भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.21-5

2.21-5.1

"वाल्मीके:पूर्वजन्मस्य कथा
"श्रुतदेव उवाच॥
ततस्तु विस्मितो भूत्वा शङ्खो व्याधसमन्वितः॥
को भवानिति तं प्राह दशैषा च कुतस्तव

2.21-5.2

केन वा कर्मणा सौम्य मतिस्तव शुभावहा॥
अकस्मात्ते कथं मुक्तिरेतदाचक्ष्व विस्तरात्

2.21-5.3

शङ्खेनैव तदा पृष्टो दण्डवत्पतितो भुवि॥
प्रश्रयाऽवनतो भूत्वा प्रांजलिर्वाक्यमब्रवीत्

2.21-5.4

अहं पुरा द्विजः कश्चित्प्रयागे बहुभाषणः॥
रूपयौवनसंपन्नो विद्यामदसुगर्वितः

2.21-5.5

धनाढ्यो बहुपुत्राढ्यः सदाऽहंकारदूषितः॥
कुसीदस्य मुनेः पुत्रो नाम्ना रोचन इत्यहम्

2.21-5.6

आसनं शयनं निद्रा व्यवायोऽक्षपरिक्रियाः॥
लोकवार्ता कुसीदं वा व्यापारास्ते ममाऽभवन्

2.21-5.7

तन्तुमात्राणि कर्माणि लोकनिन्दाविशंकितः ॥
सदम्भश्च सदा कुर्वे न श्रद्धा मे कदाचन

2.21-5.8

दुर्बुद्धेर्मम दुष्टस्य कियत्कालो गतोऽभवत् ॥
तदा वैशाखमासेऽस्मिञ्जयंतोनाम वै द्विजः

2.21-5.9

श्रावयामास तन्मासधर्मान्भागवतप्रियान्॥
तत्क्षेत्रे वासिनां पुण्यकर्मणां च द्विजन्मनाम्

2.21-5.2.7.21.10

नारीनराः क्षत्रियाश्च वैश्याः शूद्राः सहस्रशः ॥
प्रातः स्नात्वा समभ्यर्च्य मधुसूदनमव्ययम्

2.21-5.11

कथां शृण्वंति सततं जयन्तेन समीरिताम् ॥
शुचिभूत्वा मौनधरा वासुदेवकथारताः

2.21-5.12

वैशाखधर्मनिरता दंभालस्यविवर्जिताः ॥
तां सभां च प्रविष्टोऽहं कौतुकाच्च दिदृक्षया

2.21-5.13

सोष्णीषेण मया मूर्ध्ना नमस्कारोऽपि न कृतः॥
तांबूलं च मुखे कृत्वा कञ्चुकं च मया धृतम्

2.21-5.14

कथाविक्षेपमचरं लोकवार्ताभिरंजनात् ॥
सर्वेषां चित्तचांचल्यमभूद्वै लोकवार्तया

2.21-5.16

क्वचिद्वासः प्रसार्याहं क्वचिन्निंदन्क्वचिद्धसन्॥
एवं कालो मयानीतः कथा यावत्समाप्यते।१५।
पश्चात्तेनैव दोषेण सद्योऽल्पायुर्विनष्टधीः ॥
सन्निपातेन पञ्चत्वं प्राप्तोऽहं च परे दिने

2.21-5.17

तप्तसीसजलैः पूर्णं निरयं च हलाहलम्॥
प्राप्य भुक्त्वा यातनां च मन्वन्तानि चतुर्दश

2.21-5.18

युक्तेष्वथ च लक्षेषु तथा चतुरशीतिभिः ॥
क्रमाद्योनिषु जातोऽहमिदानीं चावसन्द्रुमे

2.21-5.19

दशयोजनविस्तीर्णे शतयोजनमुन्नते॥
व्यालोऽहं तामसः क्रूरः सप्तयोजनकोटरे

2.21-5.2.7.21.20

भूत्वा वसामि विप्रर्षे कर्मणा बाधितः पुरा ॥
अयुतं च समा याता निराहारस्य कोटरे

2.21-5.21

दैवात्तव मुखांभोजसमीरितकथामृतम् ॥
श्रुत्वा चक्षुर्द्वयेनाहं सद्यो ध्वस्ताशुभो मुने

2.21-5.22

व्यालयोनिं विसृज्याऽहं दिव्यरूपधरः पुमान्॥
प्रांजलिः प्रणतो भूत्वा पादौ ते शरणं गतः

2.21-5.23

कस्मिञ्जन्मनि त्वं बधुर्न जाने मुनिसत्तम ॥
न मयोपकृतं क्वाऽपि सानुकम्पः कुतः सताम्

2.21-5.24

साधूनां समचित्तानां सदा भूतदयावताम् ॥
परोपकारप्रकृतिर्न चैषामन्यथा मतिः

2.21-5.25

मामद्यानुगृहाण त्वं यथा धर्मे मतिर्भवेत् ॥
न भूयाद्विस्मृतिः क्वाऽपि विष्णोर्देवस्य चक्रिणः

2.21-5.26

महतां साधुवृत्तानां संग तिश्च सदा भवेत्॥
दारिद्यमेकमेव स्यान्मदांधपरमांजनम्

2.21-5.27

इति तं बहुधा स्तुत्वा प्रणम्य च पुनः पुनः॥
प्रांजलिः प्रणतस्तस्थौ तूष्णीमेव तदग्रतः

2.21-5.28

शंखो दोर्भ्यां समुत्थाप्य पूर्णप्रेमपरिप्लुतः॥
पस्पर्श पाणिना चांगं शंतमेन गताध्वसः

2.21-5.29

चक्रे सोऽनुह्ग्रहं तस्मिन्दिव्यरूपधरे द्विजे ॥
प्राह तं कृपयाऽऽविष्टो भाविवृत्तान्तमञ्जसा

2.21-5.2.7.21.30

द्विज त्वं मासमाहात्म्यश्रवणाच्च हरेरपि ॥
माहात्म्यश्रवणात्सद्यो विध्वस्ताऽखिलबंधनः

2.21-5.32

अतिहाय कलंकं च क्रमाद्गत्वा पुनर्भुवि ॥
दशार्णे विषमे पुण्ये भविता त्वं द्विजोत्तमः॥३१।
वेदशर्मेति विख्यातः सर्ववेदविशारदः॥
तत्र ते भविता जातिस्मृतिरात्यंतिकी शुभा

2.21-5.33

तथा स्मृतानुबन्धस्त्वं त्यक्तसर्वेषणः शुभः॥
करोषि सकलान्धर्मान्वैशाखोक्तान्हरिप्रियान्

2.21-5.34

निर्द्वन्द्वो निःस्पृहोऽसंगो गुरु भक्तो जितेन्द्रियः॥
सदा विष्णुकथालापो भविता तत्र जन्मनि

2.21-5.35

ततः सिद्धिं समाप्याथ विध्वस्ताऽखिलबन्धनः॥
प्राप्नोषि परमं धाम योगैरपि दुरासदम्

2.21-5.36

मा भैषीः पुत्र भद्रं ते भविता मत्प्रसादतः॥
हास्याद्भयात्तथा क्रोधाद्द्वेषात्कामादथाऽपि वा

2.21-5.37

स्नेहाद्वा सकृदुच्चार्य विष्णोर्नामाऽघहारि च॥
पापिष्ठा अपि गच्छन्ति विष्णोर्धाम निरामयम्

2.21-5.38

किमु तच्छ्रद्धया युक्ता जितक्रोधा जितेन्द्रियाः॥
दयावन्तः कथां श्रुत्वा गच्छंतीति द्विजोत्तम

2.21-5.39

केचित्केवलया भक्त्या कथालापैकतत्पराः॥
सर्वधर्म्मोज्झिता वाऽपि यांति विष्णोः परं पदम्

2.21-5.2.7.21.40

द्वेषादिना च भक्त्या वा केचिद्विष्णुमुपासते॥
तेऽपि यांति परं धाम पूतनेवासुहारिणी

2.21-5.41

महद्भिः संगतो नित्यं वाग्विसर्गस्तदाश्रयः॥
मुमुक्षूणां च कर्तव्यः स विधिः श्रुतिचोदितः

2.21-5.42

स वाग्विसर्गो जनताऽघविप्लवो यस्मिन्प्रतिश्लोकमबद्धवत्यपि ॥
नामान्यनंतस्य यशोंकितानि यच्छृण्वन्ति गायन्ति गृणंति साधवः

2.21-5.43

यः कष्टसेवां न च कांक्षते विभुर्न वासनं भूरि न रूपयौवने॥
स्मृतः सकृद्गच्छति धाम भास्वरं कं वा दयालुं शरणं व्रजेत

2.21-5.44

तमेव शरणं याहि नारायणमनामयम् ॥
भक्तवत्सलमव्यक्तं चेतोगम्यं दयानिधिम्

2.21-5.45

कुरु सर्वानिमान्धमान्वैशाखोक्तान्महामते ॥
तेन तुष्टो जगन्नाथः शर्म ते च विधास्यति

2.21-5.47

इत्युक्त्वा विररामाथ व्याधं दृष्ट्वा सुविस्मितः॥
स दिव्यः पुरुषः प्राह पुनस्तं मुनिपुंगवम् ॥४६।
॥ दिव्यपुरुष उवाच॥
धन्योस्म्यनुगृहीतोऽस्मि त्वया शंख दयालुना ॥
दिष्ट्या गता मे दुर्योनिर्यामि चैव परां गतिम्

2.21-5.48

इति तं च परिक्रम्य ह्यनुज्ञातो दिवं ययौ॥
ततः सायमभूद्राजञ्च्छंखो व्याधेन तोषितः

2.21-5.49

संध्यां सायन्तनीं कृत्वा रात्रिशेषं निनाय च॥
नानाख्यानेश्च भूपानां देवानां च महात्मनाम्

2.21-5.51

लीलाभिरवताराणां दृष्टगो ष्ठिभिरेव च ॥
ब्राह्मे मुहूर्ते चोत्थाय पादौ प्रक्षाल्य वाग्यतः॥ 2.7.21.५०।
ध्यायंश्च तारकं ब्रह्म कृत्वा शौचादिसत्क्रियाम्॥
वैशाखे मेषगे सूर्ये स्नात्वा प्राक्च भगोदयात्

2.21-5.52

कृत्वा संध्यादिकं कर्म तथा संतर्प्य चाऽखिलान् ॥
व्याधमाहूय हृष्टात्मा मूर्ध्नि प्रोक्ष्य निरीक्ष्य च

2.21-5.53

रामेति द्व्यक्षरं नाम ददौ वेदाधिकं शुभम् ॥
विष्णोरेकैकनामाऽपि सर्ववेदाधिकं मतम्

2.21-5.54

तेभ्यश्चाऽनंतनामभ्योऽधिकं नाम्नां सहस्रकम्॥
तादृङ्नामसहस्रेण रामनाम समं मतम्

2.21-5.55

तस्माद्रामेति तन्नाम जप व्याध निरंतरम् ॥
धर्मानेतान्कुरु व्याध यावदामरणांतिकम्

2.21-5.56

ततस्ते भविता जन्म वल्मीकस्य ऋषेः कुले॥
वाल्मीकिरिति नाम्ना च भूमौ ख्यातिमवाप्स्यसि

2.21-5.57

इति व्याधं समादिश्य प्रतस्थे दक्षिणां दिशम्॥
व्याधोऽपि तं परिक्रम्य प्रणम्य च पुनःपुनः

2.21-5.58

किंचिद्दूरानुगो भूत्वा स रुदन्विरहातुरः ॥
यावद्दृष्टिपथं तावत्पश्यंस्तस्य गतिं पुनः

2.21-5.59

पुनर्निववृते कृच्छ्रात्तमेव हृदि चिंतयन् ॥
वनं निर्माय तन्मार्गे प्रपां कृत्वा सुनिर्मलाम्

2.21-5.2.7.21.60

अतियोग्यानिमान्धर्मान्वैशाखोक्तांश्चकार ह॥
वन्यैः कपित्थपनसैर्जंबूचूतादिभिः फलैः

2.21-5.61

मार्गानां श्रमार्तानामाहारं परिकल्पयन्॥
उपानद्भिश्चंदनैश्च छत्रैश्च व्यजनैरपि

2.21-5.62

वालुकास्तरणोपेतच्छायाभिश्च क्वचित्क्वचित्॥
आजहाराथ पांथानां श्रमं स्वेदोद्भवं तथा

2.21-5.63

प्रातः स्नात्वा दिवारात्रं जपन्रामेति वै मनुम्॥
व्याधजन्मनि नामाऽसौ वल्मीकस्य सुतोऽभवत्

2.21-5.64

कृणुर्नाम मुनिः कश्चित्तस्मिन्नेव सरोवरे ॥
तपो वै दुस्तरं तेपे बाह्यव्यापारवर्जितः

2.21-5.65

वल्मीकमभवद्देहे तस्य कालेन भूयसा ॥
वल्मीक इति तं प्राहुरतो वै मुनिपुंगवम्

2.21-5.66

पश्चात्तपोविरामांते कृणौ स्मृतिपथं गते ॥
स्त्रियोऽनुस्मरतो राजन्स्खलितं चेंद्रियं मुनेः

2.21-5.67

जग्राह शैलुषी काचित्तस्यां जज्ञे वनेचरः॥
वाल्मीकिरिति विख्यातो भुवनेषु महायशाः

2.21-5.68

यो वै रामकथां दिव्यां स्वैः प्रबंधैर्मनोहरैः।
लोके प्रख्यापयामास कर्मबन्धनिकृंतनीम्

2.21-5.69

॥श्रुतदेव उवाच ॥
पश्य वैशाखमाहात्म्यं भूपालाद्याऽपि भूतिदम्॥
व्याधोप्युपानहौ दत्त्वा ऋषित्वं प्राप दुर्लभम्

2.21-5.70

य इदं परमाख्यानं पापघ्नं रोमहर्षणम् ॥
शृणुयाच्छ्रावयेद्वाऽपि न भूयः स्तनपो भवेत्

2.21-5.21

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे व्याधोपाख्याने वाल्मीकेर्जन्मकथनन्नामैकविंशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc