भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.20-5

2.20-5.1

"वाल्मीके:पूर्वजन्मस्यकथा
"व्याध-उवाच॥
किं जीवा विभुना सृष्टाः कोटिशोऽथ सहस्रशः॥
दृश्यन्ते भिन्नकर्माणो नानामार्गाः सनातनाः

2.20-5.2

नैकस्वभावा एते हि कुत एव महामते॥
सर्वं तत्पृच्छते मह्यं विस्तरात्तत्त्वतो वद

2.20-5.3

"शंख उवाच।
त्रिविधा जीवसंघा हि रजःसत्त्वतमोगुणाः॥
राजसा राजसं कर्म तामसास्तामसं तथा

2.20-5.4

सात्त्विकाः सात्त्विकं कर्म कुर्वंत्येते यथाक्रमम्॥
क्वचिच्च गुणवैषम्यमेतेषां संसृतौ भवेत्

2.20-5.5

तेनैवोच्चावचं कर्म कुर्वंतः फलभागिनः॥
क्वचित्सुखं क्वचिद्दुःखं क्वचिच्चोभयमेव च

2.20-5.6

गुणानामेव वैषम्यात्प्राप्नुवन्ति नरा इमे॥
प्रकृतिस्था इमे जीवा बद्धा एतैर्गुणैस्त्रिभिः

2.20-5.7

गुणकर्माऽनुरूपेण कर्मणां व्यत्ययः फलम् ॥
गुणानुगुण्यं भूयस्ते प्रकृतिं यान्त्यमी जनाः

2.20-5.8

प्रकृतिस्थाः प्राकृतिका गुणकर्माऽभिमूर्छिताः ॥
गतिं प्राकृतिकीं यांति व्यत्ययः प्रकृतेर्न हि

2.20-5.9

तामसा दुःखबहुलाः सदा तामसवृत्तयः ॥
निर्दया निष्ठुरा लोके सदा द्वेषैकजीविनः

2.20-5.2.7.20.10

राक्षसाद्याः पिशाचांतास्तामसीं यांति वै गतिम्॥
राजसा मिश्रमतयः कर्तारः पुण्यपापयोः

2.20-5.11

पुण्यात्स्वर्गं प्राप्नुवन्ति क्वचित्पापाच्च यातनाम्॥
अत एते मन्दभाग्या आवर्तंते पुनः पुनः

2.20-5.12

धर्मशीला दयावन्तः श्रद्धावन्तोऽनसूयकाः॥
सात्त्विकाः सात्त्विकीं वृत्तिमनुतिष्ठंत आसते

2.20-5.13

ते चोर्ध्वं यांति विमला गुणापाये महौजसः॥
विभिन्नकर्मणां चातः पृथग्भावाः पृथग्विधाः

2.20-5.14

गुणकर्मानुरूपेण तेषां विष्णुर्महाप्रभुः ॥
कर्माणि कारयत्यद्धा स्वस्वरूपाप्तये विभुः

2.20-5.15

विष्णोर्वैषम्यनैर्घृण्ये पूर्णकामस्य वै नहि ॥
सृष्टिं स्थितिं हृतिं चैव समामेव करोत्ययम्

2.20-5.16

स्वगुणादेव ते सर्वे कर्मणः फलभागिनः ॥
आरामोप्तान्यथा सर्वान्समं वर्षयति द्रुमान्

2.20-5.17

एककुल्याजला ह्यंग द्रुमाश्च प्रकृतिं गताः॥
नारामोप्तरि वैषम्यं नैर्घृण्यं वा कथंचन

2.20-5.18

"व्याध उवाच॥
जनानां पूर्णभोगानां कदा मुक्तिर्भवेन्मुने ॥
सृष्टिकालेऽथवा ह्यंतकाले वा स्थापनस्य च

2.20-5.19

क्वचिच्च सृष्टिकालस्य संहारस्याऽपि वै स्थितेः॥
एतद्विस्तार्य मे ब्रह्मन्भगवच्चेष्टितं वद

2.20-5.2.7.20.20

॥
॥शंख उवाच॥
चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते॥
रात्रिश्च तावती तस्य ह्यहोरात्रं दिनं भवेत्

2.20-5.21

दशपञ्चदिनान्याहुः पक्षं मासो द्वयात्मकः॥
मासद्वयमृतुं प्राहुरयनं च ऋतुत्रयम्

2.20-5.22

अयने द्वे वत्सरः स्यात्तादृक्च्छतसमा यदि॥
गच्छंति ब्रह्मणो ह्यस्य ब्रह्मकल्पं तदा विदुः

2.20-5.23

तावान्हि प्रलयः काल इति वेदविदां मतम् ॥
प्रलयस्त्रिविधः प्रोक्तो मानवो मानवात्यये

2.20-5.25

दैनंदिनो द्वितीयो हि ब्रह्मणो दिवसात्यये ॥
ब्रह्मणोऽथ लये पश्चाद्ब्राह्मं च प्रलयं विदुः॥२४।
ब्रह्मणस्तु मुहूर्ते तु मनोस्तु प्रलयं विदुः ॥
प्रलयेषु व्यतीतेषु चतुर्दशसु वै क्रमात्

2.20-5.26

दैनंदिनलयं प्राहुः प्रलयानां स्थितिं पुनः॥
त्रयाणामेव लोकानां लयो मन्वंतरे भवेत्

2.20-5.27

चेतनानां तदा नाशो न लोकानां क्षयो भवेत्॥
उदकैरेव पूर्तिश्च यथा पूर्वं तथा पुनः

2.20-5.28

मन्वंतरांते भूयात्तु चेतनानां पुनर्भवः ॥
दैनंदिनलये व्याध सर्वस्यापि क्षयो भवेत्

2.20-5.29

सत्यलोकं विना सर्वे लोका नश्यंति साधिपाः॥
सचेतनाः साधिभूताः प्रसुप्ते चतुरानने

2.20-5.2.7.20.30

तत्त्वाभिमानिनो देवाः केचिच्च मुनयस्तथा ॥
शिष्यंति सुप्ताः सर्वेऽपि सत्यलोकव्यवस्थिताः

2.20-5.31

तिष्ठंति सुप्तिमापन्ना यावत्कल्पमतींद्रियाः ॥
पुनर्निशात्यये ब्रह्मा यथापूर्वमकल्पयत्

2.20-5.32

ऋषीन्देवान्पितॄँल्लोकान्धर्मान्वर्णान्पृथक्पृथक् ॥
पुनर्दशावतारा हि विष्णोर्देवस्य चक्रिणः

2.20-5.33

नियमेन भवंत्येते तथान्येऽपि च भूरिशः ॥
देवता ऋषयश्चैव आकल्पं च गिरां पतेः

2.20-5.34

पुनरेवाऽभिवर्तंते ब्रह्मणा सह मुक्तिगाः॥
भूपाश्च साधवो ये च सिद्धिं प्राप्ताः परंगताः

2.20-5.35

तेनैव चाभिवर्तंते सत्यलोकव्यवस्थिताः ॥
तद्राशिगाः पुनर्यांति तन्नाम्ना श्रुतिसंस्थिताः

2.20-5.36

तत्तद्गोत्रेषु जायंते तत्तत्कर्मरताः सदा ॥
दैत्यानामपि सर्वेषां यदा कलियुगात्ययः

2.20-5.37

कलिना सह गच्छंति स्वां गतिं निरयालयाः॥
तेषां च राशिसंस्था ये तन्नामानोऽपरेऽपि च

2.20-5.38

जायन्ते कर्मणा स्वेन तत्तत्कर्मविधायकाः॥
सृष्टिकालं प्रवक्ष्यामि मुक्तिकालं तथैव च

2.20-5.39

ब्रह्मादीनां च देवानां समाहितमना भव ॥
निमेषो देवदेवस्य ब्रह्मकल्पसमो मतः

2.20-5.2.7.20.40

तस्यावसाने चोन्मेषो देवदेवशिखामणेः॥
निमेषांऽते भवेदिच्छा स्रष्टुं लोकांश्च कुक्षिगान्

2.20-5.41

सोऽपश्यत्स्वोदरे सर्वाञ्जीवसंघाननेकशः॥
सृज्यान्मुक्तानमृन्सर्वाँ लिंगभंगमुपागतान्

2.20-5.42

सुप्ताः सृतिस्थाः सर्वेऽपि तमोगा अपि सर्वशः॥
पूर्वकल्पे लिंगभंगमापन्ना विधिपूर्वकाः

2.20-5.43

मानवांता जीवकोशा जीवन्मुक्ताश्च मुक्तिगाः ॥
पूर्वकल्पे विमुक्ताश्च ब्रह्माद्या मानवांतकाः

2.20-5.44

ध्यानसंस्था हि तिष्ठंति विष्णुकुक्षिगता अपि ॥
उन्मेषस्यादिमे भागे चतुर्व्यूहात्मको विभुः

2.20-5.45

भूत्वा तु पूर्वसाद्गुण्याद्वासुदेवाच्च व्यूहगात् ॥
दत्त्वा तु ब्रह्मणो मुक्तिं सायुज्याख्यां महाविभुः

2.20-5.46

दत्त्वा तदनु सायुज्यं तत्त्वज्ञानं महात्मनाम् ॥
सारूप्यं चैव केषांचित्सामीप्यं च तथा विभुः

2.20-5.47

सालोक्यं च तथाऽन्येषां दत्त्वा देवो जनार्दनः ॥
अनिरुद्धवशे सर्वान्स्थिताँल्लोकानलोकयत्

2.20-5.49

प्रद्युम्नस्य वशे दत्त्वा सृष्टिं कर्तुं मनो दधे॥
मायां जयां कृतिं शांतिमुपयेमे स्वयं हरिः॥४८।
चतुर्व्यूहैः पूर्णगुणैर्वासुदेवादिकैः क्रमात्॥
ताभिर्युक्तो महाविष्णुश्चतुर्व्यूहात्मको विभुः

2.20-5.2.7.20.50

भिन्नकर्माशयं लोकं पूर्णकामो व्यजीजनत्॥
उन्मेषांते पुनर्विष्णुर्योगमायां समाश्रितः

2.20-5.51

संकर्षणाद्व्यूहगाच्च हरत्येतच्चराचरम् ॥
तदेतत्सर्वमाख्यातं कार्यं चिंत्यं महात्मनः

2.20-5.52

यदचिंत्यं दुर्विभाव्यं ब्रह्माद्यैरपि योगिभिः॥
"व्याध उवाच॥
के वा भागवता धर्माः कैर्विष्णुश्च प्रसीदति

2.20-5.53

तानहं श्रोतुमिच्छामि सांप्रतं वद नो मुने॥
॥शंख उवाच॥
येन चित्तविशुद्धिः स्याद्यः सतामुपकारकः

2.20-5.54

तं विद्धि सात्त्विकं धर्मं यश्च केनाप्य निंदितः॥
श्रुतिस्मृत्युदितो यस्तु यदि निष्कामिको भवेत्

2.20-5.55

यस्तु लोकाऽविरुद्धोऽपि तं धर्मं सात्त्विकंविदुः॥
चतुर्विधा हि ते धर्मा वर्णाश्रमविभागतः

2.20-5.56

नित्यनैमित्तिकाः काम्या इति ते च त्रिधा मताः।
ते सर्वे स्वस्वधर्माश्च यदा विष्णोः समर्पिताः

2.20-5.57

तदा वै सात्त्विका ज्ञेया धर्मा भागवताः शुभाः॥
देवतांतरदैवत्याः सकामा राजसा मताः

2.20-5.58

यक्षरक्षःपिशाचादिदैवत्या लोकनिष्ठुराः॥
हिंसात्मका निंदिताश्च धर्मास्ते तामसाः स्मृताः

2.20-5.2.7.20.60

सत्त्वस्थाः सात्त्विकान्धर्मान्विष्णुप्रीतिकराञ्च्छुभान्।
कुर्वंत्यनीहया नित्यं ते वै भागवताः स्मृताः॥५९।
येषां चित्तं सदा विष्णौ जिह्वायां नाम वै विभोः।
पादौ च हृदये येषां ते वै भागवताः स्मृताः

2.20-5.61

सदाचार रता ये च सर्वेषामुपकारकाः ॥
सदैव ममताहीनास्ते वै भागवताः स्मृताः

2.20-5.62

येषां च शास्त्रे विश्वासो गुरौ साधुषु कर्मसु ॥
ये विष्णु भक्ताः सततं ते वै भागवताः स्मृताः

2.20-5.63

येषां हि संमता धर्माः शाश्वता विष्णुवल्लभाः॥
श्रुतिस्मृत्युदिता ये च ते धर्माः शाश्वता मताः

2.20-5.66

अटनं सर्वदेशेषु वीक्षणं सर्वकर्मणाम् ॥
श्रवणं सर्वधर्माणां विषयाऽऽसक्तचेतसाम्॥६४।
अकिंचित्करमेतेषां षंढस्येव वरस्त्रियः ॥
साधूनां दर्शनेनैव मनो द्रवति वै सताम्॥६५।
चंद्रस्य कौमुदीसंगाच्चंद्रकांतशिला यथा ॥
क्वचित्सच्छास्त्रश्रवणाद्विषयै रहितं मनः

2.20-5.67

तिष्ठत्येव सतां पुंसां तेजोरूपं ह्यकल्मषम् ॥
पद्मबन्धोः प्रभासंगात्सूर्यकांतशिला यथा

2.20-5.68

निष्कामैर्हि जनैर्यैस्तु श्रद्धया समुपाश्रितः॥
यो विष्णुवल्लभो नित्यं धर्मो भागवतो मतः

2.20-5.69

तैर्दृष्टा वहवो धर्मा इहाऽमुत्र फलप्रदाः॥
विष्णुप्रीतिकराः सूक्ष्माः सर्वदुःखविमोचकाः

2.20-5.2.7.20.70

दध्नः सारमिवोद्धृत्य धर्मं वैशाखसंभवम् ॥
रमायै भगवानाह क्षीराब्धौ हितकाम्यया

2.20-5.71

मार्गच्छायाविनिर्माणं प्रपादानं च वै तथा ॥
व्यजनैर्व्यजनं चैव प्रश्रयाणां समर्पणम्

2.20-5.72

छत्रस्योपानहोर्दानं दानं कर्पूरगन्धयोः ॥
वापीकूपतडागानां निर्माणं विभवे सति

2.20-5.73

सायाह्ने पानकस्यापि दानं तु कुसुमस्य च ॥
तांबूलदानं पापघ्नं गोरसानां विशेषतः

2.20-5.74

लवणान्विततक्रस्य दानं श्रांताय वै पथि ॥
अभ्यंगकरणं चैव द्विजपादावनेजनम्

2.20-5.75

कटकम्बलपर्यंकदानं गोदानमेव च॥
मधुयुक्ततिलानां च दानं पापविनाशनम्

2.20-5.76

सायाह्ने चेक्षुदण्डानां दानमुर्वारुकस्य च ॥
रसायनप्रदानं च पितृनिर्वापणं तथा

2.20-5.77

एते धर्मापि शिष्योक्ता मासेऽस्मिन्माधवप्रिये॥
प्रातः सूर्योदये स्नात्वा शृण्वन्द्विजकुलेरितम्

2.20-5.78

नित्यकर्माणि कृत्वैवं मधुसूदनमर्चयेत् ॥
कथां माधवमासीयां शृणुयाच्च समाहितः

2.20-5.79

तैलाभ्यंगं वर्जयेच्च कांस्यपात्रे तु भोजनम् ॥
निषिद्धभक्षणं चैव वृथाऽऽलापं तु वर्जयेत्

2.20-5.2.7.20.80

अलाबुं गृंजरं चैव लशुनं तिलपिष्टकम्॥
आरनालं भिस्सटं च घृतकोशातकीं तथा

2.20-5.81

उपोदकीं कलिंगं च शिग्रुशाकं च वर्जयेत् ॥
निष्पावानि कुलित्थानि मसूराणि च वर्जयेत्

2.20-5.82

वृंताकानि कलिंगानि कोद्रवाणि च वर्जयेत्॥
तंदुलीयकशाकं च कौसुम्भं मूलकं तथा

2.20-5.83

औदुंबरं बिल्वफलं तथा श्लेष्मा तकीफलम् ॥
सर्वथा वर्जयेद्विद्वान्मासेऽस्मिन्माधवप्रिये

2.20-5.84

एतेष्वन्यतमं भुक्त्वा स चंडालो भवेद्ध्रुवम् ॥
तिर्यग्योनिशतं याति नात्र कार्या विचारणा

2.20-5.85

एवं मासव्रतं कुर्यात्प्रीतये मधुघातिनः॥
एवं व्रते समाप्ते तु प्रतिमां कारयेद्विभोः

2.20-5.86

मधुसूदनदैवत्यां सवस्त्रां च सदक्षिणाम् ॥
स्वर्चितां विभवैः सर्वैर्ब्राह्मणाय निवेदयेत्

2.20-5.87

वैशाखसितद्वादश्यां दद्याद्दध्यन्नमंजसा ॥
सोदकुम्भं सतांबूलं सफलं च सदक्षिणम्

2.20-5.88

ददामि धर्मराजाय तेन प्रीणातु वै यमः॥
अपसव्यात्समुच्चार्य नामगोत्रे पितुस्ततः

2.20-5.89

दद्याद्दध्यन्नमक्षय्यं पितॄणां तृप्तिहेतवे ॥
गुरुभ्यश्च तथा दद्यात्पश्चाद्दद्याच्च विष्णवे

2.20-5.2.7.20.90

शीतलोदकदध्यन्नं कांस्यपात्रस्थमुत्तमम्॥
सदक्षिणं सतांबूलं सभक्ष्यं च फलान्वितम्

2.20-5.91

ददामि विष्णवे तुभ्यं विष्णुलोकजिगीषया ॥
इति दत्त्वा यथाशक्त्या गां च दद्यात्कुटुंबिने

2.20-5.92

एवं मासव्रतं कुर्याद्यो दंभेन विवर्जितः॥
स सर्वैः पातकैर्हीनः कुलमुद्धृत्य वै शतम्

2.20-5.93

पश्यतामेव भूतानां भित्त्वा वै सूर्यमंडलम्॥
याति विष्णोः परं धाम योगिनामपि दुर्लभम्

2.20-5.94

व्याख्यात्येवं द्विजकुलवरे माधवीयांश्च॥
धर्मान्विष्ण्वादीष्टानतिमहितरान्व्याधपृष्टान्समस्तान्

2.20-5.95

वटः सद्यः पश्यतामेव भूमौ पपाताहो पञचशाखी द्रुमोऽयम्॥
वृक्षात्तस्मात्कोटरे संस्थितो हि व्यालः कश्चिद्दीर्घदेही करालः॥
हित्वा देहं पापयोनिं च सद्यः स वै तस्थौ प्रांजलिर्नम्रमूर्धा

2.20-5.20

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखंडे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे भागवतधर्मकथनंनाम विंशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc