स्कन्द पुराण · श्लोक 2.16-6
॥ ॥ श्रुतदेव उवाच ॥ ॥
तद्दर्शनाह्लादपरिप्लुताशयः सद्यः समुत्थाय ननाम मूर्ध्ना ॥
चिरं निरीक्ष्याऽऽकुललोचनो ह्यमुं विश्वात्मदेवं जगतामधीशम्
दधार पादाववनिज्य तज्जलं यत्पादजाऽऽब्रह्म जगत्पुनाति ॥
समर्चयामास महाविभूतिभिर्महार्हवस्त्राभरणानुलेपनैः
स्रग्धूपदीपामृतभक्षणादिभिस्त्वग्गात्रवित्तात्मसमर्पणेन ॥
तुष्टाव विष्णुं पुरुषं पुराणं नारायणं निर्गुणमद्वितीयम्
निरंजनं विश्वसृजामधीशं वन्दे परं पद्मभवादिवंदितम् ॥
यन्मायया तत्त्वविदुत्तमा जना विमोहिता विश्वसृजामधीश्वरम् ॥
मुह्यंति मायाचरितेषु मूढा गुणेषु चित्रं भगवद्विचेष्टितम् ॥
अनीह एतद्बहुधैक आत्मना सृजत्यवत्यत्ति न सज्जतेऽप्यथ
समस्तदेवासुरसौख्यदुःखप्राप्त्यै भवान्पूर्णमनोरथोऽपि ॥
तत्राऽपि काले स्वजनाभिगुप्त्यै बिभर्षि सत्त्वं खलनिग्रहाय
तमोगुणं राक्षस बन्धनाय रजोगुणं निर्गुण विश्वमूर्ते ॥
दिष्ट्या त्वदंघ्रिः प्रणताघनाशनस्तीर्थास्पदं हृदि धृतः सुविपक्वयोगैः
उत्सिक्तभक्त्युपहृताशय जीवभावाः प्रापुर्गतिं तव पदस्मृतिमात्रतो ये ॥
भवाख्यकालोरगपाशबन्धः पुनःपुनर्जन्मजरादिदुःखैः
भ्रमामि योनिष्वहमाखुभक्ष्यवत्प्रवृद्धतर्षस्तव पादविस्मृतेः ॥
नूनं न दत्तं न च ते कथा श्रुता न साधवो जातु मयाऽपि सेविताः
तेनारिभिर्ध्वस्तपरार्ध्यलक्ष्मीर्वनं प्रविष्टः स्वगुरुह्यघं स्मरन् ॥
स्मृतौ च तौ मां समुपेत्य दुःखात्संबोधयांचक्रतुरार्तबंधू
वैशाखधर्मैः श्रुतिचोदितैः शुभैः स्वर्गापवर्गादि पुमर्थहेतुभिः ॥
तद्बोधतोऽहं कृतवान्समस्ताञ्च्छुभावहान्माधवमासधर्मान्
तस्मादभून्मे परमः प्रसादस्तेनाखिलाः संपद ऊर्जिता इमाः ॥
नाग्निर्न सूर्यो न च चन्द्रतारका न भूर्जलं खं श्वसनोऽथ वाङ्मनः
उपासितास्तेऽपि हरत्यघं चिराद्विपश्चितो घ्नन्ति मुहूर्तसेवया ॥
यान्मन्यसे त्वं भविनोऽपि भूरिशस्त्यक्तेषणांस्त्वत्पदन्यस्तचित्तान्
नमः स्वतंत्राय विचित्रकर्मणे नमः परस्मै सदनुग्रहाय ॥
त्वन्मायया मोहितोऽहं गुणेषु दारार्थरूपेषु भ्रमाम्यनर्थदृक्
त्वत्पादपद्मे सति मूलनाशने समस्तपापापहरं सुनिर्मलम् ॥
सुखेच्छयानर्थनिदानभूतैः सुतात्मदारैर्ममताभियुक्तः
न क्वापि निद्रां लभते न शर्म प्रवृद्धतर्षः पुनरेव तस्मिन् ॥
लब्ध्वा दुरापं नरदेवजन्म त्वं यत्नतः सर्वपुमर्थहेतुः
पदारविन्दं न भजामि देव संमूढचेता विषयेषु लालसः ॥
करोमि कर्माणि सुनिष्ठितः सन्प्रवृद्धतर्षस्तदपेक्षया ददत्
पुनश्च भूयामहमद्य भूयामित्येव चिन्ताशतलोलमानसः॥
तदैव जीवस्य भवेत्कृपा विभो दुरंतशक्तेस्तव विश्वमूर्ते
समागमः स्यान्महतां हि पुंसां भवांबुधिर्येन हि गोष्पदायते ॥
सत्संगमो देव यदैव भूयात्तर्हीश देवे त्वयि जायते मतिः
समस्तराज्यापगमं हि मन्ये ह्यनुग्रहं ते मयि जातमञ्जसा ॥
यथार्य ते ब्रह्मसुरासुराद्यैर्निवृत्ततर्षैरपि हंसयूथैः
इतः स्मराम्यच्युतमेव सादरं भवापहं पादसरोरुहं विभो ॥
अकिंचनप्रार्थ्यममन्दभाग्यदं न कामयेऽन्यत्तव पादपद्मात् ॥
अतो न राज्यं न सुतादिकोशं देहेन शश्वत्पतता रजोभुवा ॥
भजामि नित्यं तदुपासितव्यं पादारविंदं मुनिभिर्विचिन्त्यम्
प्रसीद देवेश जगन्निवास स्मृतिर्यथा स्यात्तव पादपद्मे ॥
सक्तिः सदा गच्छतु दारकोशपुत्रात्मचिह्नेषु गणेषु मे प्रभो
भूयान्मनः कृष्णपदारविन्दयोर्वचांसि ते दिव्यकथानुवर्णने ॥
नेत्रे ममेमे तव विग्रहेक्षणे श्रोत्रे कथायां रसना तदर्पिते
घ्राणं च त्वपादसरोजसौरभे त्वद्भक्तगन्धादिविलेपने सकृत् ॥
स्यातां च हस्तौ तव मन्दिरे विभो संमार्ज्जनादौ मम नित्यदैव
पादौ विभो क्षेत्रकथाऽनुसर्पणे मूर्धा च मे स्यात्तव वन्दनेऽनिशम् ॥
कामश्च मे स्यात्तव सत्कथायां बुद्धिश्च मे स्यात्तव चिंतनेऽनिशम्
दिनानि मे स्युस्तव सत्कथोदयैरुद्गीयमानैर्मुनिभिर्गृहागतैः ॥
हीनः प्रसंगस्तव मे न भूयात्क्षणं निमेषार्द्धमथाऽपि विष्णो
न पारमेष्ठ्यं न च सार्वभौमं न चापवर्गं स्पृहयामि विष्णो ॥
त्वत्पादसेवां च सदैव कामये प्रार्थ्यां श्रिया ब्रह्मभवादिभिः सुरैः
इति राज्ञा स्तुतो विष्णुः प्रसन्नः कमलेक्षणः ॥
मेघगम्भीरया वाचा तमुवाच क्षितीश्वरम्
॥ श्रीभगवानुवाच ॥ ॥
जाने त्वां दासवर्यं मे निष्कामुकमकल्मषम् ॥
अथाऽपि ते प्रदास्यामि वरं दैवतदुर्लभम्
आयुष्यं चायुतं दिव्यं संपदश्च नरेश्वर ॥
भक्तिर्मयि दृढा भूयादन्ते सायुज्यमेव च
त्वया कृतेन स्तोत्रेण मां स्तुवन्ति च ये भुवि ॥
तेषां तुष्टः प्रदास्यामि भुक्तिं मुक्तिं न संशयः
तृतीयैषाऽक्षयानाम भुवि ख्याता भविष्यति ॥
यस्यां तव प्रसन्नोऽहं भुक्तिमुक्तिफलप्रदः
ये कुर्वंति नरा मूढाः स्नानदानादिकाः क्रिया ॥
व्याजेनाऽपि स्वभावाद्वा यांति मत्पदमव्ययम्
ये चाऽक्षयतृतीयायां पितॄनुद्दिश्य मानवाः ॥
श्राद्धं कुर्वंति तेषां वै तदानंत्याय कल्पते
न चानया तिथिर्लोके समा वा नाधिका भुवि॥
अस्यां कृतं स्वल्पमपि तदक्षय्यफलं भवेत्
यो गां दद्यान्नृपश्रेष्ठ ब्राह्मणाय कुटुंबिने ॥
सर्वसंपत्प्रवर्षाख्या भुक्तिमुक्तिः करे स्थिता
यो हि दद्यादनड्वाहं सर्वपापविनाशनम् ॥
कालमृत्युविमुक्तः सन्दीर्घायुष्यमवाप्नुयात्
वैशाखमासे यो धर्मान्कुरुते मत्प्रियावहान् ॥
तेषां मृत्युजराजन्मभयं पापं हराम्यहम्
यथा वैशाखधर्मैस्तु तुष्टः स्यां सकलैरपि ॥
मासधर्मैर्न तुष्टः स्यां मासो मे माधवः प्रियः ॥
सर्वधमोज्झिता वापि ब्रह्मचर्यविवर्जिताः॥
वैशाखमासनिरता यांति मत्पदमव्ययम्
यद्दुरापं तपोभिश्च सांख्ययोगैर्मखैरपि ॥
तद्धाम परमं यांति वैशाखनिरता नराः
अपि पापसहस्रं वा मासोऽयं हरतेऽनघ ॥
प्रायश्चित्तविहीनं वा मत्पादस्मरणं यथा
गुरूपदिष्टः कांतारे वैशाखे निरतो भवान् ॥
समाराध्य जगन्नाथं तेनाप्तमखिलं नृप
धर्मेणानेन संप्रीतः प्रत्यक्षोऽहं भवामि ते ॥
भुक्त्वा भोगान्यथाकामान्देवैरपिसुदुर्लभान्
इति तस्मै वरं दत्त्वा देवदेवो जनार्दनः ॥
पश्यतामेव सर्वेषां तत्रैवांतरधीयत
ततो भूपालवर्योऽसौ बभूवात्यंतविस्मितः ॥
हृष्टपुष्टतनुर्भूप लब्धनष्टधनो यथा
ततः शशास पृथिवीं तच्चित्तस्तत्परायणः ॥
महद्भिर्बोधितो नित्यं गुरुभिश्च निरंतरम्
नान्यं प्रियतमं मेने वासुदेवमृते नृपः ॥
यत्संपर्कात्प्रिया आसन्दारामात्यसुतादयः
सर्वान्धर्मांश्चकाराऽसौ वैशाखोक्तान्पुनःपुनः ॥
तेन पुण्यप्रभावेन पुत्रपौत्रादिभिर्वृतः
भुक्त्वा मनोरथान्सर्वान्देवानामपि दुर्लभान् ॥
अंते जगाम सायुज्यं विष्णोर्देवस्य चक्रिणः
य इदं परमाख्यानं शृण्वन्ति श्रावयंति च ॥
ते सर्वे पापनिर्मुक्ता यांति विष्णोः परं पदम्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्वरीषसंवादे पांचालाधिपतेः सायुज्यप्राप्तिर्नाम षोडशोऽध्यायः
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0