भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.26-4

2.26-4.1

॥ अथ तुम्बुरु(घोण)तीर्थमाहात्म्यम् ॥
॥ श्रीसूत उवाच ॥ ॥
अत्राहं संप्रवक्ष्यामि शौनकाद्या महौजसः ॥
घोणतीर्थस्य माहात्म्यं सर्वपातकनाशनम्

2.26-4.2

तत्र स्नानं जनानां तु जन्मान्तरतपःफलम् ॥
उत्तराफल्गुनीयुक्तशुक्लपक्षीयपर्वणि

2.26-4.3

तुम्बोस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः ॥
अपराह्ने समायान्ति गंगादीनि जगत्त्रये

2.26-4.4

॥ ऋषय ऊचुः ॥॥ भगवन्सूत सर्वज्ञ सर्वशास्त्रार्थपारग ॥
गंगायाः सरितः सर्वा घोणतीर्थेऽतिपावने

2.26-4.5

किमर्थं स्नांति वै तत्र मीनसंस्थे प्रभाकरे

2.26-4.6

॥ ॥ श्रीसूत उवाच ॥ ॥
पापिनो मनुजाः सर्वे ह्यस्मासु स्नान्ति यत्नतः ॥
विसृज्य पापजालानि कृतार्था यांति वै जनाः

2.26-4.7

अस्माकं पापजालं तत्कथं नश्यति सर्वतः ॥
एवमालोच्य तीर्थानि गंगादीनि प्रयत्नतः

2.26-4.8

संस्मृत्य ब्रह्मपुत्रस्य नारदस्य महात्मनः ॥
वाक्यं मनोहरं दिव्यं सर्वपापनिषूदनम्

2.26-4.9

गत्वा श्रीवेंकटं शैलं ब्रह्महत्यादिशोषकम् ॥
तत्र स्नात्वा तीर्थवर्ये स्वामिपुष्करिणीजले

2.26-4.2.1.26.10

अनन्तरं ततो विप्रा घोणतीर्थेऽतिपावने ॥
उत्तराफल्गुनीयुक्तशुक्त्यपक्षीयपर्वणि

2.26-4.11

स्नांति तीर्थानि सर्वाणि मीनसंस्थे प्रभाकरे ॥
तस्य तीर्थस्य माहात्म्यं को वेत्ति भुवनत्रये

2.26-4.12

॥ अथ घोणतीर्थस्नानविमुखानां महादोषवर्णनम् ॥ ॥
तस्मात्पुण्यतमं तीर्थं घोणतीर्थं द्विजोत्तमाः

2.26-4.13

आरामोच्छेदकं क्रूरं कन्यातुरगविक्रयम्॥
घोणस्नानपरित्यक्तं तमाहुर्ब्रह्मघातुकम्

2.26-4.14

देवद्रव्यापहन्तारं तथा दत्तापहारकम् ॥
घोणस्नानपरित्यक्तं तमाहुर्ब्रह्मघातुकम्

2.26-4.15

तटाकसेतुभेत्तारं परस्त्रीसंगलोलुपम् ॥
घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः

2.26-4.16

ददामीति द्विजायोक्त्वा पश्चाद्यो नास्तिकोऽधमः ॥
घोणस्नानपरित्यक्तं सुरापं तं विदुर्बुधाः

2.26-4.17

गुरुविप्रजनद्वेष्यमात्मस्तुतिपरायणम् ॥
घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः

2.26-4.18

असंस्कृतान्नभोक्तारं पितृशेषान्नभोजिनम्॥
घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं द्विजाः

2.26-4.19

पितृशेषान्नदातारं मातापितृविरोधिनम्॥
घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः

2.26-4.2.1.26.20

परस्त्रीसंगनिरतं भ्रातृभार्यारतिप्रियम् ॥
घोणस्नानपरित्यक्तं तमाहुर्गुरुतल्पगम्

2.26-4.21

चण्डालभाषिणं विप्रं सदैवादर्भपाणिकम् ॥
घोणस्नानपरित्यक्तं तत्संसर्गं तु पञ्चमम्

2.26-4.22

रजस्वलाश्वचण्डालध्वनि श्रुत्वान्नभोजिनम् ॥
घोणस्नानपरित्यक्तं तत्संसर्गं तु पञ्चमम्

2.26-4.23

पुराणोद्वाहमौंज्यादिधर्माणां विघ्नकारकम् ॥
घोणस्नानपरित्यक्तं तमाहुः पशुघातुकम्

2.26-4.24

शरणागतहन्तारं सर्वतीर्थपराङ्मुखम्॥
घोणस्नानपरित्यक्तं तमाहुर्भ्रूणहं बुधाः

2.26-4.25

पितृयज्ञ परित्यक्तं त्यक्तभार्यं कुलाधमम् ॥
घोणस्नानपरित्यक्तं तमाहुर्गोविघातुकम्

2.26-4.26

महापापसमानानि क्षुद्रपापानि यानि च ॥
घोणस्नानपरित्यक्तमाश्रयन्ति द्विजोत्तमाः

2.26-4.27

॥ अथ घोणस्नानस्यसर्वपापापनोदकत्ववर्णनम् ॥ ॥
महापापरतं विप्राः श्वपचं वा कुलाधमम् ॥
क्रूरं कुलान्तकं कष्टमदत्तं कर्मवर्जितम्

2.26-4.28

पशुघ्नं च परद्रोहमाश्रितं पिशुनं तथा ॥
असत्यभाषिणं दम्भपरदाररतं तथा

2.26-4.29

मित्रद्रोहं कृतघ्नं च भ्रूणह चातिपातकम् ॥
परदाररतं पापं पराणामर्थसूचकम्

2.26-4.2.1.26.30

अनृतं कृषिकर्माणं स्वामिद्रोहं च वञ्चकम् ॥
सलोभं पितृहन्तारं सर्वदेवपराङ्मुखम्

2.26-4.31

आत्मप्रशंसां कुर्वाणं धर्मविघ्नकरं शठम् ॥
अपात्रव्ययकर्तारं सानुकूल्यविभेदकम्

2.26-4.32

सुपल्लवफलोपेतवृक्षविच्छेदकारकम्॥
विश्वासघातुकं चैव वीरहत्यापरायणम्

2.26-4.33

अनग्निकमपुत्रं च विषकर्मप्रयोगिणम् ॥
गुरुद्वेषकरं पापं दम्पत्योर्विरसावहम्

2.26-4.34

ग्रामाधिपत्यं कुर्वाणं तथा देवालयस्य च ॥
भृतकख्यापकं विप्रं कूरकर्मपरायणम्

2.26-4.35

प्रकृतीकृत पापौघं गुह्याघौघपरायणम् ॥
अज्ञानादघकर्तारं ज्ञानाद्दुष्कर्मकारकम्

2.26-4.36

एतान्सर्वांश्च विप्रेंद्रा घोणतीर्थं मनोहरम्॥
पुनाति स्नानपानाद्यैरहो तीर्थस्य वैभवम्

2.26-4.37

॥ अथ तुम्बुर्वाख्यगंधर्वचरितम् ॥
॥ श्रीसूत उवाच ॥ ॥
अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम् ॥
सर्वपापप्रशमनमपवर्गफलप्रदम्

2.26-4.38

पुरा गार्ग्यो महातेजाः सर्वविद्याविशारदः ॥
सर्वज्ञो नीतिमान्विप्रः प्राह चेत्थं जितेन्द्रियः

2.26-4.39

देवलं च महात्मानं नमस्कृत्य प्रसन्नधीः ॥
कथयस्व महाभाग मयि कारुणिको भव ॥
घोणतीर्थस्य माहात्म्यं सर्वपापहरं शुभम् ॥

2.26-4.2.1.26.40

॥ देवल उवाच ॥ ॥
तुम्बुरुर्नाम गन्धर्वो भार्यां शप्त्वा पतिव्रताम् ॥
अत्र स्नात्वा समभ्यर्च्य वेंकटेशं दयानिधिम्

2.26-4.41

प्राप्तवान्विष्णुलोकं वै पुनरावृत्तिवर्जितम्

2.26-4.42

॥ गार्ग्य उवाच ॥ ॥
किमर्थं देवल ऋषे भार्यां रूपवतीं स्त्रियम् ॥
तुम्बुरुर्नाम गन्धर्वः सर्वविद्याविशारदः

2.26-4.43

शप्तवान्केन दोषेण भार्यां सर्वगुणान्विताम् ॥
तद्वदस्व महाभाग श्रोतुं कौतूहलं हि मे

2.26-4.44

॥ अथ स्वभार्यायै तुम्बुरूपदिष्टमाघस्नानविधिप्रकारः ॥ ॥
तुम्बुरुर्नाम गन्धर्वो भार्यां प्रीत्या ह्युवाच ह ॥
माघत्रये मया साकं स्नानं कुरु मलापहम् ॥

2.26-4.45

माघमास्युदिते सूर्ये सर्वकल्मषनाशने ॥
तीरेऽस्मिन्विष्णुपूजार्थं गोमयालेपनं कुरु

2.26-4.46

रंगवल्ल्यादिभिः शुभ्रपद्मस्वस्तिक धातुभिः ॥
शुश्रूषां कुरु मे विष्णोर्मासेऽस्मिन्मंगलप्रदे

2.26-4.47

माघेऽस्मिन्माधवस्यास्य कुरु त्वं दीपवर्तिकाम् ॥
सधूपं पावकं भक्त्या समर्पय हरेः पुरः

2.26-4.48

कुरु पाकं शुचिर्भूत्वा माधवाय महात्मने ॥
प्रदक्षिणानमस्कारैर्भक्त्या माघे मया सह

2.26-4.49

कुरुष्व देवदेवस्य सपर्यां विष्णवेऽन्वहम् ॥
पुराणश्रवणं विष्णोः कुरु नित्यमतंद्रिता

2.26-4.2.1.26.50

नित्यं स्नात्वा प्रयत्नेन पिब पादोदकं हरेः ॥
कृष्ण विष्णो मुकुन्देति नारायण जनार्दन

2.26-4.51

अच्युतानन्त विश्वात्मन्निति कीर्तय सन्ततम् ॥
क्रोधमात्सर्यलोभादींस्त्यक्त्वा त्वं व्रतमाचर

2.26-4.52

तेन ते जायते मुक्तिर्विष्णुलोकश्च शाश्वतः ॥
॥ अथ भार्यां प्रति तुम्बुरुदत्तशापतद्विमुक्तिप्रकारौ ॥ ॥
इत्थं सा भर्तृगदितं श्रुत्वा गंधर्ववल्लभा ॥
भर्तारमब्रवीत्कोपादसह्यं दुर्गतिप्रदम्

2.26-4.53

माघे चोद्भूतशीते तु प्रातर्मन्दोदिते रवौ ॥
कथं निमज्जयेदस्मिन्माघे शीतार्तिकेऽनघ

2.26-4.54

यत्त्वयोक्तानि कर्माणि न शक्यानि मयाऽसकृत्॥
न करोमि पते स्नानं प्रातःकाले त्वया सह

2.26-4.55

मृतौ शीतातिपातेन न च मे रक्षको भवान् ॥
इत्येवमुदितं श्रुत्वा पतिर्गन्धर्ववल्लभः

2.26-4.56

सशान्तोऽपि शशापाथ भार्यां चाप्रियवादिनीम् ॥
पुत्रं च धर्मविमुखं भार्यां चाप्रियभाषिणीम्

2.26-4.57

अब्रह्मण्यं च राजानं सद्यः शापेन दण्डयेत् ॥
इति न्यायं विचिंत्यासौ शशापेत्थं सतीं तदा

2.26-4.58

वेंकटाद्रौ महापुण्ये सर्वपातकनाशने ॥
घोणतीर्थसमीपे च पिप्पलद्रुमकोटरे

2.26-4.59

तत्राम्बुरहिते मूढे मण्डूका भव केवलम् ॥
इत्येवं भर्तृवाक्यं तच्छ्रुत्वा गंधर्ववल्लभा

2.26-4.2.1.26.60

पतित्वा पादयोस्तस्य तुम्बरुं प्रार्थयत्सती ॥
विशापमवदत्पश्चाद्भर्ता वै तुम्बुरुस्तदा

2.26-4.61

अगस्त्यो वै महाभागस्तपस्वी विजितेन्द्रियः ॥
घोणतीर्थवरे स्नात्वा पौर्णमास्यां महातिथौ

2.26-4.62

शिष्येभ्यो वै यदा तस्मिन्नश्वत्थद्रुमसंनिधौ ॥
घोणतीर्थस्य माहात्म्यं वक्ति वै ब्राह्मणोत्तमः

2.26-4.63

तदा पिप्पलवृक्षस्य कोटरे त्वं समाहिता ॥
श्रुत्वा वै घोणतीर्थस्य माहात्म्यं मोक्षदायकम्

2.26-4.64

विधूय सर्वपापानि मया साकं रमिष्यसि ॥
इत्युक्ता विररामाथ धर्मपत्नी पतिव्रता

2.26-4.65

भर्तृशापान्महाघोरां मंडूकतनुमाश्रिता ॥
शेषाद्रिशिखरे तस्मिन्घोणतीर्थस्य दक्षिणे ॥

2.26-4.66

शनैःशनैर्गता नारी पिप्पलद्रुमकोटरम् ॥
अब्दायुतं गतं तस्या अश्वत्थद्रुमकोटरे

2.26-4.67

ततः कालांतरेऽगस्त्यो वेंकटाद्रिं मनोहरम् ॥
गत्वा श्रीस्वामितीर्थे च स्नात्वा नियमपूर्वकम्

2.26-4.68

वराहस्वामिनं देवं नत्वा तीर्थस्य दक्षिणे ॥
वेंकटेशालयं गत्वा श्रीनिवासं कृपानिधिम्

2.26-4.69

वेदवेद्यं विशालाक्षं देवदेवं सनातनम् ॥
नत्वाऽगस्त्यो महाभागो घोणतीर्थं ततो ययौ

2.26-4.2.1.26.70

तत्र स्नात्वा तीर्थवर्ये स्वशिष्यै योगिनां वरः ॥
पिप्पलद्रुमच्छायायां शिष्येभ्यो भक्तिपूर्वकम्

2.26-4.71

घोणतीर्थस्य माहात्म्यं ब्रह्महत्याविनाशकम् ॥
सर्वमंगलदं पुण्यं सर्वसम्पत्प्रदायकम्

2.26-4.72

उक्तवान्योगिनां श्रेष्ठो ह्यगस्त्यो भगवानृषिः

2.26-4.73

॥ अथ घोणतीर्थे अगस्त्यदर्शनेन तुम्बुरुपत्न्या वर्षाभूत्व निवृत्तिः ॥ ॥
तदा श्रुत्वा तु वर्षाभूः पादयोस्तस्य योगिनः ॥
पतित्वा ज्ञानदीपेन विदित्वा वैभवं मुनेः

2.26-4.74

पूर्वरूपं समासाद्य नारी रूपं मनोहरम् ॥
अगस्त्य योगिनां श्रेष्ठ रक्षरक्ष दयानिधे

2.26-4.75

मां रक्ष दयया ब्रह्मन्पतिवाक्यविरोधिनीम् ॥
इत्युक्त्वा तं विक्षालाक्षी विरराम ततः परम्

2.26-4.76

॥ अगस्त्य उवाच ॥ ॥
का त्वं सुश्रोणि भद्रं ते भेकजन्मप्रदायकम् ॥
पापं पूर्वभवे चासीत्तद्वदस्व च मा चिरम्

2.26-4.77

॥ ॥ नार्युवाच ॥ ॥
तुम्बुरुर्नाम गन्धर्वः सर्वविद्याविशारदः ॥
तस्य भार्यास्म्यहं विप्र ह्यगस्त्य मुनिसेवित

2.26-4.78

भर्ता मे सर्वधर्मज्ञस्तुम्बुरुर्मुनिसत्तमः ॥
सर्वधर्मान्मनोज्ञा त्वं कुरु नित्यं मया सह

2.26-4.79

पतिवाक्यं तदा श्रुत्वा परलोकोपकारकम् ॥
असह्यं वाक्यमत्युग्रं दुर्गतिप्रदमेव हि

2.26-4.2.1.26.80

मया चोक्तं हि दुर्बुद्ध्या हे तात मुनिसत्तम

2.26-4.81

॥ अथागस्त्यकथितपतिव्रताधर्माः ॥
॥ अगस्त्य उवाच ॥ ॥
कुशाग्रबुद्धिस्ते भर्ता शशाप त्वां रुषान्वितः ॥
एवं शापो युक्त एव पतिवाक्यविरोधिनीम्

2.26-4.82

पतिवाक्यमनादृत्य स्वेच्छया वर्तते तु या ॥
सा नारी निरये घोरे पतत्याचन्द्रतारकम्

2.26-4.83

न स्वातन्त्र्यं तु नारीणां नोल्लंघ्यं पतिभाषणम् ॥
पातिव्रत्येन पुण्येन पतिशुश्रूषणेन च

2.26-4.84

स्त्रियो विष्णुपदं यान्ति न चान्यैरपि सुव्रतैः ॥
पतिर्माता पतिर्विष्णुः पतिर्ब्रह्मा पतिः शिवः

2.26-4.85

पतिर्गुरुः पतिस्तीर्थमिति स्त्रीणां विदुर्बुधाः ॥
पतिवाक्यमपाकृत्य या नारी सुकृतैः परैः

2.26-4.86

सदैव युज्यते सापि नैव शुद्धा भवेत्सकृत् ॥
पतिहीना तु या नारी गुरुभिर्धर्मवित्तमैः

2.26-4.87

सा कृतज्ञा विदध्यात्तु व्रतं धर्मफलप्रदम् ॥
पतिना प्रेरिता सैव पतिबुद्धिपरायणा

2.26-4.88

पतिपादाब्जतीर्थेन या स्नाता सा हरिप्रिया ॥
सा स्नाता सर्वतीर्थेषु गङ्गादिषु न संशयः

2.26-4.89

तस्मात्त्वत्कृतदोषस्तु त्वामायातीति तत्फलम् ॥
भुञ्जन्त्यास्तेऽत्र शृण्वन्त्या घोणतीर्थस्य वैभवम्

2.26-4.2.1.26.90

मुक्तिरासीच्छुभांगं तन्नारीरूपं पुनर्यथा ॥ ॥
तस्माद्घोणस्य तीर्थस्य तुम्बुतीर्थमितीह वै

2.26-4.91

लोके प्रसिद्धिरभवदहो तीर्थस्य वैभवम्

2.26-4.92

॥
अथ घोणतीर्थस्नातॄणां नानाविधफलप्राप्तिः ॥
॥ श्रीसूत उवाच ॥ ॥
घोणतीर्थे महापुण्ये सर्वपापविनाशिनि ॥
स्नान्ति ये पौर्णमास्यां वै शौनकाद्या महौजसः

2.26-4.93

तेषां क्रतुफलं पुण्यं तीर्थायुतफलं भवेत् ॥
कपिलागोसहस्रं तु यो ददाति दिनेदिने

2.26-4.94

तत्फलं समवाप्नोति स्नानात्तुम्बुरुतीर्थके ॥
रत्नकोटिसहस्राणि यो ददाति दिनेदिने

2.26-4.95

मत्तेभानां सहस्राणि तथैवाश्वायुतान्यपि ॥
तत्फलं समवाप्नोति घोणतीर्थावगाहनात्

2.26-4.96

कन्याकोटिप्रदानेन यत्फलं चर्षिभिः स्मृतम् ॥
तत्फलं समवाप्नोति घोणतीर्थाच्च पावनात्

2.26-4.97

हेमांबरसहस्रं यः कुरुक्षेत्रे प्रयच्छति ॥
तत्फलं समवाप्नोति घोणतीर्थस्य वैभवात्

2.26-4.98

गुर्वर्थे ब्राह्मणार्थे च स्वाम्यर्थे यस्त्यजेत्तनुम् ॥
तत्फलं समवाप्नोति घोणतीर्थस्य वैभवात्

2.26-4.99

आपन्नार्तिहराणां च तीर्थसेवापरात्मनाम् ॥
सत्यव्रतानां यत्पुण्यं घोणतीर्थाच्च तद्भवेत्

2.26-4.2.1.26.100

यत्फलं श्राद्धकर्तॄणां पितृणामिन्दुसंक्षये ॥
तत्फलं समवाप्नोति घोणतीर्थाद्धि पावनात्

2.26-4.101

गङ्गायां नर्मदायां च सरयूचन्द्रभागयोः ॥
सर्वेषु पुण्यतीर्थेषु यः स्नानं कुरुते नरः ॥
तत्फलं समवाप्नोति घोणतीर्थाद्धि पावनात्

2.26-4.102

तस्मात्पुण्यतमं तीर्थं घोणतीर्थं विदुर्बुधाः

2.26-4.103

य इमं शृणुतेऽध्यायं सर्वपापनिबर्हणम् ॥
वाजपेयफलं तस्य विष्णुलोकश्च शाश्वतः

2.26-4.26

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखंडे श्रीवेङ्कटाचलमाहात्म्ये तुम्बुरुतीर्थमाहात्म्यवर्णनंनाम षड्विंशोऽध्यायः ॥

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc