्रयपरिश्रांतमनेकाज्ञानजृंभितम् ॥
संसारकुहरे भ्रांतं त्राहि मां कृपयाऽच्युत

2.3-4.56

अनेकयोनियंत्रेषु निःसृतेस्तनुवेदनाम् ॥
गर्भवासकृतां प्राप्तं त्राहि मां करुणांबुधे

2.3-4.57

कृमिभक्षितसर्वांगं क्षुत्पिपासाकुलं च हि ॥
आंत्रमालाकुलेगर्भे त्राहि मां मधुसूदन

2.3-4.58

अमेध्यादिभिरालिप्तं निश्चेष्टश्रममाकुलम्॥
स्मरंतं निजकर्मोत्थं त्राहि मां मधुसूदन

2.3-4.59

वचनादाननिःश्वासाशक्तं भयमुपागतम्॥
गर्भवासमहादुःखं त्राहि मां मधुसूदन

2.3-4.2.3.3.60

जरामरणबाल्यादिदुःखसंसारपीडितम् ॥
दुःखाब्धौ सुखबुद्धिं मां कृपासिंधो प्रपालय

2.3-4.61

कदाचित्कृमितां प्राप्तं कदाचित्स्वेदजन्मिताम्॥
कदाचिदुद्भिज्जत्वं च कदाचिन्नरतां गतम्

2.3-4.62

सर्वयोनिसमापन्नं विपन्नं विगतप्रभम्॥
अनाथं त्वां समापन्नं त्राहि मां कृपयाऽच्युत

2.3-4.63

एवं स्तुतस्ततः कृष्णो मार्कण्डेयेन धीमता ॥
प्रीतस्तमाह विप्रर्षे वरं मे व्रियतामिति

2.3-4.64

॥ श्रीमार्कंडेय उवाच ॥ ॥
यदि तुष्टो भवान्मह्यं भगवन्दीनवत्सल ॥
निश्चलां देहि मे भक्तिं पूजायां दर्शने तव ॥
शिलायां तव सान्निध्यमेष एव वरो मम ॥

2.3-4.65

॥ सूत उवाच ॥ ॥
तथेत्युक्त्वा महाविष्णुर्ययावंतर्हितं द्विज ॥
मार्कंडेयस्ततस्तुष्टो जगाम पितुराश्रमम्

2.3-4.66

उपस्थानमिदं पुण्यं सर्वपापप्रणाशनम् ॥
शृणुयाच्छ्रावयेन्मर्त्यो गोविन्दे लभते गतिम्

2.3-4.3

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे शिवकार्तिकेयसंवादे अग्नितीर्थनारदशिलामार्कण्डेयशिलामाहात्म्यवर्णनंनाम तृतीयोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc