भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.27-4

2.27-4.1

अथ श्रीवेंकटाचलस्य सर्वपुण्यतीर्थाधारत्ववर्णनम् ॥
॥ ऋषय ऊचुः ॥ ॥
वेंकटाद्रौ महापुण्ये सर्वसंकटनाशने ॥
सन्ति वै कति तीर्थानि सूत पौराणिकोत्तम

2.27-4.2

तेषां संख्यां च मे ब्रूहि कति मुख्यानि तत्र वै ॥
तत्राप्यत्यन्तमुख्यानि वद मे मुनिसत्तम

2.27-4.3

सद्धर्मरतिदान्यत्र कति मुख्यानि तानि च ॥
कानि ज्ञानप्रदान्यत्र भक्तिवेराग्यदानि च

2.27-4.4

मुक्तिप्रदानि कान्यत्र तानि मे वद सुव्रत

2.27-4.5

॥
॥ श्रीसूत उवाच ॥ ॥
षट्षष्टिकोटितीर्थानि पुण्यान्यत्र नगोत्तमे ॥
अष्टोत्तरसहस्राणि तेषु मुख्यानि सुव्रत

2.27-4.6

सद्धर्मरतिदान्यत्र सन्ति चाष्टोत्तरं शतम् ॥
सहस्रेभ्यश्च मुख्यानि पृथक्तेभ्यश्च तानि च

2.27-4.7

भक्तिवैराग्यदान्यत्र षष्टिरष्टोत्तरे शते

2.27-4.8

॥ अथ स्वामिपुष्करिण्यादिषट्तीर्थस्नानकालनिर्णयः ॥ ॥
मुक्तिदान्यत्र षट् चैव वेंकटाचलमूर्धनि ॥
स्वामिपुष्करिणी चैव वियद्गङ्गा ततः परम्

2.27-4.9

पश्चात्पापविनाशं च पाण्डुतीर्थमतःपरम् ॥
कुमारधारिकातीर्थं तुम्बोस्तीर्थमतः परम्

2.27-4.2.1.27.10

कुम्भमासे पौर्णमास्यां मघायोगो यदा भवेत् ॥
कुमारधारिकां यान्ति सर्वतीर्थानि हे द्विजाः

2.27-4.11

तत्र यः स्नाति विप्रेन्द्रा राजसूयफलं लभेत् ॥
मुक्तिश्च भविता तत्र नात्र कार्या विचारणा

2.27-4.12

अन्नदानविधिस्तत्र सार्धं दक्षिणयाऽ द्विजाः ॥
उत्तराफल्गुनीयुक्तशुक्लपक्षीयपर्वणि

2.27-4.13

तुम्बोस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः ॥
अपराह्णे समायान्ति तत्र स्नातो न जायते

2.27-4.14

मौञ्जीबन्धं विवाहं च कारयेद्द्रव्यदानतः ॥
मेषसंक्रमणे भानौ चित्रानक्षत्रसंयुते ॥

2.27-4.15

पौर्णमास्यां समायान्ति वियद्गङ्गां तथैव च ॥
तत्र स्नात्वा नरः सद्यः शतक्रतुफलं लभेत्

2.27-4.16

सुवर्णं तत्र दातव्यं कन्यादानं विशेषतः ॥
वृषभस्थे रवौ विप्रा द्वादश्यां हरिवासरे

2.27-4.17

शुक्ले वाप्यथ कृष्णे वा भौमेनापि समन्विते ॥
पाण्डुतीर्थं समायान्ति गङ्गादीनि जगत्त्रये

2.27-4.18

तत्र स्नात्वा च गां दत्त्वा मुच्यते प्रतिबन्धकात् ॥
आश्वयुक्छुक्लपक्षे च सप्तम्यां भानुवासरे

2.27-4.19

उत्तराषाढयुक्तायां तथा पापविनाशनम् ॥
उत्तराभाद्रयुक्तायां द्वादश्यां वा समागतः

2.27-4.2.1.27.20

शालग्रामशिलां दत्त्वा स्नात्वा च विधिपूर्वकम् ॥
मुच्यते सर्वपापैश्च जन्म कोटिशतोद्भवैः

2.27-4.21

धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये ॥
आयान्ति सर्वतीर्थानि स्वामिपुष्करिणीजले

2.27-4.22

तत्र स्नात्वा नरः सद्यो मुक्तिमेति न संशयः ॥
यस्य जन्मसहस्रेषु पुण्यमेवार्जितं पुरा

2.27-4.23

तस्य स्नानं भवेद्विप्रा नान्यस्य त्वकृतात्मनः ॥
विभवानुगुणं दानं कार्यं तत्र यथाविधि

2.27-4.24

शालिग्रामशिलादानं गां दद्याच्च विशेषतः

2.27-4.25

॥ अथ पुराणश्रवणस्य विशेषतः प्राशस्त्यवर्णनम्॥ ॥
ये शृण्वंति कथां विष्णोः सदा भुवनपावनीम् ॥
ते वै मनुष्यलोकेऽस्मिन्विष्णुभक्ता भवन्ति हि

2.27-4.26

यद्यशक्तः सदा श्रोतुं कथां भुवनपावनीम्॥
मुहूर्तं वा तदर्धं वा क्षणं वा विष्णुसत्कथाम्॥
यः शृणोति नरो भक्त्या दुर्गतिर्नास्ति तस्य हि

2.27-4.27

यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम् ॥
सकृतपुराणश्रवणात्तत्फलं विन्दते नरः

2.27-4.28

कलौ युगे विशेषेण पुराणश्रवणादृते॥
नास्ति धर्मः परः पुंसां नास्ति मुक्तिप्रदं परम्

2.27-4.29

पुराणश्रवणं विष्णोर्नामसंकीर्तनं परम्॥
उभे एव मनुष्याणां पुण्यद्रुममहाफले

2.27-4.2.1.27.30

पिबन्नेवामृतं यत्नादेकः स्यादजरामरः॥
विण्णोः कथामृतं कुर्यात्कुलमेवाजरामरम्

2.27-4.31

॥ अथ पुराणवक्तुः सर्वपूजनीयत्ववर्णनम् ॥ ॥
बालो युवाथ वृद्धो वा दरिद्रो दुर्भगोऽपि वा ॥
पुराणज्ञः सदा वन्द्यः स पूज्यः सुकृतात्मभिः

2.27-4.32

नीचबुद्धिं न कुर्वीत पुराणज्ञे कदाचन ॥
यस्य वक्त्रोद्गता वाणी कामधेनुः शरीरिणाम्

2.27-4.33

भवकोटिसहस्रेषु भूत्वा भूत्वावसीदताम् ॥
यो ददात्यपुनर्वृत्तिं कोऽन्यस्तस्मात्परो गुरुः

2.27-4.34

व्यासासनसमारूढो यदा पौराणिको द्विजः ॥
आ समाप्तेः प्रसंगस्य नमस्कुर्यान्न कस्यचित्

2.27-4.35

न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते ॥
देशे न द्यूतसदने वदेत्पुण्यकथां सुधीः

2.27-4.36

सुग्रामे सुजनाकीर्णे सुक्षेत्रे देवतालये ॥
पुण्ये वाथ नदीतीरे वदेत्पुण्यकथां सुधीः

2.27-4.37

श्रद्धाभक्तिसमायुक्ता नान्यकार्येषु लालसा ॥
वाग्यताः शुचयोऽव्यग्राः श्रोतारः पुण्यभागिनः

2.27-4.38

अभक्त्या ये कथां पुण्यां शृण्वंति मनुजाधमाः ॥
तेषां पुण्यफलं नास्ति दुःखं जन्मनि जन्मनि

2.27-4.39

पुराणं ये तु संपूज्य ताम्बूलाद्यैरुपायनैः ॥
शृण्वंति च कथां भक्त्या न दरिद्रा न पापिनः

2.27-4.2.1.27.40

कथायां कथ्यमानायां ये गच्छन्त्यन्यतो नराः॥
भोगान्तरे प्रणश्यन्ति तेषां दाराश्च संपदः

2.27-4.41

सोष्णीषमस्तका ये च कथां शृण्वंति पावनीम् ॥
ते बालकाः प्रजायन्ते पापिनो मनुजाधमाः

2.27-4.42

तांबूलं भक्षयन्तो ये कथां शृण्वंति पावनीम् ॥
श्वविष्ठां भक्षयन्त्येते नरके च पतंति हि

2.27-4.43

ये च तुंगासनारूढाः कथां शृण्वन्ति दांभिकाः ॥
अक्षय्यान्नरकान्भुक्त्वा ते भवन्त्येव वायसाः

2.27-4.44

ये च वीरासनारूढा ये च सिंहासनस्थिता॥
शृण्वन्ति सत्कथां ते वै भवन्त्यर्जुनपादपाः

2.27-4.45

असंप्रणम्य शृण्वन्तो विषवृक्षा भवन्ति हि ॥
तथा शयानाः शृण्वन्तो भवन्त्यजगरा हि ते

2.27-4.46

यः शृणोति कथां वक्तुः समानासनसंस्थितः॥
गुरुतल्पसमं पापं संप्राप्य नरकं व्रजेत्

2.27-4.47

ये निन्दंति पुराणज्ञं सत्कथां पापहारिणीम् ॥
ते वै जन्मशतं मर्त्याः शुनकाश्च भवंति हि

2.27-4.48

कथायां कीर्त्यमानायां ये वदंति दुरुत्तरम् ॥
ते गर्दभाः प्रजायन्ते कृकलासास्ततःपरम्

2.27-4.49

कदाचिदपि ये पुण्यां न शृण्वंति कथां नराः ॥
ते भुक्त्वा नरकान्घोरान्भवन्ति वनसूकराः

2.27-4.2.1.27.50

कथायां कीर्त्यमानायां विघ्नं कुर्वंति ये नराः ॥
कोट्यब्दं नरकान्भुक्त्वा भवंति ग्रामसूकराः

2.27-4.51

ये कथामनुमोदन्ते कीर्त्यमानां नरोत्तमाः ॥
अशृण्वन्तोऽपि ते यान्ति शाश्वतं पदमव्ययम्॥

2.27-4.52

ये श्रावयन्ति मनुजाः पुण्यां पौराणिकीं कथाम् ॥
कल्पकोटिशतं साग्रं तिष्ठन्ति ब्रह्मणः पदे

2.27-4.53

आसनार्थं प्रयच्छन्ति पुराणज्ञस्य ये नराः ॥
कम्बलाजिनवासांसि तथा मंचकमेव वा

2.27-4.54

स्वर्गलोकं समासाद्य भुक्त्वा भोगान्यथेप्सितान् ॥
स्थित्वा ब्रह्मादिलोकेषु पदं यांति निरामयम्

2.27-4.55

पुराणस्य प्रयच्छन्ति ये च सूत्रं नवं वरम् ॥
भोगिनो ज्ञानसंपन्नास्ते भवंति भवे भवे

2.27-4.56

ये महापातकैर्युक्ता ह्युपपातकिनश्च ये ॥
पुराणश्रवणादेव ते यांति परमं पदम्

2.27-4.57

वेंकटाद्रेस्तु माहात्म्यं श्रुत्वा त ऋषयस्ततः ॥
व्यासप्रसादसंपन्नं सूतं पौराणिकोत्तमम् ॥
पूजयित्वा यथान्यायं प्रहर्षमतुलं गताः

2.27-4.27

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सर्वतीर्थमहिमोपसंहारपूर्वकपुराणश्रवणप्रक्रियाद्यनुवर्णनंनाम सप्तविंशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc